मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः ४९

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 49

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

परिपुष्टविवेकानां वासनामलमुज्झताम् ।

महत्ता महतामन्तः काप्यपूर्वैव जायते

॥१॥

औदार्योदारमर्यादां मतिं गाम्भीर्यसुन्दरीम् ।

महतां नावगाहन्ते भुवनानि चतुर्दश

॥२॥

चित्तभ्रान्तिर्जगदिति प्ररूढे प्रत्यये सताम् ।

बाह्यश्चान्तश्चरन्नक्रग्रहो मोहश्च शाम्यति

॥३॥

द्वीन्दुवत्तापजलवत्केशोण्ड्रकवदम्बरे ।

विस्फुरन्त्यां जगद्भ्रान्तौ वासनाप्रत्ययः कुतः

॥४॥

वासनाप्रत्यये शून्ये शून्यं व्योमैव शिष्यते ।

साप्यवस्था मनोऽसत्त्वे कुतस्त्याज्या विवेकिना

॥५॥

त्रयमेतत्तु यावस्थात्रयेणानेन वर्जिता ।

पश्यन्तीवाप्यपश्यन्ती सावस्था परमोच्यते

॥६॥

विचित्ररत्नरश्म्योघ इव नानात्मकं जगत् ।

आभासमात्रं न त्वात्मा न घनं न च पार्थिवम्

॥७॥

रूपालोकनमात्रं हि शून्यमेव जगत्स्थितम् ।

खे विचित्रमणिव्यूहकरजालमिवोत्थितम्

॥८॥

नेह सत्यानि भूतानि न जगत्ता न शून्यता ।

इदं ब्रह्माख्यरत्नेशप्रभाजालं विजृम्भितम्

॥९॥

सृष्टयोऽसृष्टयो ब्राह्म्यो नानाता च न नाशताः ।

अमूर्ता एव भासन्ते कल्पनार्कगणा घनाः

॥१०॥

एवं तावद्धनीभूतः पिण्डग्राहो न विद्यते ।

संकल्पिते च व्योम्नीव शून्यतैवावगम्यते

॥११॥

तस्यामवस्तुभूतायां कथं भावनिबन्धनम् ।

भविष्यदाकाशतरौ विश्रान्तः को विहंगमः

॥१२॥

पिण्डत्वं नास्ति भूतानां शून्यता च न विद्यते ।

चित्तमप्यत एवास्तं शेषं सत्तन्न चास्थिति

॥१३॥

अनानासममेवास्ते नानारूपो विबोधवान् ।

अन्तरालीननानार्थो यथा कनकपिण्डकः

॥१४॥

यथास्थितस्य साहंत्वं विश्वं चित्तं विलीयते ।

ज्ञस्यावाच्यमचित्त्वं सत्स्वरूपमवशिष्यते

॥१५॥

क्लिश्यते केवलं बुद्धिरुत्तराधरदर्शनैः ।

स्तोकयाभ्यस्तया युक्त्या सत्योऽर्थो ह्यवगम्यते

॥१६॥

विराडोजोविरहितं कार्यकारणतादिभिः ।

भूतभव्यभविष्यस्य जगदङ्गस्य संभवम्

॥१७॥

येन बोधात्मना बुद्धं स ज्ञ इत्यभिधीयते ।

अद्वैतस्योपशान्तस्य तस्य विश्वं न विद्यते

॥१८॥

पूर्वोक्ताः सर्व एवैते उपदेशा विशेषणाः ।

ज्ञस्यानुभवमायान्ति स्वतः साधुकथा इव

॥१९॥

पिण्डत्वं नास्ति भूतानां शून्यत्वं चाप्यसंभवात् ।

अत एव मनो नास्ति शेषं सत्तत्तव स्थितिः

॥२०॥

चेत्योन्मुखत्वमेवान्तश्चेतनस्यास्य चेतनम् ।

उदितं तदनर्थाय श्रेयसेऽनुदितं भवेत्

॥२१॥

उदितं वाह्यतामेति तत्र गच्छति पिण्डताम् ।

स्वयं संवेदनादेव जाड्यादम्ब्विव शैलताम्

॥२२॥

स्वप्नाद्यर्थवदादत्ते बोधोऽबोधेन पिण्डताम् ।

तद्ग्राहकतया चित्तं भूत्वा बध्नाति देहकम्

॥२३॥

एतावतीष्ववस्थासु बोधस्योदेति नान्यता ।

शब्दकल्पनया भेदः केवलं परिकल्पितः

॥२४॥

बहिरन्तश्च बोधस्य भात्यात्मैवार्थदृष्टिभिः ।

अन्तस्त्वेन बहिष्ट्वेन नैवास्य मनसो यथा

॥२५॥

बोधस्याकाशकल्पत्वात्कालाकाशादि तद्वपुः ।

पदार्थाश्चैव स्वात्मानः स्वप्नवन्नार्थरूपि खम्

॥२६॥

