मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः १३३

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 133

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

विपश्चिदुवाच ।

कस्मिंश्चिदन्यत्र जगत्यपूर्वे

दृष्टं मयेदं श्रृणु किं विचित्रम् ।

महाघवृत्तान्तदशासमान-

मविद्ययान्धेन बलात्कृतं यत्

॥१॥

अस्ति क्वचित्खे भवतामगम्ये

जगज्ज्वलद्दीप्तिविचित्रसर्गः ।

एतादृगप्यम्बरतस्तदन्यत्

स्वाप्नं पुरं जाग्रति चेतसीव

॥२॥

तस्मिन्मया विहरता हृदयस्थमर्थ-

मन्वेष्टुमक्षि निहितं ककुभां मुखेषु ।

पश्यामि यावदचलप्रतिमा धरायां

छायालिजालमलिना परिबंभ्रमीति

॥३॥

आश्चर्यमात्रमुचितं किमिदं निमेषा-

दित्यक्षि वै जगति यावदहं त्यजामि ।

खात्तावदद्रिमतुलं पुरुषाकृतिं द्रा-

गावर्तवृत्तिभिरपश्यमहं पतन्तम्

॥४॥

कः स्यादयं गिरिगुरुः पुरुषो विराड्वा

पर्यस्तपर्वतवदाशु पतच्छरीरः ।

आकाशपूरकवपुः परमाम्बरोऽपि

यो नैव भाति पिहिताखिलवासरश्रीः

॥५॥

एवंविधां हृदि मनाक्कलयामि याव-

त्तावत्पपात सहसा नभसो विवस्वान् ।

कल्पान्तवातपरिवृत्तपितामहाण्ड-

पृष्ठावपातघनघोषजुषा जवेन

॥६॥

तस्मिन्पतति भीमात्मन्यपारावारदेहिनि ।

सप्तद्वीपां वसुमतीं परिपूरयति क्षणात्

॥७॥

स्वात्मनो नाशमाशंक्य सद्वीपभुवनैः सह ।

अवश्यभाविपार्श्वस्थमहमग्निमथाविशम्

॥८॥

स जातवेदा भगवान्जन्मान्तरशतार्चितः ।

मा भैषीरिति देहेन मामुवाचेन्दुशीतलः

॥९॥

जय देव त्वमस्माकं प्रतिजन्म परायणम् ।

अकाल एव कल्पान्तो जातोऽतः पाहि मां प्रभो

॥१०॥

इत्युक्तेनाग्निना प्रोक्तं मा भैषीरिति तत्पुनः ।

उत्तिष्ठागच्छ गच्छावो मल्लोकमिति चानघ

॥११॥

इत्युक्त्वा शुकपृष्ठेऽसावारोप्य भगवांस्ततः ।

देहैकदेशे तत्पाति भूतं दग्ध्वा नभः प्लुतः

॥१२॥

अनन्तरं नभः प्राप्य दृष्टः कष्टाकृतिर्मया ।

स तादृग्भूतसंपातमहोत्पातो भयप्रदः

॥१३॥

तस्मिन्जवेन पतिते वसुधा चचाल

साम्भोधिशैलवनपत्तनजङ्गलौघा ।

चक्रे भृगुद्वयमयानजलस्रवन्ती

भीमाकृतीन्व्यधुरदेहविभेदगर्तान्

॥१४॥

उर्वी ररास ककुबुत्तरतो ररास

पूर्वा ररास विररास च दक्षिणा दिक् ।

द्यौराररास विररास सशैलभूतं

सर्वं जगत्प्रलयसंभ्रमभीतमुच्चैः

॥१५॥

उर्वी ररास धरणे सविरावरंहः-

संरम्भतर्जितसमस्तदिगन्तरासा ।

व्योमापि घुंघुममलङ्घ्यमलं चकार

नागारिवृन्दभयविद्रवणप्रचण्डम्

॥१६॥

निर्घातशब्द उदभूदभितो भयाय

भीमाय भूधरदरीदृढदारणोत्थः ।

उत्पातभीमजवजालयुगान्तवात-

संरब्धकल्पघनघोषवितीर्णतर्जः

॥१७॥

तस्मिञ्जवेन पतिते वसुधा ररास

सारावदिंमुखतया शतवेधमागात् ।

तत्रास्फुटन्कुलगिरीन्द्रमहातटानि

पातालदेशमविशन्हिमवच्छिरांसि

॥१८॥

आसीत्तत्पतनं तस्य मेरुशैलशिलाकृतेः ।

दलनं शैलश्रृङ्गाणां विदारणकरं भुवः

॥१९॥

क्षोभणं जलराशीनामद्रीणां भूतलार्पणम् ।

पीडनं सर्वभूतानां क्रीडनं प्रलयार्थिनाम्

॥२०॥

पातनं भूतले भानोः स्थगनं द्वीपपद्धतेः ।

चूर्णीकरणमद्रीणां दलनं मण्डलावनेः

॥२१॥

द्वितीयमिव भूपीठं ब्रह्माण्डार्धमिवापरम् ।

पतितं खमिवाकृत्या तदपश्यन्नभश्चराः

॥२२॥

अथ पश्याम्यहं यावदसौ मांसमयोऽचलः ।

न माति सप्तद्वीपायां भुवि तस्याङ्गमेककम्

॥२३॥

तमालोक्य मया देवः प्रसादे समवस्थितः ।

संपृष्टो भगवान्वह्निः प्रभो किमिदमित्यथ

॥२४॥

कथं मांसमयः सार्धं स चार्कः पतितो दिवः ।

स न माति हि भूपीठे सपर्वतवनाम्बुधौ

॥२५॥

अग्निरुवाच ।

प्रतिपालय पुत्र त्वं क्षणमेकं गतत्वरः ।

यावच्छाम्यतु दोषोऽयं कथयिष्यामि ते ततः

॥२६॥

अथ तस्मिन्वदत्येवं समाजग्मुर्नभश्चराः ।

तज्जगज्जालजातीया दिग्भ्यो गगनजाखिलाः

॥२७॥

सिद्धसाध्याप्सरोदैत्यगन्धर्वोरगकिन्नराः ।

ऋषयो मुनयो यक्षाः पितरो मातरोऽमराः

॥२८॥

अथ सर्वेश्वरीं देवीं शरण्यां ते नभश्चराः ।

भक्तिनम्रशिरःकायाः कालरात्रिं प्रतुष्टुवुः

॥२९॥

नभश्चरा ऊचुः ।

बद्ध्वा खट्वाङ्गश्रृङ्गे कपिलमुरुजटामण्डलं पद्मयोनेः

कृत्वा दैत्योत्तमाङ्गैः स्रजमुरसि शिरःशेखरं

तार्क्ष्यपक्षैः ।

या देवी भुक्तविश्वा पिबति जगदिदं साद्रिभू पीठभूतं

सा देवी निष्कलङ्का कलिततनुलता पातु नः

पालनीयान्

॥३०॥

इत्यार्षे श्रीवासिष्ठमहारामा० वा० दे० मो० नि० उ० अ० वि० शवोपाख्याने महाशववर्णनं नाम त्रयस्त्रिंशाधिकशततमः सर्गः ।।१३३ ।।