मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — पूर्वार्धम् — सर्गः ८

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — पूर्वार्धम् · 8

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

संसारवनखण्डेऽस्मिंश्चित्पर्वततटे स्थिता ।

कीदृशी सृष्ट्यविद्याख्या लता विकसिता कदा

॥१॥

बृहत्पर्वतपर्वाढ्या ब्रह्माण्डत्वक्समावृता ।

देहयष्टिरियं यस्यास्त्रिलोकी लोककासिनी

॥२॥

सुखं दुःखं भवो भावो ज्ञानमज्ञानमेव च ।

अत्रैतान्युरुवृत्तानि मूलानि च फलानि च

॥३॥

सुखादविद्योदेत्युच्चैस्तदेवान्ते प्रयच्छति ।

दुःखादविद्योदेत्युच्चैस्तदेवैषा फलत्यलम्

॥४॥

भवादविद्योदेत्येषा तमेव फलति स्फुटम् ।

भावात्सत्तामवाप्नोति तमेव फलति क्षणम्

॥५॥

अज्ञानाद्वृद्धिमायाति तदेव स्यात्फलं स्फुटम् ।

ज्ञानेनायाति संवित्तिस्तामेवान्ते प्रयच्छति

॥६॥

नानाविधोल्लासवती वासना मोदशालिनी ।

घनप्रवालतरला तनुरस्या विजृम्भते

॥७॥

दिवसव्यूहकुसुमा यामिनीलोलषट्पदा ।।

अजस्रं स्पन्दमानैषा प्रपतद्भूतपल्लवा

॥८॥

आगत्यागत्य पतति विवेककरिणीं क्वचित् ।

विधूयते धूतरजाः प्रसक्तिं पुनरेति च

॥९॥

जायमानप्रवालाढ्या संजाताङ्कुरदन्तुरा ।

सर्वर्तुकुसुमोपेता समग्ररसशालिनी

॥१०॥

जन्मपर्वाहिनीरन्ध्रा विनाशच्छिद्रचञ्चुरा ।

भोगाभोगरसापूर्णा विचारैकघुणक्षता

॥११॥

विकसन्त्यः प्रतिदिनं चन्द्रार्कावलयोऽभितः ।

व्योम्नि वातविलोलानि पुष्पाण्यस्याः किल ग्रहाः

॥१२॥

अस्याः प्रस्फुरिताकाराः कोरकत्वमुपागताः ।

पूरिताकाशकोशायास्तारका रघुनन्दन

॥१३॥

चन्द्रार्कदहनालोका यस्यास्तत्कौसुमं रजः ।

अनेनेयं हि गौराङ्गी स्त्रीव चेतांसि कर्षति

॥१४॥

मनोमातङ्गविधुता संकल्पकलकोकिला ।

इन्द्रियव्यालसंबाधा तृष्णात्वगुपरञ्जिता

॥१५॥

नीलाकाशतमालाङ्गसंश्रयेणोन्नतिं गता ।

रोदसीजानुसुस्तम्भा भुवनोद्यानभूषिता

॥१६॥

अधोब्रह्माण्डखण्डेषु स्वालवालेन जालिता ।

विधृताशेषजलधिजलक्षीरादिसेचना

॥१७॥

त्रयीविलोलभ्रमरा रमणीपुष्पपुञ्जिका ।

चित्स्पन्दवातचलिता क्रियाविपुलपुत्तिका

॥१८॥

कुकर्माजगरव्याप्ता स्वर्गश्रीपुष्पमण्डपा ।

जीवजीवननीरन्ध्रा नानामोदमदप्रदा

॥१९॥

नानोपशमवैचित्र्यनानाकुसुमभासिनी ।

नानाफलावलीव्याप्ता नानावर्षविकासिनी

॥२०॥

नानालवालवलया नानाविहगधारिणी ।

नानापरागपरुषा नानाभूधरजालिका

॥२१॥

नानाकलाकुड्मलिनी नानावनगणोत्थिता ।

नानागिरितटारूढा नानादलनिरन्तरा

॥२२॥

जाता च जायमाना च म्रियमाणा तथा मृता ।

अर्धच्छिन्ना तथाऽच्छिन्ना नित्यमच्छेदिनी तथा

॥२३॥

अतीता वर्तमाना च सत्येवासत्यवत्सदा ।

नित्यमत्यन्ततरुणी नित्यं शोषमुपेयुषी

॥२४॥

महाविषलतैषा हि संसारविषमूर्च्छनाम् ।

ददाति रभसाश्लिष्टा परामृष्टा विनश्यति

॥२५॥

स्फीतेऽन्तर्गलिता तस्य अज्ञेऽन्तः संस्थितान्विता ।

इतो जलमितः शैला इतो नागाः सुरा इतः

॥२६॥

इतः पृथ्वीत्वमायाता तथेतो द्युतया स्थिता ।

इतश्चन्द्रार्कतां प्राप्ता तथेतस्तारकाकृतिः

॥२७॥

इतस्तम इतस्तेज इतः खमित उर्वरा ।

इतः शास्त्रमितो वेदा इतो द्वयविवर्जिता

॥२८॥

क्वचित्खगतयोड्डीना क्वचिद्देवतयोत्थिता ।

क्वचित्स्थाणुतया रूढा क्वचित्पवनतां गता

॥२९॥

क्वचिन्नरकसंलीना क्वचित्स्वर्गविलासिनी ।

क्वचित्सुरपदं प्राप्ता क्वचित्कृमितया स्थिता

॥३०॥

क्वचिद्विष्णुः क्वचिद्ब्रह्मा क्वचिद्रुद्रः क्वचिद्रविः ।

क्वचिदग्निः क्वचिद्वायुः क्वचिच्चन्द्रः क्वचिद्यमः

॥३१॥

यत्किंचनाङ्ग भुवनेषु महामहिम्ना-

व्याप्तं जरत्तृणलवत्वमुपागतं वा ।

दृश्यं स्फुरन्ननु हराद्यपि तामविद्यां

विद्धि क्षयाय तदतीततयात्मलाभः

॥३२॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू० अविद्यालताविलासोपदेशो नामाष्टमः सर्गः ।। ८ ।।