मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः १९९

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 199

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीराम उवाच ।

नित्यं ज्ञानैकनिष्ठत्वादात्मारामतया तथा ।

मुक्तैः कर्मपरित्यागः कस्मान्न क्रियते मुने

॥१॥

श्रीवसिष्ठ उवाच ।

हेयोपादेयदृष्टी द्वे यस्य क्षीणे हि तस्य वै ।

क्रियात्यागेन कोऽर्थः स्यात्क्रियासंश्रयणेन वा

॥२॥

न तदस्तीह यत्त्याज्यं ज्ञस्योद्वेगकरं भवेत् ।

न वास्ति यदुपादेयं तज्ज्ञसंश्रेयतां गतम्

॥३॥

ज्ञस्य नार्थः कर्मत्यागैर्नार्थः कर्मसमाश्रयैः ।

तेन स्थितं यथा यद्यत्तत्तथैव करोत्यसौ

॥४॥

यावदायुरियं राम निश्चितं स्पन्दते तनुः ।

तद्यथाप्राप्तमव्यग्रं स्पन्दतामपरेण किम्

॥५॥

अन्यथान्यत्र चेत्कार्या क्रिया त्यक्त्वा निजं क्रमम् ।

समाने हि क्रियास्पन्दे को दोषः सत्क्रमे किल

॥६॥

समया स्वच्छया बुद्ध्या सततं निर्विकारया ।

यथा यत्क्रियते राम तददोषाय सर्वदा

॥७॥

इह मह्यां महाबाहो बहवो बहुदृष्टयः ।

बहुधा बहुदोषेषु विहरन्ति विचक्षणाः

॥८॥

गतसङ्गतया बुद्ध्या विहरन्ति यथास्थितेः ।

गृहस्थारम्भिणः केचिज्जीवन्मुक्ताः स्थिता भुवि

॥९॥

तज्ज्ञा राजर्षयश्चान्ये वीतरागा भवादृशाः ।

असंसक्तधियो राज्यं कुर्वन्ति विगतज्वराः

॥१०॥

केचित्प्रकृतवेदार्थव्यवहारानुसारिणः ।

यज्ञशिष्टाशिनो नित्यमग्निहोत्रे व्यवस्थिताः

॥११॥

केचिच्चतुर्षु वर्णेषु ध्यानदेवार्चनादिकाम् ।

स्वक्रियामनुतिष्ठन्तः स्थिता विविधयेहया

॥१२॥

केचित्सर्वपरित्यागमन्तः कृत्वा महाशयाः ।

सर्वकर्मपरा नित्यं तज्ज्ञा एवाज्ञवत्स्थिताः

॥१३॥

स्वप्नेऽप्यदृष्टलोकासु मुग्धमुग्धमृगासु च ।

वनावनीषु शून्यासु केचिद्ध्यानपरायणाः

॥१४॥

पुण्यवद्भिः सदा जुष्टे पुण्योपचयकारिणि ।

शमशालिसमाचारे केचिदायतने स्थिताः

॥१५॥

रागद्वेषप्रहाणार्थं त्यक्त्वा देशं समाशयाः ।

केचिदन्यत्र देशे च पदमालम्ब्य संस्थिताः

॥१६॥

वनाद्वनं पुराद्ग्रामं स्थानात्स्थानं गिरेर्गिरिम् ।

भ्रमन्तः संस्थिताः केचित्संसारोच्छित्तये बुधाः

॥१७॥

वाराणस्यां महापुर्यां प्रयागे चैव पावने ।

श्रीपर्वते सिद्धपुरे बदर्याश्रमके तथा

॥१८॥

शालग्रामे महापुण्ये कलापग्रामकोटरे ।

मथुरायां च पुण्यायां तथा कालञ्जरे गिरौ

॥१९॥

महेन्द्रवनगुल्मेषु गन्धमादनसानुषु ।

दर्दुराचलवप्रेषु सह्यकाचलभूमिषु

॥२०॥

विन्ध्यशैलस्य कच्छेषु मलयस्योदरेषु च ।

कैलासवनजालेषु ऋक्षवत्कुहरेषु च

॥२१॥

एतेष्वन्येषु चान्येषु वनेष्वायतनेषु च ।

तपस्विनस्तथा राम बहवो बहुदृष्टयः

