मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः ३०

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 30

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

अहंतैव पराऽविद्या निर्वाणपदरोधिनी ।

तयैवान्विष्यते मूढैस्तदित्युन्मत्तचेष्टितम्

॥१॥

अहंतैवालमज्ञानादज्ञत्वस्य निदर्शनम् ।

न हि तज्ज्ञस्य शान्तस्य ममाहमिति विद्यते

॥२॥

अहंतामलमुत्सृज्य निर्वाणः खमिवामलः ।

सदेहमपदेहं वा ज्ञस्तिष्ठति गतज्वरः

॥३॥

न तथा शरदाकाशं न तथा स्तिमितोऽर्णवः ।

पूर्णेन्दुमध्यं न तथा यथा ज्ञः परिराजते

॥४॥

चित्रसंगरयुद्धस्य सैन्यस्याक्षुब्धता यथा ।

तथैव समता ज्ञस्य व्यवहारवतोपि च

॥५॥

निर्वाणैकतया ज्ञस्य वासनैव न वासना ।

लेखादामोपमा त्वब्धेरूर्म्यादि न जलेतरत्

॥६॥

तरत्तरङ्गो जलधिर्जलमेव यथाखिलम् ।

दृश्योच्छूनमपि ब्रह्म तथा ब्रह्मैव नेतरत्

॥७॥

अन्तरस्तंगतोऽक्षुब्धो बहिरस्तंगतः शमी ।

विद्यते चोदितो यस्य स मुक्त इति कथ्यते

॥८॥

अहंत्वसर्गरूपेण संवित्संविन्मये परे ।

स्फुरत्यम्भोम्भसीवातो नानातेयं किमात्मिका

॥९॥

धूमस्य स्फुरतो व्योम्नि यथा गजरथादयः ।

व्यूहा धूमान्न ते भिन्नास्तथा सर्गाः परे पदे

॥१०॥

संविद्भ्रान्तिविचारेण भ्रान्त्यलाभविलासिनः ।

विजयध्वं विषादं माऽऽगता ज्ञास्तज्ज्ञता हि वः

॥११॥

अङ्कुरोऽनुभवत्यन्तर्वृक्षपत्रफलं यथा ।

तथा जगदहंत्वे ज्ञः स्वात्मा स्वात्मखमप्यलम्

॥१२॥

रूपालोकमनःसत्ता ज्वालार्चिष्विव दण्डता ।

सत्योपि च न सन्त्येता भ्रान्तेश्चित्ताबला इव

॥१३॥

यथा सुखं यथारम्भं यथा नाशं यथोदयम् ।

यथा देशं यथा कालमजराः शान्तमास्यताम्

॥१४॥

इष्टानिष्टोपलम्भेषु शान्तो व्यवहरन्नपि ।

शववन्नान्यतामन्तर्निर्वाणोऽनुभवत्यलम्

॥१५॥

अमनोवासनाहंता धत्ते यच्च जगच्चिरम् ।

जीवतोऽजीवतश्चैव चिज्जीवः स परं पदम्

॥१६॥

सत्तैव जडवाहेन दुःखभाराय केवलम् ।

नृणां पाशावबद्धानां पोतकानामिवार्णवे

॥१७॥

मोक्षसत्ता श्रयति तं नाज्ञानानुभवादिव ।

मृतेन यत्किल प्राप्यं जीवन्प्राप्नोति तत्कथम्

॥१८॥

यद्यत्संकल्पयते तत्तत्संकल्पादेव नाशभाक् ।

न संभवति यत्रैतत्तत्सत्यं पदमक्षयम्

॥१९॥

नान्यो न चाहमस्मीति भावनान्निर्भयो भव ।

सत्यं युक्तं भवत्येतद्विषमप्यमृतं यथा

॥२०॥

जडं देहादि चित्तान्तं विचार्य सकलं वपुः ।

लभ्यते नाहमस्मीति तस्मान्नास्मीति सत्यता

॥२१॥

शान्ताशेषविशेषाणामहंतान्ताविचारणात् ।

केवलं मुक्ततोदेति न तु किंचिद्विनश्यति

॥२२॥

भोगत्यागविचारात्मपौरुषान्नान्यदत्र हि ।

उपयुज्यत इत्यज्ञाः स्वात्मैवाशु प्रणम्यताम्

॥२३॥

निर्वासनं मननमेवमुदाहरन्ति

मोक्षं विना भवति तन्न च जातु बोधात् ।

सन्नो जगद्भ्रम इतीह परः प्रबोधो

न प्रत्ययोऽत्र यदतः सुचिराय बन्धः

॥२४॥

जगदहमसदित्युपेत्य सम्य-

ग्जनधनदारशरीरनिर्व्यपेक्षः ।

भवति हि स च चेतनस्वरूपः

परिमितखं खलु नान्यथास्ति मुक्तिः

॥२५॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वाणप्रकरणे उत्तरार्धे परमार्थोपन्यासयोगो नाम त्रिंशः सर्गः ।। ३० ।।