मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः १४१

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 141

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

मुनिरुवाच ।

तत्र दंदह्यमानोऽपि नाभवं दुःखभागहम् ।

स्वप्ने स्वप्नोऽयमित्येष जानन्नग्नावपि च्युतः

॥१॥

ज्वालाजालनवोड्डीतिमण्डलैरखिलैर्नभः ।

अलातचक्रवच्चारु केवलं भ्रान्तवानहम्

॥२॥

तं दवाग्निमहं यावत्तत्त्ववित्त्यादखिन्नधीः ।

विचारयाम्यखिन्नात्मा मारुतस्तावदाययौ

॥३॥

सीत्कारमतिगम्भीरं दधन्मेघरवोपमम् ।

जगत्पदार्थैरावृत्तैरुह्यमानैः परावृतः

॥४॥

बृहद्भिर्घुंघुमावेगैर्वने द्विगुणिताम्बुदः ।

सूर्यैरावृत्तिभिर्व्यूढैर्विमिश्रालातचक्रकः

॥५॥

ज्वालासंध्याभ्रनिवहैर्वृहदग्निनदीशतः ।

शैलद्विगुणभूखण्डदानवामरपत्तनः

॥६॥

भूतैर्द्विगुणपात्रौघो भ्रान्तैरम्बरकुक्षिषु ।

दग्धादग्धाभिरप्यर्धदग्धाभिरितरेतरम्

॥७॥

पतन्तीभिः सुरस्त्रीभिर्द्विगुणाग्निशिखालवः ।

पतदङ्गारधारौघकणसीकरदन्तुरः

॥८॥

अलातविद्युतो धुन्वन्पूताङ्गारोग्रमण्डलीः ।

धूमान्धकारैः स्थगयन्म्लानमूर्ध्वदिशोमुखम्

॥९॥

भूमेर्व्योम्नो दिङ्मुखेभ्यः समन्ता-

ज्ज्वालासंध्यावारिदा निर्गतास्ते ।

यैस्तैर्ज्वालाशैलसंपिण्डमात्रं

सव्योमौकाः संस्थिता सप्तलोकी

॥१०॥

क्वापि प्रोत्फालकीर्णानलकणकपिलप्रोल्लसन्मूर्ध-

जालिः

क्वापि प्रोड्डीनकुड्यः कटुरटनपटुर्भस्मसंपिण्डपाण्डुः ।

क्वापि ज्वालापटालीं परिदधदभितः संपतन्तीं

गृहीतां

रौद्रः कर्तुं प्रवृत्तो हर इव स तदा मारुतो

नृत्यलीलाः

॥११॥

इत्यार्षे श्रीवासि० वाल्मी० दे० मो० नि० उ० अ० वि० श० कल्पान्तवर्णनं नामैकचत्वारिशदधिकशततमः सर्गः ।। १४१ ।।