मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः २१०

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 210

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

फले क्षयेन्दुभारूपे प्राप्ते ध्यातृशतैर्नभः ।

यथा न शतपूर्णेन्दु तथेदं कथनं श्रृणु

॥१॥

चन्द्रबिम्बस्य ध्यातारः प्राप्ताः प्राप्तव्यसुस्थिताः ।

नेदं नभस्तलं प्राप्ता न चेमं शशिनं श्रिताः

॥२॥

क्वेवान्यसंकल्पपुरमन्यः प्राप्नोति कथ्यताम् ।

संकल्पपुर्यामर्थाप्तिस्तज्जन्तावेव नापरे

॥३॥

पृथक्पृथक्स्वसंकल्पसर्गखेष्वेव ते स्थिताः ।

चन्द्रास्तपन्ति तत्रैव कलाक्षयविवर्जिताः

॥४॥

विशेयमस्मिन्नेवेन्दाविनि ध्याता निशाकरे ।

अस्मिन्नेव विशत्यन्तरात्मबुद्धिसुखोज्झितः

॥५॥

अहमिन्दुं प्रविष्टः स्यामिन्दुबिम्बसुखान्वितः ।

ध्यातेति तादृक्सुखभाग्भवतीति विनिश्चयः

॥६॥

यथायमनुसंधत्ते स्वभावं संविदव्यया ।

तं तथैवानुभवति भवेच्चेद्दृढनिश्चयः

॥७॥

यथेन्दुत्वं स्वसंकल्पात्सर्वध्यातुः पृथक्पृथक् ।

भात्येवमेव वनितालाभः काल्पनिकः स्वतः

॥८॥

या ध्याने ध्यातृलक्षाणां साध्वी भार्यात्वमागता ।

तत्कल्पनानुभवनं तेषां सत्त्वात्मनि स्थितम्

॥९॥

गृहादनिर्गतो जीवः सप्तद्वीपपरः स्थितः ।

तस्यापि तत्काल्पनिकं राज्यं व्योम्नि स्वमन्दिरे

॥१०॥

समस्तं कल्पनामात्रमिदमाद्यज्ञजन्मनः ।

शून्यमप्रतिघं शान्तं तेष्वपि स्यात्किमन्यथा

॥११॥

दानौर्ध्वदेहिकतपोजपादीनां परत्र यत् ।

अमूर्तानां फलं मूर्तं तदिदं कथ्यते श्रृणु

॥१२॥

दानादिचिह्नितधियः परत्र स्वप्नवत्फलम् ।

पश्यन्त्यमूर्तामूर्ताभमजं चिन्मूर्तिकल्पनात्

॥१३॥

वेदनावेदनाकारा स्पन्दास्पन्दात्म वै पुनः ।

चिन्मात्रस्यास्य तद्भ्रान्तिशान्तौ शान्तात्म निर्मलम्

॥१४॥

चिन्मात्राभमितो दानादमुत्रात्तमवाप्नुयात् ।

संकल्पात्मेति कवयः कथं तन्नोपलभ्यते

॥१५॥

कल्पनात्मनि संसारे संकल्पोऽकृत्रिमं फलम् ।

चिन्मात्रमभितोऽदानाद्दानाद्वाऽस्तु यथोदितः

॥१६॥

एतत्ते कथितं सर्वं यथापृष्टं महीपते ।

जगदप्रतिघं सर्वमिदं चिन्मात्रकल्पनम्

॥१७॥

राजोवाच ।

सर्गादौ भगवन्देहमिदं चिन्मात्रकल्पनम् ।

कथं भाति कथं कुड्यं विना दीपः प्रकाशते

॥१८॥

श्रीवसिष्ठ उवाच ।

त्वयार्थो देहशब्दस्य यो बुद्धः स महामते ।

तत्त्वज्ञं प्रति नास्त्येव शिलानृत्तमिवाम्बरे

॥१९॥

य एव ब्रह्मशब्दार्थो देहशब्दार्थ एव सः ।

नार्थयोरनयोर्भेदो विद्यतेऽम्ब्वम्भसोरिव

॥२०॥

यदेव ब्रह्मदेहोऽसौ स्वप्नाभः स्वप्न एष तु ।

