मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — पूर्वार्धम् — सर्गः ५२

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — पूर्वार्धम् · 52

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

यो जीवस्यादितः स्वप्नो नानाकलनकोमलः ।

तमिमं विद्धि संसारं न सत्यं नाप्यसन्मयम्

॥१॥

न पुंस इव जीवस्य स्वप्नः संभवति क्वचित् ।

तेनैते जाग्रतो भावा जाग्रत्स्वप्नकृतोऽत्र हि

॥२॥

जीवस्वप्नमिमं दीर्घं क्षिप्रताप्रतिभासतः ।

असत्यमप्यवस्तुत्वाद्विद्धि वेद्यविदां वर

॥३॥

स्वप्नात्स्वप्नान्तरमिव गच्छन्तो जीवजीवकाः ।

असत्यमेव पश्यन्ति घनसत्यतयानघ

॥४॥

अजडे जडता तात जडे चाजडतोदिता ।

असत्ये सत्यता जीवजीवानुभवमोहतः

॥५॥

भानोरप्यन्तरखिलं पश्यन्तस्त्रिजगद्भ्रमम् ।

भ्रमन्ति स्वप्नसंभ्रान्ता इव जीवा भिदालिभिः

॥६॥

सर्वगत्वादनन्तत्वात्स्वस्य जीवस्य जीवतः ।

यद्भावयन्ति चेतन्ति तदेवाश्विति सत्यवत्

॥७॥

पुण्डरीकाक्षनिर्दिष्टामसंसक्तिगतिं शुभाम् ।

यामालिङ्ग्य महाबाहो जीवन्मुक्तो महामुनिः

॥८॥

पाण्डोः पुत्रोऽर्जुनो नाम सुखं जीवितमात्मनः ।

क्षिपयिष्यति निर्दुःखं तथा क्षेपय जीवितम्

॥९॥

श्रीराम उवाच ।

भविष्यति कदा ब्रह्मन्सोऽर्जुनः पाण्डुनन्दनः ।

कीदृशीं च हरिस्तस्य कथयिष्यत्यसक्तताम्

॥१०॥

श्रीवसिष्ठ उवाच ।

अस्ति सन्मात्रमात्मेति परिकल्पितनामकम् ।

स्थितमात्मन्यनाद्यन्ते नभसीव महानभः

॥११॥

दृश्यते विमले तस्मिन्नयं संसारविभ्रमः ।

कटकादि यथा हेम्नि तरङ्गादि यथाम्भसि

॥१२॥

चतुर्दशविधा भूतजातयः प्रस्फुरन्त्यलम् ।

तस्मिन्संसारजालेऽस्मिञ्जाले शकुनयो यथा

॥१३॥

तत्रैते यमचन्द्रार्कशक्राद्याः शंसितक्रमाः ।

भूतपञ्चकसंसारलोकपालत्वमागताः

॥१४॥

इदं पुण्यमुपादेयं हेयं पापमिदं त्विति ।

तैः स्वसंकल्पघटिताद्वेदनात्स्थापिता स्थितिः

॥१५॥

तस्याद्य यावदनघ प्रवाहपतिते निजे ।

कर्मण्यचलसंकाशस्थिरं चित्तमवस्थितम्

॥१६॥

भगवान्स यमः किंचिद्गते प्रतिचतुर्युगे ।

तपः प्रकुरुते भूतदलनात्पापशङ्कया

॥१७॥

कदाचिदष्टौ वर्षाणि दश द्वादश वापि च ।

कदाचित्पञ्चसप्तादि कदाचित्षोडशापि च

॥१८॥

उदासीनवदासीने तस्मिन्नियमसंस्थितौ ।

न हिनस्ति जगज्जाले मृत्युर्भूतानि कानिचित्

॥१९॥

तेन नीरन्ध्रभूतौघनिःसंचारं महीतलम् ।