बाह्यार्थता नान्तरत्वं तद्वद्बोधवशाद्व्रजेत् ।

नासादृश्यं हि बोधत्वं गन्तुं शक्तं जडं क्वचित्

॥२७॥

बोधो दृश्यदशां नैति प्राप्तो वापि च तां स्थितिम् ।

स यथास्थितमेवास्ते मनागप्येति नान्यताम्

॥२८॥

अत्यर्थं शुद्धबोधैकपरिणामे कृतोदये ।

बोधाबोधार्थशब्दानां श्रुतिरप्यस्तमेष्यति

॥२९॥

आतिवाहिकदेहानां चित्तानामेव जायते ।

आधिभौतिकताबोधो दृढभावनया स्वया

॥३०॥

आकाशविशदैश्चित्तैर्भावितैषातिवाहिकैः ।

आधिभौतिकता मिथ्या नटैरिव पिशाचता

॥३१॥

भ्रान्तिरभ्रमणाभ्यासात्प्रज्ञातैषोपशाम्यति ।

नोन्मत्तोऽस्मीति संबोधाच्छाम्यत्युन्मत्तता किल

॥३२॥

भ्रान्तेः स्वयं परिज्ञानाद्वासना विनिवर्तते ।

स्वप्ने स्वप्नतया बुद्धे कस्य स्यात्किल भावना

॥३३॥

वासनातानवेनैव संसार उपशाम्यति ।

वासनैव महायक्षिण्येतच्छेदपरा बुधाः

॥३४॥

अज्ञानोन्मत्तता पुंसां यथाभ्यासेन भाविता ।

तथैव बोधात्स्वभ्यासात्सा कालेनोपशाम्यति

॥३५॥

आतिवाहिकदेहोऽयमाधिभौतिकतां यथा ।

नीयते भावनां तज्ज्ञैर्बोधसत्ताप्रसादतः

॥३६॥

आतिवाहिकदेहोऽपि नीत्वा जीवपदं तथा ।

दृढेन बोधाभ्यासेन नेतव्यो ब्रह्मतामपि

॥३७॥

स्ववस्तुवच्चेदुत्पत्तिर्बुध्यते बोधरूपिणी ।

तदातिवाहिकी बुद्धिः कथमित्यपि बुध्यते

॥३८॥

नो चेत्तत्प्रतिवाक्यार्थात्तद्ग्रन्थिर्विनिवर्तते ।

भूतोत्सादनसूत्रस्य प्रतिपत्तृपदं यथा

॥३९॥

जगद्बोधैकतां बुद्ध्वा बोद्धव्या तावदव्रणम् ।

अत्यन्तपरिणामेन यावत्सापि न बुध्यते

॥४०॥

सबाह्याभ्यन्तरे चित्ते शान्ते भाति स्वभावता ।

शीतलां व्योमनिर्भासां तामेवाश्रित्य शाम्यताम्

॥४१॥

ज्ञानवान्ज्ञानयज्ञस्थो ध्यानयूपं विरोपयन् ।

जगद्विजित्य जयति सर्वत्यागैकदक्षिणः

॥४२॥

पतत्यङ्गारवर्षे च वाति वा प्रलयानिले ।

भूतले व्रजति व्योम्नि सममास्ते ज्ञ आत्मनि

॥४३॥

वैतृष्ण्यशान्तमनसो निरोधमलमीयुषः ।

स्थितिर्वज्रसमाधानं विना नान्योपपद्यते

॥४४॥

यथा बाह्यार्थवैतृष्ण्ये नोपशाम्यत्यलं मनः ।

न तथा शास्त्रसंदर्भैर्नोपदेशतपोदमैः

॥४५॥

मनस्तृणस्य सर्वार्थवैतृष्ण्याग्निर्विबोधितः ।

सर्वत्यागानिलैः संपदत्यापदिति भावनात्

॥४६॥

बहिरन्तश्च मोहश्च पिण्डग्राहोऽर्थवेदनम् ।

ज्ञप्तिरेवेति कचति ज्ञात्वा मणिरिवात्मनि

॥४७॥

नरनागासुरागारगिरिगह्वरदृष्टिभिः ।

चितिरेवेति विसृता धूमोऽम्बुदतयेव खे

॥४८॥

वेपन्ते चिद्द्रवत्वेन ब्रह्माण्डजडभाण्डगाः ।

स्वविवर्ततरङ्गिण्यो जीवशक्त्याऽऽपतद्रसाः

॥४९॥

जीवकाजीर्णशफरी व्योमवारिविहारिणी ।

मोहजालेन वलिता न स्मरत्यात्मनि स्थितिम्

॥५०॥

घनीभूता घनत्वेन चिद्घना गगनाङ्गणे ।

नानापदार्थरूपेण स्फुरति स्वात्मनात्मनि

॥५१॥

सर्व एव समा जीवा वासनामन्तरेण च ।

शुष्कपर्णवदुड्डीना जडाः श्वसनवेणवः

॥५२॥

आहृत्य पौरुषबलान्यवजित्य तन्द्री-

मुत्थाय तर्जितसमर्जितवासनौघम् ।

संसारपाशघनपञ्जरमञ्जसैव

भङ्क्त्वाभ्युदेयमभितोऽज्ञसमेन भाव्यम्

॥५३॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे उत्त० सर्वोपशान्तिर्नामैकोनपञ्चाशः सर्गः ।। ४९ ।।