मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उत्पत्तिप्रकरणम् — सर्गः ५२

3
योगवासिष्ठम् · उत्पत्तिप्रकरणम् · 52

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

एतस्मिन्नन्तरे राम लीलोवाच सरस्वतीम् ।

श्वासावशेषमालोक्य मूढं भर्तारमग्रगम्

॥१॥

प्रवृत्तो देहमुत्स्रष्टुं मद्भर्तायमिहाम्बिके ।

ज्ञप्तिरुवाच ।

एवंरूपमहारम्भे संग्रामे राष्ट्रसंभ्रमे

॥२॥

संपन्नेऽपि स्थितेऽप्युच्चैर्विचित्रारम्भमन्थरे ।

न किंचिदपि संपन्नं राष्ट्रं न च महीतलम्

॥३॥

न स्थितं क्वचनाप्येव स्वप्नात्मकमिदं जगत् ।

तस्य तन्मण्डपस्यान्तः शवस्य निकटाम्बरे

॥४॥

इदं भूराष्ट्रमाभाति भर्तृजीवस्य तेऽनघे ।

अन्तःपुरगृहान्ते तदिदं राष्ट्रान्वितोदरम्

॥५॥

वसिष्ठविप्रगेहेऽन्तर्विन्ध्याद्रिग्रामके स्थितम् ।

वसिष्ठविप्रगेहेन्तः शवगेहजगत्स्थितम्

॥६॥

शवगेहजगत्कुक्षाविदं गेहजगत्स्थितम् ।

एवमेष महारम्भो जगत्त्रयमयो भ्रमः

॥७॥

त्वया मयाऽनयाऽनेन संयुक्तः सार्णवावनिः ।

गिरिग्रामकदेहान्तर्मध्ये गगनकोशके

॥८॥

स्वात्मैव कचति व्यर्थो न कचत्येव वा क्वचित् ।

तत्पदं परमं विद्धि नाशोत्पादविवर्जितम्

॥९॥

स्वयं कचितमाभातं शान्तं परमनामयम् ।

किल मण्डपगेहेन्तः स्वस्वभावोदितात्मनि

॥१०॥

एवमारम्भघनयोरपि मण्डपयोस्तयोः ।

उदरे शून्यमाकाशमेवास्ति न जगद्भ्रमः

॥११॥

भ्रमद्रष्टुरभावे हि कीदृशी भ्रमता भ्रमे ।

नास्त्येव भ्रमसत्तातो यदस्ति तदजं पदम्

॥१२॥

भ्रमो दृश्यमसत्तस्य द्रष्टृदृश्यदशा कुतः ।

द्रष्टृदृश्यक्रमाभावादद्वयं सहजं हि तत्

॥१३॥

तत्पदं परमं विद्धि नाशोत्पादविवर्जितम् ।

स्वयं कचितमाभातं शान्तमाद्यमनामयम्

॥१४॥

किल मण्डपगेहान्तः स्वस्वभावोदितात्मनि ।

विहरन्ति जनास्तत्र स्वगेहे स्वव्यवस्थया

॥१५॥

न जगत्तत्र नो सर्गः कश्चिदप्यनुभूयते ।

तेनाहमजमाकाशं जगदित्येव वर्तते

॥१६॥

सर्वं शून्यात्मविज्ञानं मेर्वादिगिरिजालकम् ।

नेदं कुड्यमयं किंचिद्यथा स्वप्ने महापुरम्

॥१७॥

देशे प्रादेशमात्रेऽपि गिरिजालमयान्यपि ।

वज्रसाराणि खान्येव लक्षाणि जगतो विदुः

॥१८॥

जगन्ति सुबहून्येव संभवन्त्यणुकेऽपि च ।

कदलीपल्लवानीव संनिवेशेन भूरिशः

॥१९॥

त्रिजगच्चिदणावन्तरस्ति स्वप्नपुरं यथा ।

तस्याप्यन्तश्चिदणवस्तेष्वप्येकैकशो जगत्

॥२०॥

तेषां यस्मिञ्जगत्येष पद्मो राजा शवः स्थितः ।

लीला तव सपत्नीयं प्राप्ता पूर्वतरा शुभे

॥२१॥

यदैव मूर्च्छामायाता लीलेयं पुरतस्तव ।

तदैव भर्तुः पद्मस्य शवस्य निकटे स्थिता

॥२२॥

लीलोवाच ।

कथमेषा पुरा देवि संपन्ना तत्र देहिनी ।

कथं च तत्सपत्नीकभावमाप्तवती स्थिता

॥२३॥

ते चास्या वद किं रूपं पश्यन्त्यथ वदन्ति किम् ।

तद्गेहवरवास्तव्याः समासेनेति मे वद

॥२४॥

श्रीदेव्युवाच ।

श्रृणु सर्वं समासेन यथापृष्टं वदामि ते ।

लीले लीलास्ववृत्तान्तमन्तदं दृश्यदुर्दशम्

॥२५॥

पद्मस्तव स भर्तैष भ्रान्तिं तावत्ततामिमाम् ।

इयं जगन्मयी तस्मिन्नेव सद्मनि पश्यति