त्वद्वोधायोच्यते युक्तिर्न तु तत्स्वप्न एव तु

॥२१॥

स्वप्नस्तवानुभूतार्थस्तेनातस्त्वं प्रबोध्यसे ।

न तु सर्गे चिदाभाते सादृश्यं स्वप्नभस्मना

॥२२॥

कस्तत्र नाम देहोऽयं कस्यैते स्वप्नधीः क्व वा ।

स्वप्नेन ज्ञावबुद्धेन भ्रमेणाज्ञोऽवबोध्यते

॥२३॥

तत्र जाग्रन्न च स्वप्नो न सुषुप्तं न चेतरत् ।

किमपीत्थमिदं भानं खमात्रं मौनमोमलम्

॥२४॥

अभातमेव भातीव यदद्येत्थमिदं तु तत् ।

प्राग्विभातं तथात्यच्छं जाग्रत्स्वप्नादि नो यथा

॥२५॥

देशाद्देशान्तरप्राप्तौ यन्मध्ये संविदो वपुः ।

तन्मयं सर्वमेवेदं द्वैतमद्वैतमेव च

॥२६॥

अन्यत्र चिन्मयं स्वप्नं द्वैताद्वैतं शुभाशुभम् ।

निरावरणचिन्मात्रनभसैवोपमीयते

॥२७॥

शून्यमर्थोपलम्भश्च भानं चाभानमेव च ।

द्वैतमैक्यमसत्सच्च सर्वं चिद्गगनं परम्

॥२८॥

पूर्णात्पूर्णं प्रसरति पूर्णमेव स्थितं जगत् ।

न च भातं न चाभातं शिलाबद्धोदरोपमम्

॥२९॥

यतो जगच्चिदुन्मेषो व्योमात्माप्रतिघं ततः ।

चिन्मात्रं यत्र यत्रास्ति तत्र तत्रोचितं जगत्

॥३०॥

चिद्व्योम चास्ति सर्वत्र सर्वं चैतज्जगन्मयम् ।

सर्वं ब्रह्ममयं शान्तं जगदित्यपि शब्दितम्

॥३१॥

यथास्थितमिदं विश्वं तथासंस्थमनामयम् ।

ब्रह्मैव निरवद्यात्म चित्संकल्पपुराकृति

॥३२॥

असंभवादन्ययुक्तेर्युक्तिरेषैव शोभना ।

अयुक्त्यनुभवं तूक्तं नार्थिनामिह शोभते

॥३३॥

लोके शास्त्रेऽथ वेदादौ यत्सिद्धं सिद्धमेव तत् ।

सदस्त्वसद्वात्मनि तद्धातुं शक्यं न वा क्वचित्

॥३४॥

तदेवेत्थं परिज्ञातं ब्रह्मतामुपगच्छति ।

यदा तेन समं विश्वं स्थितमेव विलीयते

॥३५॥

न्यायेनैतदिहोक्तेन लोकवेदादि सिध्यति ।

सर्वं स जीवन्मुक्तत्वमेष एवोचितस्ततः

॥३६॥

परिज्ञातं चिदाकाशमपरिज्ञातपादपे ।

सोऽहं त्रिजगदित्येव बन्धमोक्षविनिर्णयः

॥३७॥

यथास्थितमिदं दृश्यं परिज्ञानाद्विलीयते ।

तज्ज्ञस्यास्तंगतस्यैव शिलामौनं तु शिष्यते

॥३८॥

लोके शास्त्रे च वेदे च यत्सिद्धं सिद्धमेव तत् ।

संवेद्यते तदेवातस्तदेवं फलति स्फुटम्

॥३९॥

सकलार्थनिरासेन यद्यत्संवेद्यते चिरम् ।

तदेव प्राप्यतेऽवश्यं सर्वत्रैवान्यभावितम्

॥४०॥

यथानुभूतं यत्तत्तत्तथा नामानुभूयते ।

तत्सत्यमस्त्वसत्यं वा यावल्लाभं तथा नु तत्

॥४१॥

इत्थं महाप्रश्नविचारणं ते

मयेदमुक्तं मतिमन्महात्मन् ।

अनेन गच्छाशु पथा निराधि-

र्निरामयो निर्व्यसनो भवोच्चैः

॥४२॥

इत्यार्षे श्रीवा० वा० दे० मो नि० ४० द्वैतैक्योपलम्भनिरासेन महाप्रश्नोत्तरवाक्यसमाप्तिर्नाम दशाधिकद्विशततमः सर्गः ।।२१०।।