मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — पूर्वार्धम् — सर्गः ५६

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — पूर्वार्धम् · 56

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीभगवानुवाच ।

इति निर्वासनत्वेन जीवन्मुक्ततयार्जुन ।

अन्तः शीतलतामेत्य बन्धुदुःखमलं त्यज

॥१॥

जरामरणनिःशङ्क आकाशविशदाशयः ।

त्यक्तेष्टानिष्टसंकल्पो वीतरागो भवानघ

॥२॥

प्रवाहपतितं कार्यमिदं किंचिद्यथागतम् ।

कुरु कार्याणि कर्माणि न किंचिदिह नश्यति

॥३॥

प्रवाहपतितं कर्म स्वमेव क्रियते तु यत् ।

जीवन्मुक्तस्वभावोऽयं सा जीवन्मुक्तता तथा

॥४॥

इदं कर्म त्यजामीदमाश्रयामीति निर्णयः ।

मूढस्य मनसो रूपं ज्ञानिनस्तु समा स्थितिः

॥५॥

प्रवाहपतितं कर्म कुर्वन्तः शान्तचेतसः ।

जीवन्मुक्ताः सुषुप्तस्थाः स्फुरन्त्यत्र सुषुप्तवत्

॥६॥

स्थिरां संस्थितिमायान्ति कूर्माङ्गानीव सर्वशः ।

इन्द्रियाणीन्द्रियार्थेभ्यो हृदि यस्य स्वभावतः

॥७॥

विश्वात्मनि तथा विश्वं कालत्रयमयोदितम् ।

अभित्ति त्रिजगच्चित्रं कुरुते चित्तचित्रकृत्

॥८॥

व्योम्नि व्योमात्मकमपि प्रस्फुटं वृत्तिवर्तिभिः ।

चित्तचित्रकरेणादौ चित्रं चित्रं वितानितम्

॥९॥

पश्चाद्भित्तिः कृता व्योमरूपा चासावहो भ्रमः ।

अपूर्वैवातिमायेयं तृणकुड्यमयी शुभा

॥१०॥

न मनागपि भेदोऽस्ति स्फुटमप्युपलब्धयोः ।

इमा या उपलक्ष्यन्ते भित्तयश्चित्तचित्रजाः

॥११॥

व्योम्नः शून्यतमा विद्धि तास्तामरसलोचन ।

क्षणेन चेतसि यथा भ्रान्तौ लोकक्षयोदयौ

॥१२॥

आत्मा जगत्तथैवेदं सबाह्याभ्यन्तरं नभः ।

चिरंतनमनोराज्यं यत्तस्मात्किल सत्यता

॥१३॥

किं त्वनालोकितेऽपि स्यात्सत्यं नास्त्येव विभ्रमे ।

क्रमेणालोकतः सत्यमालोकेन विलीयते

॥१४॥

दृश्यमानमपि क्षामं शरदीवाभ्रमण्डलम् ।

चित्तचित्रकृतश्चित्रे संस्थिताश्चित्रपुत्रिकाः

॥१५॥

भित्त्यभावादनाकारा बहिस्त्रिभुवनादिकाः ।

न ताः सन्ति न वासि त्वं किं केन परिरोध्यते

॥१६॥

रोध्यरोधकसंमोहं त्यक्त्वा खे विमलो भव ।

प्रवृत्तिरेव न व्योम्नः प्रवृत्तिश्चैव खात्मिका

॥१७॥

अतः कालक्रियाकुड्यकलादिविमलं नभः ।

चित्तसंस्थं यथा चित्रं सरूपमखिलात्मकम्

॥१८॥

व्योम्नः शून्यतमं विद्धि तथेदमखिलं जगत् ।

चित्तभित्तौ कृतं चित्रं यच्चिच्चित्रकरेण तत्

॥१९॥

सर्वशून्यतया व्योम्नो मनागपि न भिद्यते ।

