मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — पूर्वार्धम् — सर्गः ३३

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — पूर्वार्धम् · 33

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

चन्द्रार्धशेखरधर चित्तत्त्वस्य महात्मनः ।

अनन्तस्यैकरूपस्य द्वित्वं कथमुपागतम्

॥१॥

कथं च तन्महादेव रूढं पर्यायसंकुलम् ।

भवेद्दुःखोपघाताय प्रज्ञया विनिवारितम्

॥२॥

ईश्वर उवाच ।

सर्वशक्ति हि तद्ब्रह्म सदेकं विद्यते यदा ।

तदा निर्मूल एवायं द्वित्वैकत्वकलोदयः

॥३॥

सति द्वित्वे किलैकं स्यात्सत्येकत्वे द्विरूपता ।

कले द्वे अपि चिद्रूपे चिद्रूपत्वात्तदप्यसत्

॥४॥

एकाभावादभावोऽत्र एकत्वद्वित्वयोर्द्वयोः ।

एकं विना न द्वितीयं न द्वितीयं विनैकता

॥५॥

कार्यकारणयोरेकसारत्वादेकरूपता ।

फलान्तस्यापि बीजादेर्विकारादिह कल्पना

॥६॥

चित्त्वं चेत्यविकल्पेन स्वयं स्फुरति तन्मयम् ।

विकारादि तदेवान्तस्तत्सारत्वान्न भिद्यते

॥७॥

विकारादिविकल्पोऽयं तत उत्थाय वस्तुषु ।

याति सार्थकतां नानाकार्यकारणतादिभिः

॥८॥

तरङ्गाः सलिले येऽपि तोये शैलस्य ते समाः ।

शशश्रृङ्गसमः सोऽपि यस्य सत्यः शशाङ्कुरः

॥९॥

वस्तुबोधोऽत्र संधत्ते तत्रालं वाग्विकल्पनैः ।

व्यवच्छेदादि दुश्छेद्यं वचोवाच्यात्किल द्विज

॥१०॥

ब्रह्मणः सर्वशक्तित्वं तत्त्वतो न विभिद्यते ।

तरङ्गकणकल्लोलजलौघ इव वारिणः

॥११॥

पुष्पपल्लवपत्रादि लताया नेतरद्यथा ।

द्वित्वैकत्वजगत्त्वादि त्वन्त्वाहन्त्वं तथा चितेः

॥१२॥

देशकालविकारादिः कृतो भेदश्चितस्तु यः ।

तच्चिदेतदसत्प्रोक्तं न प्रश्नोऽत्र तवोचितः

॥१३॥

देशकालक्रियासत्तानियत्याद्याश्च शक्तयः ।

चिदात्मिका एव चितः सत्त्वात्संपतिताः स्वतः

॥१४॥

चित्तत्त्वं चित्तचेत्येहं चिद्ब्रह्माद्यभिधा स्मृता ।

यथा वीच्याद्यभिधार्हं स्थितमम्बुतरङ्गकम्

॥१५॥

असंभवत्तरङ्गस्य चिद्विलासमहाम्बुधेः ।

तरङ्गितत्वमिव यत्तत्तावच्चेत्यसङ्गिता

॥१६॥

तदेतत्परमं ब्रह्म सत्येश्वरशिवादिभिः ।

शून्यैकपरमात्मादिनामभिः परिगीयते

॥१७॥

एवं रूपपदातीतं यद्रूपं परमात्मनः ।

यत्तु नामाहममलं विषयो न गिरां च तत्

॥१८॥

यदिदं दृश्यते तस्यास्तल्लताया महाचितेः ।

फलपल्लवपुष्पादि न भिन्नं तन्मयं यतः

॥१९॥

महाविद्योपनयना चिद्भवत्यभिधा सती ।

सा जीवत्वेन बाह्यत्वं तदा द्वीन्द्विव पश्यति

॥२०॥

स्वयमन्यैवमस्मीति भावयित्वा स्वभावतः ।

अन्यतामिव संयाति स्वविकल्पात्मिकां स्वतः

॥२१॥

अकलङ्केन रूपेण रूपं यत्सकलङ्कवत् ।

संसारसरितं प्राप्य चेतनेनैव चेतति

॥२२॥

चिद्वपुः स्वयमेतेन ह्येकतामेति जीवताम् ।

चित्तत्त्वस्यावभासेन जीवो जीवति तन्मयः

॥२३॥

आतिवाहिकदेहोऽपि जीवतां समुपागतः ।

भावनापञ्चकं भूत्वा द्रव्यमस्मीति वेत्त्यलम्

॥२४॥

तद्द्रव्यं प्राणिना भुक्तमाशु गच्छति वीर्यताम् ।

