मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उपशमप्रकरणम् — सर्गः १८

3
योगवासिष्ठम् · उपशमप्रकरणम् · 18

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

युक्ताशयानां महतामहतानां कुदृष्टिभिः ।

स्वभावोऽयं महाबाहो लीलया चरतामिह

॥१॥

विहरन्नपि संसारे जीवन्मुक्तमना मुनिः ।

आदिमध्यान्तविरसा विहसेज्जागतीर्गतीः

॥२॥

सर्वप्रकृतकार्यस्थो मध्यस्थः सर्वदृष्टिषु ।

ध्येयं तं वासनात्यागमवलम्ब्य व्यवस्थितः

॥३॥

सर्वत्र विगतोद्वेगः सर्वार्थपरिपोषकः ।

विवेकोद्द्योतदृष्टात्मा प्रबोधोपवनस्थितिः

॥४॥

सर्वातीतपदालम्बी पूर्णेन्दुशिशिराशयः ।

नोद्वेगी नच तुष्टात्मा संसारे नावसीदति

॥५॥

सर्वशत्रुषु मध्यस्थो दयादाक्षिण्यसंयुतः ।

प्राप्तकर्मकरोऽग्र्याणां संसारे नावसीदति

॥६॥

नाभिनन्दति न द्वेष्टि न शोचति न काङ्क्षति ।

मौनस्थः प्रकृतारम्भी संसारे नावसीदति

॥७॥

पृष्टः सन्प्रकृतं वक्ति न पृष्टः स्थाणुवत्स्थितः ।

ईहितानीहितैर्मुक्तः संसारे नावसीदति

॥८॥

सर्वस्याभिमतं वक्ता चोदितः पेशलोक्तिमान् ।

आशयज्ञश्च भूतानां संसारे नावसीदति

॥९॥

युक्तायुक्तदृशा ग्रस्तमाशोपहतचेष्टितम् ।

जानाति लोकदृष्टान्तं करकोटरबिल्ववत्

॥१०॥

परं पदमुपारूढो भङ्गुरां जागतीं स्थितिम् ।

अन्तःशीतलया बुद्ध्या हसन्निव निरीक्षते

॥११॥

जितचित्ता महात्मानो ये हि दृष्टपरावराः ।

स्वभाव ईदृशस्तेषां कथितस्तव राघव

॥१२॥

वयं तु वक्तुं मूर्खाणामजितात्मीयचेतसाम् ।

भोगकर्दममग्नानां न विद्मोऽभिमतं मतम्

॥१३॥

तेषामभिमता नार्यो भावाभावविभूषिताः ।

ज्वालानरकवह्नीनां यास्ताः कनकरोचिषः

॥१४॥

अनर्थगहनाश्चार्था व्यर्थानर्थकदर्थनाः ।

दिशन्तो दुःखसंरम्भमभितः प्रहितापदः

॥१५॥

फलसंधीनि कर्माणि नानाचारमयानि च ।

सुखदुःखावपूर्णानि तानि वक्तुं न शक्नुमः

॥१६॥

पूर्णां दृष्टिमवष्टभ्य ध्येयत्यागविलासिनीम् ।

जीवन्मुक्ततया स्वस्थो लोके विहर राघव

॥१७॥

अन्तः संत्यक्तसर्वाशो वीतरागो विवासनः ।

बहिः सर्वसमाचारो लोके विहर राघव

॥१८॥

उदारः पेशलाचारः सर्वाचारानुवृत्तिमान् ।

अन्तः सर्वपरित्यागी लोके विहर राघव

॥१९॥

प्रविचार्य दशाः सर्वा यदतुच्छं परं पदम् ।

तदेव भावेनालम्ब्य लोके विहर राघव

॥२०॥

अन्तर्नैराश्यमादाय बहिराशोन्मुखेहितः ।

बहिस्तप्तोऽन्तराशीतो लोके विहर राघव

॥२१॥