॥२२॥

केचित्त्यक्तनिजाचाराः केचिच्च क्रमसंस्थिताः ।

केचित्प्रबुद्धमतयो नित्यमुन्मत्तचेष्टिताः

॥२३॥

केचित्स्वदेशरहिताः केचित्त्यक्तनिजास्पदाः ।

एकस्थानरताः केचिद्भ्रमन्तः केचिदास्थिताः

॥२४॥

एतेषां महतां मध्ये नभस्तलनिवासिनाम् ।

पातालनिरतानां च दैत्यादीनां महामते

॥२५॥

विज्ञातलोकपर्यायाः सम्यग्दर्शननिर्मलाः ।

केचित्प्रबुद्धमतयो दृष्टदृश्यपरावराः

॥२६॥

अप्रबुद्धधियः केचिद्दोलान्दोलितचेतसः ।

निवृत्ताः पापकाचारात्सुजनानुगताः स्थिताः

॥२७॥

अर्धप्रबुद्धमतयः केचिज्ज्ञानावलेपतः ।

परित्यक्तक्रियाचारा उभयभ्रष्टता गताः

॥२८॥

इत्थमस्मिञ्जनानीके जन्मसंतरणार्थिनः ।

बहवः संस्थिता राम बहुधा बहुदृष्टयः

॥२९॥

संसारोत्तरणे तत्र न हेतुर्वनवासिता ।

नापि स्वदेशवासित्वं न च कष्टतपःक्रियाः

॥३०॥

न क्रियायाः परित्यागो न क्रियायाः समाश्रयः ।

नाचारेषु समारम्भविचित्रफलपालयः

॥३१॥

स्वभावः कारणं नाम संसारोत्तरणं प्रति ।

असंसक्तं मनो यस्य स तीर्णो भवसागरात्

॥३२॥

शुभाशुभाः क्रिया नित्यं कुर्वन्परिहरन्नपि ।

पुनरेति न संसारमसंसक्तमना मुनिः

॥३३॥

शुभाशुभाः क्रिया नित्यमकुर्वन्नपि दुर्मतिः ।

निमज्जत्येव संसारे परित्यक्तमनाः शठः

॥३४॥

मक्षिकेवान्तःसारज्ञा दुःखादुःखप्रदायिनी ।

न निवारयितुं शक्या न च मारयितुं मतिः

॥३५॥

काकतालीययोगेन कदाचित्स्वस्य चेतसः ।

प्रवृत्तिर्जायते सिध्यै स्वयमात्मावलोकने

॥३६॥

अवलोकनतो लब्ध्वा तत्त्वं नैर्मल्यमागतम् ।

चेतो भवति निर्द्वन्द्वमसंसक्तमनामयम्

॥३७॥

अचित्तत्वं प्रयातेन सत्त्वरूपेण चेतसा ।

समो भूत्वा सुखं तिष्ठ पराकाशांशरूपभृत्

॥३८॥

अधिगतपरमार्थस्त्यक्तरागादिदोषः

सममतिरुदितात्मा त्वं महात्मा महात्मन् ।

रघुतनय विशोकस्तिष्ठ निःशङ्कमेको

जननमरणमुक्तं पावनं तत्पदं त्वम्

॥३९॥

प्रकृतिमलविकारोपाधिबोधादिरूपं

जगति विमलरूपे नास्ति किंचित्क्वचिच्च ।

स्फुटमकृतकमस्ति ब्रह्म चिद्धाम तच्च

स्वयमहमिति मत्वा तिष्ठ निःशङ्कमेकः

॥४०॥

अधिकवचनगम्यं नान्यदस्त्यङ्ग किंचि-

त्तव शुभमुपदेश्यं ज्ञानसंबोधनाय ।

उदितमखिलमाद्यं ज्ञानसारं समग्रं

विदितसकलवेद्यो राघव त्वं हि जातः

॥४१॥

श्रीवाल्मीकिरुवाच ।

इत्युक्त्वा मुनिनायको व्यपगताशेषैषणे राघवे

सर्वस्मिंश्च सभाजने स्थितवति ध्यानैकतानोपमे ।

प्राप्ते ब्रह्मपदं धिया धवलया तूष्णीमभूत्षट्पदः

कृत्वेवारणितं सरोजपटले पातुं प्रवृत्तो रसम्

॥४२॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० मुक्तपुरुषस्थितिवर्णनं नाम नवनवत्यधिकशततमः सर्गः ।। १९९ ।।