मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उपशमप्रकरणम् — सर्गः ४३

3
योगवासिष्ठम् · उपशमप्रकरणम् · 43

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीराम उवाच ।

भगवन्सर्वधर्मज्ञ शुद्धैस्त्वद्वचनांशुभिः ।

निर्वृताः स्म शशाङ्कस्य करैरोषधयो यथा

॥१॥

कर्णाभिवाञ्छ्यमानानि पवित्राणि मृदूनि च ।

सुखयन्ति गृहीतानि पुष्पाणीव वचांसि ते

॥२॥

पौरुषेण प्रयत्नेन सर्वमासाद्यते यदि ।

प्रह्लादस्तत्कथं बुद्धो न माधववरं विना

॥३॥

श्रीवसिष्ठ उवाच ।

यद्यद्राघव संप्राप्तं प्रह्लादेन महात्मना ।

तत्तदासादितं तेन पौरुषादेव नान्यतः

॥४॥

आत्मा नारायणश्चैव न भिन्नस्तिलतैलवत् ।

तथैव शौक्ल्यपटवत्कुसुमामोदवत्तथा

॥५॥

यो हि विष्णुः स एवात्मा यो ह्यात्मासौ जनार्दनः ।

विष्ण्वात्मशब्दौ पर्यायौ यथा विटपिपादपौ

॥६॥

प्रह्लादनामा प्रथममात्मैव स्वयमात्मना ।

स्वयैव परया शक्त्या विष्णुभक्तौ नियोजितः

॥७॥

प्रह्लादो ह्यात्मनैवैनं वरमर्जितवान्स्वयम् ।

स्वत्रं विचारगं कृत्वा स्वयं विदितवान्मनः

॥८॥

कदाचिदात्मनैवात्मा स्वयं शक्त्या प्रबुध्यते ।

कदाचिद्विष्णुदेहेन भक्तिलभ्येन बोध्यते

॥९॥

चिरमाराधितोऽप्येष परमप्रीतिमानपि ।

नाविचारवतो ज्ञानं दातुं शक्नोति माधवः

॥१०॥

मुख्यः पुरुषयत्नोत्थो विचारः स्वात्मदर्शने ।

गौणो वरादिको हेतुर्मुख्यहेतुपरो भव

॥११॥

पूर्वमेव बलात्तस्मादाक्रम्येन्द्रियपञ्चकम् ।

अभ्यसन्सर्वयत्नेन चित्तं कुरु विचारवत्

॥१२॥

यद्यदासाद्यते किंचित्केनचित्क्वचिदेव हि ।

स्वशक्तिसंप्रवृत्त्या तल्लभ्यते नान्यतः क्वचित्

॥१३॥

पौरुषं यत्नमाश्रित्य प्रोल्लङ्घ्येन्द्रियपर्वतम् ।

संसारजलधिं तीर्त्वा पारं गच्छ परं पदम्

॥१४॥

विना पुरुषयत्नेन दृश्यते चेज्जनार्दनः ।

मृगपक्षिगणं कस्मात्तदासौ नोद्धरत्यजः

॥१५॥

गुरुश्चेदुद्धरत्यज्ञमात्मीयात्पौरुषादृते ।

उष्ट्रं दान्तं बलीवर्दं तत्कस्मान्नोद्धरत्यसौ

॥१५॥

न हरेर्न गुरोर्नार्थात्किंचिदासाद्यते महत् ।

आक्रान्तमनसः स्वस्माद्यदासादितमात्मनः

॥१७॥

अभ्यासवैराग्ययुतादाक्रान्तेन्द्रियपन्नगात् ।

नात्मनः प्राप्यते यत्तत्प्राप्यते न जगत्त्रयात्

॥१८॥

आराधयात्मनात्मानमात्मनात्मानमर्चय ।

आत्मनात्मानमालोक्य संतिष्ठस्वात्मनात्मनि

॥१९॥

शास्त्रयत्नविचारेभ्यो मूर्खाणां प्रपलायिनाम् ।