ततोऽहं प्राणवाञ्जातो वेत्तीत्यनुभवात्मकम्

॥२५॥

अहंतादिक्रमेणाशु पञ्चकानुभवभ्रमात् ।

स्थावरं जंगमं सर्वं वेत्ति तत्तद्भवत्यलम्

॥२६॥

काकतालीययोगेन दृढाभ्यासक्षयेण च ।

वासनान्तरसंश्लेषात्सूक्ष्ममाकारमुज्झति

॥२७॥

द्वित्वस्वसंविदा द्वित्वमेकस्यैव प्रवर्तते ।

पुंसो वेतालसंकल्पाद्वेताल इव भासुरः

॥२८॥

अद्वित्ववेदनाद्वित्वमात्मनोऽपि निवर्तते ।

न करोमीति संकल्पात्पुरुषस्येव कर्तृता

॥२९॥

द्वित्वसंकल्पतो द्वित्वमेकस्यैव प्रवर्तते ।

अद्वित्वसंविदा द्वित्वमनेकस्यापि नश्यति

॥३०॥

परमात्मतया द्वित्वं न किलात्मनि विद्यते ।

अविकारादिमत्त्वेन सर्वगत्वेन सर्वदा

॥३१॥

यत्स्वसंकल्परचितमसंकल्पक्षयं हि तत् ।

यथा मुने मनोराज्यं गन्धर्वनगरं यथा

॥३२॥

तथा संकल्पने क्लेशो न संकल्पविनाशने ।

संकल्पयक्षो गन्धर्वपुर्याः सृष्टौ न तु क्षये

॥३३॥

पुष्टसंकल्पमात्रेण यदिदं दुःखमागतम् ।

तदसंकल्पमात्रेण क्षयि कात्र कदर्थना

॥३४॥

यत्किंचिदपि संकल्प्य नरो दुःखे निमज्जति ।

न किंचिदपि संकल्प्य सुखमव्ययमश्नुते

॥३५॥

संकल्पव्यालनिर्मुक्ता न यदा तव चेतना ।

न तदा नन्दनोद्याने त्वमुच्चैः परिराजसे

॥३६॥

स्वविवेकानिलैः कृत्वा संकल्पजलदक्षयम् ।

परां निर्मलतामेहि शरदीव नभोन्तरम्

॥३७॥

संकल्पसरितं मत्तां मणिमन्त्रेण शोषय ।

तत्रोह्यमानमात्मानं समाश्वास्य भवामनाः

॥३८॥

संकल्पानिलनिर्धूतं भ्रान्तं पर्णतृणांशवत् ।

भूताकाशे चिदात्मानमवलम्ब्य विलोकय

॥३९॥

स्वसंकल्पनकालुष्यं विनिवार्यात्मनात्मनः ।

परं प्रसादमासाद्य परमानन्दवान्भव

॥४०॥

सर्वशक्तिमयो ह्यात्मा यद्यथा भावयत्यलम् ।

तत्तथा पश्यति तदा स्वसंकल्पविजृम्भितम्

॥४१॥

संकल्पमात्रमेवेदं जगन्मिथ्यात्वमुत्थितम् ।

असंकल्पनमात्रेण ब्रह्मन्क्वापि विलीयते

॥४२॥

संकल्पवातवलितं जन्मजालकदम्बकम् ।

असंकल्पानिलस्पर्शाद्विश्राम्यति परे पदे

॥४३॥

तृष्णाकरञ्जलतिकामिमां रूढिमुपागताम् ।

संकल्पमूलोद्धरणात्परिशोषवतीं कुरु

॥४४॥

प्रतिभाससमुत्थानं प्रतिभासपरिक्षयम् ।

यथा गन्धर्वनगरं तथा संसृतिविभ्रमः

॥४५॥

प्रभुरस्मीति विस्मृत्य तावच्छोचति भूमिपः ।

भूमिपोऽस्मीति संजाता यावन्नास्य हृदि स्मृतिः

॥४६॥

नास्य तज्जातया ब्रह्मन्प्राक्स्मृतिर्वर्तमानया ।

शरदेवोपगतया प्रावृड् जाड्यापवारिणी

॥४७॥

घनप्रवाहयाऽकस्माच्चित्तेहा सैव वर्धते ।

य एवोच्चैःस्वरस्तन्त्र्याः स एवाक्रामति श्रुतिम्

॥४८॥

अहमेकोऽहमात्मास्मीत्येकां भावय भावनाम् ।

तया भावनया युक्तः स एव त्वं भवस्यलम्

॥४९॥

एवं ह्यसंभवदिदं त्वविरागभास्य-

त्तत्सत्त्वमुत्तमपदं परमेकदेवः ।

पूजासु पूजकसुपूजनपूज्यरूपं

किंचिन्नकिंचिदिव चित्तपदैकमूर्तिः

॥५०॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू० द्वैतैक्यप्रतिपादनं नाम त्रयस्त्रिंशः सर्गः ।। ३३ ।।