मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — स्थितिप्रकरणम् — सर्गः ४४

3
योगवासिष्ठम् · स्थितिप्रकरणम् · 44

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीराम उवाच ।

क्रमेणानेन येनाप्ता जीवेन स्थितिरात्मनः ।

स कथं भगवन्देहं समाधत्तेऽस्थिपञ्जरम्

॥१॥

श्रीवसिष्ठ उवाच ।

पूर्वमेव मया प्रोक्तं राम किं नावबुध्यसे ।

पूवापरविचारार्हा शेमुषी क्व गता तव

॥२॥

यदिदं हि शरीरादि जगत्स्थावरजङ्गमम् ।

आभासमात्रमेवेतदसत्स्वप्नमिवोत्थितम्

॥३॥

दीर्घस्वप्नो ह्ययं राम मिथ्यैवानघ दृश्यते ।

द्विचन्द्रविभ्रमाकारं भ्रमान्तर्भ्रान्तशैलवत्

॥४॥

प्रशान्ताज्ञाननिद्रस्तु नूनं गलितभावनः ।

प्रबुद्धचेताः संसारस्वप्नं पश्यन्न पश्यति

॥५॥

स्वभावकल्पितो राम जीवानां सर्वदैव हि ।

आमोक्षपदसंप्राप्ति संसारोऽस्त्यात्मनोऽन्तरे

॥६॥

जीवस्य तरलः काय आवर्तः पयसो यथा ।

यथा बीजेऽङ्कुरः स्फारः पल्लवः स्वाङ्कुरे यथा

॥७॥

पल्लवे च यथा पुष्पं पुष्पकोशे फलं यथा ।

यतः स कल्पनारूपो देहोऽस्ति मनसोऽन्तरे

॥८॥

बहुरूपतया राम यतोऽस्त्येकतमः स्फुटः ।

स एव प्रतिभासोऽस्य मनसः किल जायते

॥९॥

स एवाशु भवत्येतन्मृत्पिण्डो घटकोपमः ।

आदिसर्गे पुरा कायः प्रतिभासोऽस्य चोत्तमः

॥१०॥

यस्मादेष विभुर्ब्रह्मा पद्मकोशगृहस्थितः ।

तत्संकल्पक्रमेणैव ततः स्थितिमुपागता

॥११॥

इयं सृष्टिरपर्यन्ता मायेव घनमायया ।

श्रीराम उवाच ।

जीवो मनःपदं प्राप्य वैरिञ्चं पदमागतः

॥१२॥

यथा ब्रह्मंस्तथा सर्वं विस्तरेण वदाशु मे ।

श्रीवसिष्ठ उवाच ।

ब्राह्मे श्रृणु महाबाहो शरीरग्रहणे क्रमम्

॥१३॥

निदर्शनेन तेनैव जागतीं ज्ञास्यसि स्थितिम् ।

दिक्कालाद्यनवच्छिन्नमात्मतत्त्वं स्वशक्तितः

॥१४॥

लीलयैव यदादत्ते दिक्कालकलितं वपुः ।

तदैव जीवपर्यायं वासनावेशतत्परम्

॥१५॥

मनः संपद्यते लोलं कलनाकलनोन्मुखम् ।

कलयन्ती मनःशक्तिरादौ भावयति क्षणात्

॥१६॥

आकाशभावनामच्छां शब्दबीजरसोन्मुखीम् ।

ततस्तां घनतां यातं घनस्पन्दक्रमान्मनः

॥१७॥

भावयत्यनिलस्पन्दं स्पर्शबीजरसोन्मुखम् ।

ताभ्यामाकाशवाताभ्यामदृष्टाभ्यां मनोदृशा

॥१८॥

शब्दस्पर्शस्वरूपाभ्यां संघाताज्जन्यतेऽनलः ।

मनस्तद्धनतां प्राप्य ततो भावयति क्षणात्

॥१९॥

प्राकाश्यममलालोकमालोकस्तेन वर्धते ।

मनस्तावद्गुणगतं रसतन्मात्रवेदनम्

॥२०॥

क्षणार्धेन त्वपां शैत्यं जलसंवित्ततो भवेत् ।

ततस्तादृग्गुणगतं मनो भावयति क्षणात्

॥२१॥

स्वरूपं गन्धवत्स्थूलं येनोदेष्यति मेदिनी ।

अथेत्थंभूततन्मात्रवेष्टितं तनुतां जहत्

॥२२॥

वपुर्वह्निकणाकारं स्फुरितं व्योम्नि पश्यति ।

अहंकारकलायुक्तं बुद्धिबीजसमन्वितम्

॥२३॥

तत्पुर्यष्टकमित्युक्तं भूतहृत्पद्मषट्पदम् ।

तस्मिंस्तु तीव्रसंवेगाद्भावयद्भास्वरं वपुः

॥२४॥