यथा प्रकचतश्चित्ते जगन्निर्माणसंक्षयौ

॥२०॥

क्षणेनैव तथैवेमौ भुविस्थाविति विद्धि हे ।

अद्य क्षीणा मनोराज्ये नानानुभवनात्मनि

॥२१॥

क्षणभावितमोहेन कल्पना परिकल्पिता ।

असदेव मनोराज्यं कर्तुं शक्तं यथा मनः

॥२२॥

क्षणस्य कल्पीकरणे तथैव बलवन्मनः ।

क्षणं कल्पीकरोत्येतत्तच्चाल्पं कुरुते बहु

॥२३॥

असत्सत्कुरुते क्षिप्रमितीयं भ्रान्तिरुत्थिता ।

क्षणेनैव मनोराज्यं प्रतिभातं स्वभावतः

॥२४॥

यद्विचित्रात्म तदिदं जगज्जालमिति स्थितम् ।

सर्गे निर्वाणनिष्ठत्वान्निमेषमयमुत्थितम्

॥२५॥

प्रतिभामात्रतोऽत्रैव कल्पिता वज्रसारता ।

प्रतिभासविपर्यासमात्रं ह्यविदिताकृतेः

॥२६॥

प्रवृत्तौ वा निवृत्तौ वा कैव सा वज्रसारता ।

चित्तचित्रकृतश्चित्स्थं जगच्चित्रं कदा स्थितम्

॥२७॥

अकुड्यमप्यरङ्गाढ्यमिदं स्फारमिवाग्रतः ।

अहो नु चित्रं निर्भित्ति चित्रमुज्ज्वलमुत्थितम्

॥२८॥

सुरञ्जनं जगदिति स्फुटं दृष्टिविलोभनम् ।

नानातमोमषीलेखं नानातेजोंशुरञ्जनम्

॥२९॥

नानाकल्पाङ्गावयवं नानारागानुरञ्जितम् ।

नानादृष्टिविलासाढ्यं नानानुभवलोचनम्

॥३०॥

नानाग्रहोग्रकचनं नानाकाराग्रपश्चिमम् ।

व्योमनीलसरः फुल्लताराचन्द्रार्कपङ्कजम्

॥३१॥

विचित्ररचनोद्युक्तमेघालीपत्रमञ्जरि ।

प्रकोष्ठकामिलिखितसुरासुरनृपुत्रिकम् ।

परमालोकमङ्कोलयुवताकाशकुडयकम्

॥३२॥

आकाश एव रचिता प्रतिभैकरङ्गा

मुग्धा जगत्त्रयमनोहरपुत्रिकेयम् ।

चिन्मात्रचक्रपरिरञ्जितसर्वलोका

लीलाकुला चपलचित्तकचित्रकर्त्रा

॥३३॥

हेमाचलाङ्गलतिका घनकेशपाशा

चन्द्रार्कलोचनविचालनदृष्टलोका ।

धर्मार्थकामविनियन्त्रितशास्त्रवस्त्रा

पातालजालचरणोन्नतभूनितम्बा

॥३४॥

ब्रह्मेन्द्ररुद्रहरिबाहुचतुष्टयोग्रा

सत्त्वावृतोन्नतकुचस्फुरदङ्गयष्टिः ।

सुव्यालवेष्टितमहीतलपद्मपीठा

पत्रीकृताचलमहाभुवनोदरी च

॥३५॥

रात्र्यन्धकारचपलत्वहराक्षिचेष्टा

ताराकरालपुलका पविदन्तपङ्क्तिः ।

चञ्चच्चतुर्दशविधातुलभूतजात-

रोमाञ्चना प्रलयवादकदम्बपुष्पा

॥३६॥

जीवान्विता गगन एव कृता विचित्रा

व्योमात्मिका चिरविलक्षणचित्रकर्त्रा ।

चित्तेन चित्रपरिकर्मविदा त्रिलोकी

नानाविलासवलिता वरपुत्रिकेति

॥३७॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो० निर्वाणप्रकरणे पू० अर्जुनोपाख्याने चित्तवर्णनं नाम षट्पंचाशः सर्गः ।। ५६ ।।