मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उत्पत्तिप्रकरणम् — सर्गः ७४

3
योगवासिष्ठम् · उत्पत्तिप्रकरणम् · 74

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

तस्य तत्रोर्ध्वशृङ्गस्य तस्यां भुवि महावनौ ।

ददर्श मध्यमां सूचीं प्रोत्थितां सशिखामिव

॥१॥

एकपादं तपस्यन्तीं शुष्यन्तीं शिरऊष्मणा ।

सततानशनां शुष्कपिण्डीभूतोदरत्वचम्

॥२॥

सकृद्विकसितास्येन गृहीत्वेवातपानिलान् ।

पश्चात्त्यजन्तीं हृदये मे न मान्तीत्यनारतम्

॥३॥

शुष्कां चण्डांशुकिरणैर्जर्जरां वनवायुभिः ।

अचलन्तीनिजात्स्थानात्स्नापितामिन्दुरश्मिभिः

॥४॥

पूर्वं रजोणुनैकेन संविष्टच्छन्नमस्तकाम् ।

कृतार्थत्वं कथयतीं ददतान्यस्य नास्पदम्

॥५॥

अरण्यान्येव दत्त्वार्थ चिरं जातशिखामिव ।

मूर्ध्न्यवस्थापितप्राणजटाजूटवलीमिव

॥६॥

तां प्रेक्ष्य पवनः सूचीं विस्मयाकुलचेतनः ।

प्रणम्यालोक्य सुचिरं भीतभीत इवागतः

॥७॥

महातपस्विनी सूची किमर्थं तप्यते तपः ।

नेति प्रष्टुं शशाकासौ तत्तेजोराशिनिर्जितः

॥८॥

भगवत्या महासूच्या अहो चित्रं महातपः ।

इत्येव केवलं ध्यायन्मारुतो गगनं ययौ

॥९॥

समुल्लङ्घ्याभ्रमार्ग तु वातस्कन्धानतीत्य च ।

सिद्धवृन्दानधः कृत्वा सूर्यमार्गमुपेत्य च

॥१०॥

ऊर्ध्वमेत्य विमानेभ्यः प्राप शक्रपुरान्तरे ।

सूचीदर्शनपुण्यं तमालिलिङ्ग पुरंदरः

॥११॥

पृष्टश्च कथयामास दृष्टं सर्वं मयेत्यसौ ।

सहदेवनिकायाय शक्रायास्थानवासिने

॥१२॥

वायुरुवाच ।

जम्बूद्वीपेऽस्ति शैलेन्द्रो हिमवान्नाम सून्नतः ।

जामाता यस्य भगवान्साक्षाच्छशिकलाधरः

॥१३॥

तस्योत्तरे महाशृङ्गपृष्ठे परमरूपिणी ।

स्थिता तपस्विनी सूची तपश्चरति दारुणम्

॥१४॥

बहुनात्र किमुक्तेन वाताद्यशनशान्तये ।

यया स्वोदरसौषिर्यं पिण्डीकृत्वा निवारितम्

॥१५॥

शान्तसंकोचसूक्ष्मार्थं विकास्यास्यं रजोणुना ।

तयाद्य स्थगितं शीतवाताशननिवृत्तये

॥१६॥

तस्यास्तीव्रेण तपसा तुहिनाकरमुत्सृजन् ।

अग्न्याकारमयो गृह्णन् देव दुःसेव्यतां गतः

॥१७॥

तदुत्तिष्ठाशु गच्छामः सर्व एव पितामहम् ।

तद्वरार्थमनर्थाय विद्धि तत्सुमहत्तपः

॥१८॥

इति वातेरितः शक्रः सहदेवगणेन सः ।

जगाम ब्रह्मणो लोकं प्रार्थयामास तं विभुम्

॥१९॥

सूच्या वरमहं दातुं गच्छामि हिमवच्छिरः ।

ब्रह्मणेति प्रतिज्ञाते शक्रः स्वर्गमुपाययौ

॥२०॥

एतावताथ कालेन सा बभूवातिपावनी ।

सूची निजतपस्तापतापितामरमन्दिरा

॥२१॥

मुखरन्ध्रस्थितार्कांशुदृशा स्वच्छाययैव सा ।

विकासिन्या विवर्तिस्था चोदितान्तमवेक्षिता

॥२२॥

कौशेयरूपया सूच्या मेरुः स्थैर्येण निर्जितः ।

मज्जनं नैति वृद्ध्वैवं मुक्तमाद्यन्तयोर्दिने

॥२३॥

मध्याह्ने तापभीत्येव विशन्त्या मारुतान्तरम् ।

अन्यदा गौरवाद्दृष्ट्वा दूरतः प्रेक्षमाणया

॥२४॥

सा तामवेक्षते क्षारात्तापादङ्गे निमज्जति ।

संकटे विस्मरत्येव जनो गौरवसत्क्रियाम्

॥२५॥

छायासूची तापसूची यश्चात्मा स तृतीयया ।

त्रिकोणं तपसा पूतं वाराणस्या समं कृतम्

॥२६॥

गतास्तेन त्रिकोणेन त्रिवर्णपरिखावता ।

वायवः पांसवो येऽपि ते परां मुक्तिमागताः

॥२७॥

विदितपरमकारणाद्य जाता स्वयमनुचेतनसंविदं विचार्य ।

स्वमननकलनानुसार एकस्त्विह हि गुरुः परमो न राघवान्यः

॥२८॥

इत्यार्षे श्रवासिष्ठमहारामायणे उत्पत्तिप्रकरणे सूचीतपःपरिपाकवर्णनं नाम चतुःसप्ततितमः सर्गः ।। ७४ ।।