मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उत्पत्तिप्रकरणम् — सर्गः ९०

3
योगवासिष्ठम् · उत्पत्तिप्रकरणम् · 90

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

भानुरुवाच ।

अथेन्द्रेणैवमुक्तोऽसौ राजा राजीवलोचनः ।

मुनिं भरतनामानं पार्श्वसंस्थमुवाच ह

॥१॥

राजोवाच ।

भगवन्सर्वधर्मज्ञ पश्यामि सुदुरात्मनः ।

भृशमस्य मुखे स्फारं धार्ष्ट्यं मद्दारहारिणः

॥२॥

पापानुरूपमस्याशु शापं देहि महामुने ।

यदवध्यवधात्पापं वध्यत्यागात्तदेव हि

॥३॥

इत्युक्तो राजसिंहेन भरतो मुनिसत्तमः ।

यथावत्प्रविचार्याशु पापं तस्य दुरात्मनः

॥४॥

सहानया दुष्कृतिन्या भर्तृद्रोहाभिभूतया ।

विनाशं व्रज दुर्बुद्धे इति शापं विसृष्टवान्

॥५॥

ततस्तौ राजभरतौ प्रत्यूचतुरिदं वचः ।

सुदुर्मती युवां याभ्यां क्षपितं दुश्चरं तपः

॥६॥

अनेन शापदानेन किंचिद्भवति नावयोः ।

देहे नष्टे न नौ किंचिन्नश्यति स्वान्तरूपयोः

॥७॥

स्वान्तं हि नहि केनापि शक्यते नाशितुं क्वचित् ।

सूक्ष्मत्वाच्चिन्मयत्वाच्च दुर्लक्ष्यत्वाच्च विद्धि नौ

॥८॥

श्रीभानुरुवाच ।

सुघनस्नेहसंबद्धमनस्कावेव शापतः ।

पतितौ भूतले वृक्षविच्युताविव पल्लवौ

॥९॥

अथ व्यसनसंसक्तौ मृगयोनिमुपागतौ ।

ततो द्वावपि संसक्तौ भूयो जातौ विहंगमौ

॥१०॥

अथास्माकं विभो सर्गे मिथःसंबन्धभावनौ ।

तपःपरौ महापुण्यौ जातौ ब्राह्मणदम्पती

॥११॥

भारतोऽपि तयोः शापः स समर्थो बभूव ह ।

शरीरमात्राक्रमणे न मनोनिग्रहे प्रभो

॥१२॥

तावद्यापि हि तेनैव मोहसंस्कारहेतुना ।

यत्र यत्र प्रजायेते भवतस्तत्र दम्पती

॥१३॥

अकृत्रिमप्रेमरसानुविद्धं

स्नेहं तयोस्ते प्रतिवीक्ष्य कान्तम् ।

वृक्षा अपि प्रेमरसानुविद्धाः

शृङ्गारचेष्टाकुलिता भवन्ति

॥१४॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे कृत्रिमेन्द्राहल्यानुरागो नाम नवतितमः सर्गः ।। ९० ।।