भवति प्रावृषि स्वेदी कुञ्जरो मशकैरिव

॥२०॥

अथैतानि विचित्राणि भूतानि बहुयुक्तिभिः ।

क्षिपयन्ति सुरा राम भुवो भारनिवृत्तये

॥२१॥

एवं युगसहस्राणि व्यवहारशतानि च ।

समतीतान्यनन्तानि भूतानि च जगन्ति च

॥२२॥

वैवस्वतोऽद्य तु यमो य एष पितृनायकः ।

अनेन त्वधुना साधो परिक्षीणेषु केषुचित्

॥२३॥

युगेष्वघविघाताय वर्षाणि द्वादशात्मना ।

व्रतचर्येह कर्तव्या दूरास्तजनकर्षणा

॥२४॥

तेनेयमुर्वी नीरन्ध्रा भूतैर्मर्त्यैरमृत्युभिः ।

दीना प्रपन्ना गुल्मेव भारभूतैर्भविष्यति

॥२५॥

भूभारपरिभूताङ्गी हरिं शरणमेष्यति ।

कान्ता दस्युपराभूता दीना पतिमिव प्रिया

॥२६॥

हरिर्देहद्वयेनाथ महीमवतरिष्यति ।

देवांशैरखिलैः सार्धं नरनारायणं गतैः

॥२७॥

वसुदेवसुतस्त्वेको वासुदेव इति श्रुतः ।

देहो भविष्यति हरेर्द्वितीयः पाण्डवोऽर्जुनः

॥२८॥

युधिष्ठिर इति ख्यातो धर्मपुत्रो भविष्यति ।

अम्भोधिमेखलाभूपःपाण्डोः पुत्रः स धर्मवित्

॥२९॥

दुर्योधन इति ख्यातस्तस्य भ्राता पितृव्यजः ।

भविष्यति दृढद्वन्द्वो भीमो बभ्रुरहेरिव

॥३०॥

अन्योन्यं हरतोरुर्वौ तयोः संग्रामलोलयोः ।

अष्टादशात्राक्षौहिण्यो घटिष्यन्त्यत्र भीषणाः

॥३१॥

तत्क्षयेण विभारत्वं भुवो विष्णुः करिष्यति ।

राघवाऽर्जुनदेहेन वृहद्गाण्डीवधन्वना

॥३२॥

विष्णोरर्जुननामादौ प्राकृतं भावमास्थितः ।

हर्षामर्षान्वितो देहो नरधर्मा भविष्यति

॥३३॥

सेनाद्वयगतान्दृष्ट्वा स्वजनान्मरणोन्मुखान् ।

विषादमेष्यत्युद्योगं युद्धाय न करिष्यति

॥३४॥

तमर्जुनाभिधं देहं प्राप्तकार्यैकसिद्धये ।

हरिर्बुद्धेन देहेन बोधयिष्यति राघव

॥३५॥

न जायते म्रियते वा कदाचि-

न्नायं भूत्वा भविता वा न भूयः ।

अजो नित्यः शाश्वतोऽयं पुराणो

न हन्यते हन्यमाने शरीरे

॥३६॥

य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् ।

उभौ तौ न विजानीतो नायं हन्ति न हन्यते

॥३७॥

अनन्तस्यैकरूपस्य सतः सूक्ष्मस्य खादपि ।

आत्मनः परमेशस्य किं कथं केन नश्यति

॥३८॥

अनन्तमव्यक्तमनादिमध्य-

मात्मानमालोकय संविदात्मन् ।

संविद्वपुः स्फारमलब्धदोष-

मजोऽसि नित्योऽसि निरामयोऽसि

॥३९॥

इत्यार्षे श्रीवासिष्ठमहारामा० वा ० दे० मोक्षो० निर्वाणप्रकरणे पू० अर्जुनोपाख्याने नरनारायणावतारकथनं नाम द्विपञ्चाशः सर्गः ५२