कल्पिता वैष्णवी भक्तिः प्रवृत्त्यर्थं शुभस्थितौ

॥२०॥

अभ्यासयत्नौ प्रथमं मुख्यो विधिरुदाहृतः ।

तदभावे तु गौणः स्यात्पूज्यपूजामयक्रमः

॥२१॥

अस्ति चेदिन्द्रियाक्रान्तिः किं प्राप्यं पूजनैः फलम् ।

नास्तिचेदिन्द्रियाक्रान्तिः किं प्राप्यं पूजनैः फलम्

॥२२॥

विचारोपशमाभ्यां हि न विनासाद्यते हरिः ।

विचारोपशमाभ्यां च मुक्तस्याब्जकरेण किम्

॥२३॥

विचारोपशमोपेतं चित्तमाराधयात्मनः ।

तस्मिन्सिद्धे भवान्सिद्धो नो चेत्त्वं वनगर्दभः

॥२४॥

क्रियते माधवादीनां प्रणयप्रार्थना स्वयम् ।

तथैव क्रियते कस्मान्न स्वकस्यैव चेतसः

॥२५॥

सर्वस्यैव जनस्यास्य विष्णुरभ्यन्तरे स्थितः ।

तं परित्यज्य ये यान्ति बहिर्विष्णुं नराधमाः

॥२६॥

हृद्गुहावासिचित्तत्त्वं मुख्यं सानातनं वपुः ।

शङ्खचक्रगदाहस्तो गौण आकार आत्मनः

॥२७॥

यो हि मुख्यं परित्यज्य गौणं समनुधावति ।

त्यक्त्वा रसायनं सिद्धं साध्यं संसाधयत्यसौ

॥२८॥

यस्तु भोः स्थितिमेवास्यामात्मज्ञानचमत्कृतौ ।

नासादयति संमत्तमनाः स' रघुनन्दन

॥२९॥

अप्राप्तात्मविवेकोऽन्तरज्ञचित्तवशीकृतः ।

शंखचक्रगदापाणिमर्चयेत्परमेश्वरम्

॥३०॥

तत्पूजनेन कष्टेन तपसा तस्य राघव ।

काले निर्मलतामेति चित्तं वैराग्यकारिणा

॥३१॥

नित्याभ्यासविवेकाभ्यां चित्तमाशु प्रसीदति ।

आम्र एव दशामेति साहकारीं शनैः शनैः

॥३२॥

एतदप्यात्मनैवात्मा फलमाप्नोति भाषितम् ।

हरिपूजाक्रमाख्येन निमित्तेनारिसूदन

॥३३॥

वरमाप्नोति यो वापि विष्णोरमिततेजसः ।

तेन स्वस्यैव तत्प्राप्तं फलमभ्यासशाखिनः

॥३४॥

सर्वेषामुत्तमस्थानां सर्वासां चिरसंपदाम् ।

स्वमनोनिग्रहो भूमिर्भूमिः सस्यश्रियामिव

॥३५॥

अप्युर्वीखननोत्कस्य कर्षतोऽपि शिलोच्चयम् ।

स्वमनोनिग्रहादन्यो नोपायोऽस्तीह कश्चन

॥३६॥

तावज्जन्मसहस्राणि भ्रमन्ति भुवि मानवाः ।

यावन्नोपशमं याति मनोमत्तमहार्णवः

॥३७॥

ब्रह्मविष्ण्विन्द्ररुद्राद्याश्चिरसंपूजिता अपि ।

उपप्लवान्मनोव्याधेर्न त्रायन्तेऽपि वत्सलाः

॥३८॥

आकारभासुरं त्यक्त्वा बाह्यमान्तरमप्यजम् ।

कुरु जन्मक्षयायाशु संविन्मात्रैकचिन्तनम्

॥३९॥

संवेद्यनिर्मुक्तनिरामयैक-

संविन्मयास्वादमनन्तरूपम् ।

सन्मात्रमास्वादय सर्वसारं

पारं परं प्राप्स्यसि जन्मनद्याः

॥४०॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मोक्षोपायेषूपशमप्रकरणे प्रह्लादविश्रान्तिर्नाम त्रिचत्वारिंशः सर्गः ।। ४३ ।।