॥२६॥

भ्रान्तियुद्धमिदं युद्धमेषा भ्रान्तिर्जनोऽजनः ।

भ्रान्त्यैवास्तीह मरणमेष चैवं भ्रमात्मकः

॥२७॥

भ्रमक्रमेणानेनैव लीलास्य दयिता स्थिता ।

त्वं चैषा च वरारोहे स्वप्नमात्रं वराङ्गने

॥२८॥

यथा भवत्यावेतस्य स्वप्नमात्रं वराङ्गने ।

तथा भवत्योर्भर्तैष तथैवाहमपि स्वयम्

॥२९॥

जगच्छोभैवेदृशीयं दृश्यमेतदिहोच्यते ।

एतदेव परिज्ञातं दृश्यशब्दार्थमुज्प्तति

॥३०॥

एवमेषा त्वमेषा च संपन्नैवमसौ नृपः ।

अहं चात्मनि सत्यत्वं गता सर्वतयात्मनः

॥३१॥

इमे वयमिहान्योन्यं संपन्नाश्चोदिता इति ।

इत्थं सर्वात्मकतया महाचिद्धनसंस्थितेः

॥३२॥

एवमेषा स्थिता राज्ञी हारिहासविलासिनी ।

लीला विलोलवदना नवयौवनशालिनी

॥३३॥

पेशलाचारमधुरा मधुरोदारभाषिणी ।

कोकिलास्वरसंकाशा मदमन्मथमन्थरा

॥३४॥

असितोत्पलपत्राक्षी वृत्तपीनपयोधरा ।

कान्ता काञ्चनगौराङ्गी पक्वबिम्बफलाधरा

॥३५॥

त्वत्संकल्पात्मकस्यैषा यदा भर्तुर्मनःकला ।

तदा त्वत्सदृशाकारा स्थितैषा चिच्चमत्कृतौ

॥३६॥

त्वद्भर्तुर्मरणे क्षिप्रं समनन्तरमेव हि ।

त्वद्भर्त्रैषा पुरो दृष्टा त्वत्संकल्पात्मनामुना

॥३७॥

यदाधिभौतिकं भावं चेतोऽनुभवति स्वयम् ।

चेत्यं सन्मयमेवात आतिवाहिककल्पनम्

॥३८॥

यदाधिभौतिकं भावं चेतो वेत्ति न सन्मयम् ।

आतिवाहिकसंकल्पस्तदा सत्योपजायते

॥३९॥

अथो मरणसंवित्त्या पुनर्जन्ममये भ्रमे ।

त्वं हि संविदितानेन त्वया च गत एव सः

॥४०॥

इत्थं त्वां दृष्टवानेष दृष्टश्चैव त्वयेति च ।

त्वमप्यात्मनि संपन्ना सर्वगत्वाच्चिदात्मनः

॥४१॥

ब्रह्म सर्वगतं यस्माद्यथा यत्र यदोदितम् ।

भवत्याशु तथा तत्र स्वप्नशक्त्यैव पश्यति

॥४२॥

सर्वत्र सर्वशक्तित्वाद्यत्र या शक्तिरुन्नयेत् ।

आस्ते तत्र तथा भाति तीव्रसंवेगहेतुतः

॥४३॥

मृतिमोहक्षणेनैव यदैतौ दंपती स्थितौ ।

तदैवाभ्यामिदं बुद्धं प्रतिभासवशाद्हृदि

॥४४॥

आवयोः पितरावेताविमे वै चापि मातरौ ।

देश एष धनं चेदं कर्मेदं पूर्वमीदृशम्

॥४५॥

आवां विवाहितावेवमेवं नामैकतां गतौ ।

एतयोः सापि जनता याता तत्रैव सत्यताम्

॥४६॥

तथैवात्रास्ति दृष्टान्तः प्रत्यक्षं स्वप्नवेदनम् ।

इत्येवंभावया लीले लीलयाहमथार्चिता

॥४७॥

नाहं स्यां विधवेत्येवं वरो दत्तो मयाप्यसौ ।

इत्यर्थेन मृता पूर्वमेवेह खलु बालिका

॥४८॥

भवतां चेतनांशानामहं चेतनधर्मिणी ।

कुलदेवी सदा पूज्या स्वत एव करोम्यहम्

॥४९॥

अथास्या जीवको देहात्प्राणमारुतरूपधृक् ।

मनसा चलतां प्राप्तो मुखाग्रत्यक्तदेहकः

॥५०॥

ततो मरणमूर्च्छान्ते गृहेऽस्मिन्नेव चैतया ।

बुद्धौ भावित आकाशे दृष्टो जीवात्मना ततः

॥५१॥

संपन्नैषा हरिणनयना चन्द्रबिम्बाननश्री-

र्मानोन्नद्धा दयितललिता कान्तमाभोक्तुकामा ।

पूर्वस्मृत्या सरभसमुखी संयुता मण्डलान्तः

स्वप्नान्ते वाऽप्रकृतिविभवा पद्मिनी चोदितेव

॥५२॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये लीलोपाख्याने० मरणसमनन्तरदेहप्रतिभावर्णनं नाम द्विपञ्चाशः सर्गः ।। ५२ ।।