बहिः कृत्रिमसंरम्भो हृदि संरम्भवर्जितः ।

कर्ता बहिरकर्तान्तर्लोके विहर राघव

॥२२॥

ज्ञातवानसि सर्वेषां भावानां सम्यगन्तरम् ।

यथेच्छसि तथा दृष्ट्या लोके विहर राघव

॥२३॥

कृत्रिमोल्लासहर्षस्थः कृत्रिमोद्वेगगर्हणः ।

कृत्रिमारम्भसंरम्भो लोके विहर राघव

॥२४॥

त्यक्ताहंकृतिराश्वस्तमतिराकाशशोभनः ।

अगृहीतकलङ्काङ्को लोके विहर राघव

॥२५॥

आशापाशशतोन्मुक्तः समः सर्वासु वृत्तिषु ।

बहिः प्रकृतिकार्यस्थो लोके विहर राघव

॥२६॥

न बन्धोऽस्ति न मोक्षोऽस्ति देहिनः परमार्थतः ।

मिथ्येयमिन्द्रजालश्रीः संसारपरिवर्तिनी

॥२७॥

भ्रान्तिमात्रमिदं मोहाज्जगद्राघव दृश्यते ।

जनितप्रत्ययं स्फारं जलं तीव्रातपे यथा

॥२८॥

अबद्धस्यैकरूपस्य सर्वगस्यात्मनः कथम् ।

बन्धः स्यात्तदभावे तु मोक्षः कस्य विधीयते

॥२९॥

अतत्त्वज्ञानजातेयं संसारभ्रान्तिरातता ।

तत्त्वज्ञानात्क्षयं याति रज्ज्वामिव भुजङ्गधीः

॥३०॥

ज्ञातवानसि तत्त्वं स्वमेकया सूक्ष्मया धिया ।

जातोऽसि निरहंकारो व्योमवत्तिष्ठ निर्मलः

॥३१॥

ज्ञोऽसि त्वित्थं तदखिलाः सुहृद्बान्धववासनाः ।

संत्यजासत्स्वभावस्य का नाम किल भावना

॥३२॥

अपि चेत्थं तदन्यस्त्वं सत्त्ववाननुमीयसे ।

इदं प्रथमतः प्राप्तं परमादपि कारणात्

॥३३॥

भोगबन्धुजगद्भावैः कर्मभिश्च शुभाशुभैः ।

आत्मनो नास्ति संबन्धः किमेताननुशोचसि

॥३४॥

आत्मतत्त्वेकसारोऽहमिति जातधियो भयैः ।

न ते रामास्ति संबन्धः किं बिभेषि जगद्भ्रमात्

॥३५॥

अजातस्य सतो बन्धोर्बन्धुदुःखसुखभ्रमैः ।

कस्ते राघव संबन्धो यदेताननुशोचसि

॥३६॥

त्वं चेद्बभूविथ पुरा तथेदानीं भविष्यसि ।

अद्य चेह स्थितोऽसीति ज्ञातवानसि निश्चयम्

॥३७॥

तदानन्तरगानन्यान्प्राणादीन्निकटस्थितान् ।

बन्धूनतीतान्सुबहून्कस्मात्त्वं नानुशोचसि

॥३८॥

पूर्वमन्यस्तथेदानीं बभूविथ भविष्यसि ।

यदि राम तथापि त्वं सद्रूपं किं विमुह्यसि

॥३९॥

पुरा भूत्वाद्य भूत्वा च भूयश्चेन्न भविष्यसि। ।

तथापि क्षीणसंसारः किमर्थमनुशोचसि

॥४०॥

तस्मान्न दुःखिता युक्ता प्राकृते जागते क्रमे ।

तथैव मुदिता युक्ता युक्तं कार्यानुवर्तनम्

॥४१॥

मा गच्छ दुःखितां राम सुखितामपि मा व्रज ।

समतामेहि सर्वत्र परमात्मा हि सर्वगः

॥४२॥

अनन्तः सत्स्वरूपस्त्वं खमिवातिततान्तरम् ।

प्रकाशो नित्यशुद्धस्त्वं ज्वालानामिव कोटरम्

॥४३॥

जागतानां पदार्थानामदृष्टात्मतनुस्तनुः ।