स्थूलतामेति पाकेन मनो बिल्वफलं यथा ।

मूषास्थद्रुतहेमाभं स्फुरितं विमलाम्बरे

॥२५॥

सन्निवेशमुपादत्ते तत्तेजः स्वस्वभावतः ।

तस्मिन्स्वसन्निवेशे च तेजःपुञ्जमये पुनः

॥२६॥

भजते भावनां स्फारां निश्चितामातताम्बराम् ।

ऊर्ध्वं शिरःपीठमयीमधःपादमयीं तथा

॥२७॥

पार्श्वयोर्हस्तसंस्थानां मध्ये चोदरधर्मिणीम् ।

प्रकटावयवो बालो ज्वालामालामलाकृतिः

॥२८॥

मनोरथवशोपात्तवपुस्तिष्ठत्यसावथ ।

एवं स्ववासनावेशात्कलिताङ्गो मनोमुनिः

॥२९॥

नयत्युपचयं देहं स्वस्वभावमृतुर्यथा ।

कालेन स्फुटतामेति भवत्यमलविग्रहः

॥३०॥

बुद्धिसत्त्वबलोत्साहविज्ञानैश्वर्यसंस्थितः ।

स एव भगवान्ब्रह्मा सर्वलोकपितामहः

॥३१॥

द्रवत्कनकसंकाशः परमाकाशसंभवः ।

यथासौ परमाकाशे तिष्ठत्यपररूपवान्

॥३२॥

जनयत्यात्मनो मोहमात्मस्थं चित्तलीलया ।

कदाचित्केवलं व्योम परमं पारवर्जितम्

॥३३॥

अनादिमध्यपर्यन्तं कदाचिदमलं पयः ।

कदाचित्कल्पकालाग्निज्वालाभास्वरमण्डकम्

॥३४॥

कदाचित्काननं कार्ष्ण्यं कालं कमलकुड्मलम् ।

अन्यान्यन्यान्यनेकानि प्रतिजन्मावधिः प्रभुः

॥३५॥

कल्पयन्पालयत्येष नानारूपाणि हेलया ।

तत्रेदंप्रथमत्वेन यदैष ब्रह्मणः पदात्

॥३६॥

अवतीर्णस्तदाऽज्ञानात्तथैव सुखमस्मृतम् ।

गर्भनिद्राव्यपगमे वपुः पश्यति भास्वरम्

॥३७॥

प्राणापानप्रवाहाढ्यं द्रव्यैरिव विनिर्मितम् ।

रोमकोटिभिराकीर्णं द्वात्रिंशद्दशनान्वितम्

॥३८॥

त्रिस्थूणं पञ्चदैवत्यमधश्चरणलाञ्छितम् ।

पञ्चभागं नवद्वारं त्वग्लेपमसृणाङ्गकम्

॥३९॥

युक्तमङ्गुलिविंशत्या नखविंशतिलाञ्छितम् ।

द्विबाहुं द्विस्तनं द्व्यक्षं बह्वक्षिभुजमेव च

॥४०॥

नीडं चित्तविहङ्गस्य नीडं मन्मथभोगिनः ।

तृष्णापिशाच्या निलयं जीवकेसरिकन्दरम्

॥४१॥

अभिमानगजालानं मानसाम्भोजशोभितम् ।

अथालोच्य वपुर्ब्रह्मा कान्तमात्मीयमुत्तमम्

॥४२॥

चिन्तयामास भगवांस्त्रिकालामलदर्शनः ।

अस्मिन्नाकाशकुहरे तते मधुपलाञ्छिते

॥४३॥

अदृष्टपारपर्यन्ते प्रथमं किमभूदिति ।

इतिचिन्तितवान्ब्रह्मासद्योजातोऽमलात्मदृक्

॥४४॥

अपश्यत्सर्गवृन्दानि समतीतान्यनेकशः ।

अथ सस्मार सकलान्सर्वान्धर्मगणान्क्रमात्

॥४५॥

वसन्तः कुसुमानीव वेदानादाय संस्तुतान् ।

लीलया कल्पयामास चित्रसंकल्पजाः प्रजाः

॥४६॥

नानाचारसमाचारं गन्धर्वनगरे यथा ।

तासां स्वर्गापवर्गार्थं धर्मकामार्थसिद्धये

॥४७॥

अनन्तानि विचित्राणि शास्त्राणि समकल्पयत् ।

दृष्टिरेवमियं राम सर्गेऽस्मिन्स्थितिमागता ।

विरिञ्चिरूपान्मनसः पुष्पलक्ष्मीर्मधोरिव

॥४८॥

विविधविरचनैः क्रियाविलासैः

कमलजरूपधरेण चेतसैव ।

रघुसुत परिकल्पनेन नीता

स्थितिमतुलां जगतीह सर्गलक्ष्मीः

॥४९॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० मो० स्थितिप्रकरणे संसारावतरणप्रतिपादनोपदेशो नाम चतुश्चत्वारिंशः सर्गः ।। ४४ ।।