हृत्स्थोऽसि हारमुक्तानामेकस्तन्तुरिवाततः

॥४४॥

संसारस्थितिरेवेयं यद्भूत्वा भूयते पुनः ।

अज्ञेनैव न तज्ज्ञेन ज्ञोऽसि राम सुखी भव

॥४५॥

स्वरूपमिदमस्यास्तु संसृतेः सतताधिमत् ।

अज्ञानात्स्फारतामेति ज्ञातवानसि सन्मते

॥४६॥

रूपं किमन्यद्भवतु भ्रममात्रादृते भ्रमे ।

स्वप्नमात्रादृते स्वप्ने भवत्यन्यो हि कः क्रमः

॥४७॥

सर्वशक्तेरियं शक्तिर्भ्रममात्रमयं तथा ।

राम दृश्यत एवेदमाभानमतिभास्वरम्

॥४८॥

सुबन्धुः कस्यचित्कः स्यादिह नो कश्चिदप्यरिः ।

सदा सर्वे च सर्वस्य सर्वं सर्वेश्वरेच्छया

॥४९॥

आलूनशीर्णमखिलमिदमन्योन्यसंश्रितम् ।

अनारतं याति जगत्तरङ्गौघ इवाम्भसः

॥५०॥

अध ऊर्ध्वत्वमायाति यात्यूर्ध्वत्वमधस्तथा ।

संसारस्य चलस्यास्य चक्रनेमिरिवाभितः

॥५१॥

स्वर्गस्था नरकं यान्ति नारकाश्च त्रिविष्टपम् ।

योनेर्योन्यन्तरं यान्ति द्वीपाद्द्वीपान्तरं जनाः

॥५२॥

धीराः कार्पण्यमायान्ति कृपणा यान्ति धीरताम् ।

परिस्फुरन्ति भूतानि पातोत्पातशतभ्रमैः

॥५३॥

एकरूपस्थिरं चक्रं स्वच्छं संतापवर्जितम् ।

नेह संप्राप्यते किंचिदग्नौ हिमकणो यथा

॥५४॥

ये ये नाम महाभागा बहवो बान्धवास्तथा ।

विनष्टा एव दृश्यन्ते ते ते कतिपयैर्दिनैः

॥५५॥

परतात्मीयतान्यत्वत्वत्वमत्त्वादिभावना ।

नेह सत्या महाबाहो द्विचन्द्रादिदृशो यथा

॥५६॥

अयं बन्धुः परश्चायमयं चाहमयं भवान् ।

इति मिथ्यादृशो राम विगलन्तु तवाधुना

॥५७॥

क्रीडार्थं व्यवहारस्थ एताभिर्हतदृष्टिभिः ।

आमूलमन्तश्छिन्नाभिर्बहिर्विहर हेलया

॥५८॥

संसारसरणावस्यां तथा विहर सुव्रत ।

न यथैव श्रमश्रान्तो वासनाभारवानिव

॥५९॥

यथा यथैषा कार्याणि वासनाक्षयकारिणी ।

विचारणा तवोदेति संशाम्यन्ति तथा तथा

॥६०॥

अयं बन्धुरयं नेति गणना लघुचेतसाम् ।

उदारचरितानां तु विगतावरणैव धीः

॥६१॥

न तदस्ति न यत्राहं न तदस्ति न यन्मम ।

इति निर्णीय धीराणां विगतावरणैव धीः

॥६५॥

नास्तमेति न चोदेति यश्चिदाकाशवन्महान् ।

सर्वं संपश्यति स्वस्थः स्वस्थो भूमितलं यथा

॥६३॥

सर्वा एव हि ते भूतजातयो राम बन्धवः ।

अत्यन्तासंयुता एतास्तव राम न काश्चन

॥६४॥

विविधजन्मशताहितसंभ्रमे

जगति बन्धुरबन्धुरितीक्षणम् ।

भ्रमदशैव विवल्गति वस्तुत-

स्त्रिभुवनं चिरबन्धुरबन्ध्वपि

॥६५॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषूपशमप्रकरणे जीवन्मुक्तवर्णनं नामाष्टादशः सर्गः ।। १८ ।।