मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उत्पत्तिप्रकरणम् — सर्गः २२

3
योगवासिष्ठम् · उत्पत्तिप्रकरणम् · 22

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीदेव्युवाच ।

यथा स्वप्नपरिज्ञानात्स्वप्नदेहो न वास्तवः ।

अनुभूतोऽप्ययं तद्वद्वासनातानवादसन्

॥१॥

यथा स्वप्नपरिज्ञानात्स्वप्नदेहः प्रशाम्यति ।

वासनातानवात्तद्वज्जाग्रद्देहोऽपि शाम्यति

॥२॥

स्वप्नसंकल्पदेहान्ते देहोऽयं चेत्यते यथा ।

तथा जाग्रद्भावनान्ते उदेत्येवातिवाहिकः

॥३॥

स्वप्ने निर्वासनाबीजे यथोदेति सुषुप्तता ।

जाग्रत्यवासनाबीजे तथोदेति विमुक्तता

॥४॥

येयं तु जीवन्मुक्तानां वासना सा न वासना ।

शुद्धसत्त्वाभिधानं तत्सत्तासामान्यमुच्यते

॥५॥

या सुप्तवासना निद्रा सा सुषुप्तिरिति स्मृता ।

यत्सुप्तवासनं जाग्रद्धनोऽसौ मोह उच्यते

॥६॥

प्रक्षीणवासना निद्रा तुर्यशब्देन कथ्यते ।

जाग्रत्यपि भवत्येव विदिते परमे पदे

॥७॥

प्रक्षीणवासना येह जीवतां जीवनस्थितिः ।

अमुक्तैरपरिज्ञाता सा जीवन्मुक्ततोच्यते

॥८॥

शुद्धसत्त्वानुपतितं चेतः प्रतनुवासनम् ।

आतिवाहिकतामेति हिमं तापादिवाम्बुताम्

॥९॥

आतिवाहिकतां यातं बुद्धं चित्तान्तरैर्मनः ।

सर्गजन्मान्तरगतैः सिद्धैर्मिलति नेतरत्

॥१०॥

यदा तेऽयमहंभावः स्वभ्यासाच्छान्तिमेष्यति ।

तदोदेष्यति ते स्फारादृश्यान्ता बोधता स्वयम्

॥११॥

आतिवाहिकताज्ञानं स्थितिमेष्यति शाश्वतीम् ।

यदा तदा ह्यसंकल्पाँल्लोकान्द्रक्ष्यसि पावनान्

॥१२॥

वासनातानवे तस्मात्कुरु यत्नमनिन्दिते ।

तस्मिन्प्रौढिमुपायाते जीवन्मुक्ता भविष्यसि

॥१३॥

यावन्न पूरितस्त्वेष शीतलो बोधचन्द्रमाः ।

तावद्देहमवस्थाप्य लोकान्तरमवेक्ष्यताम्

॥१४॥

मांसदेहो मांसदेहेनैव संश्लेषमेष्यति ।

नतु चित्तशरीरेण व्यवहारेषु कर्मसु

॥१५॥

यथानुभव मे वैतद्यथास्थितमुदाहृतम् ।

आबालसिद्धसंसिद्धं न नाम वरशापवत्

॥१६॥

अवबोधघनाभ्यासाद्देहस्यास्यैव जायते ।

संसारवासनाकार्श्ये नूनं चित्तशरीरता

॥१७॥

उदेष्यन्ती च सैवात्र केनचिन्नोपलक्ष्यते ।

केवलं तु जनैर्देहो म्रियमाणोऽवलोक्यते

॥१८॥

देहस्त्वयं न म्रियते न च जीवति किंच ते ।

के किल स्वप्नसंकल्पभ्रान्तौ मरणजीविते

॥१९॥

जीवितं मरणं चैव संकल्पपुरुषे यथा ।

असत्यमेव भात्येव तस्मिन्पुत्रि शरीरके

॥२०॥

लीलोवाच ।

तदेतदुपदिष्टं मे ज्ञानं देवि त्वयाऽमलम् ।

यस्मिञ्श्रुतिगते शान्तिमेति दृश्यविषूचिका

॥२१॥

अत्रोपकुरु मे ब्रूहि कोऽभ्यासः कीदृशोऽथवा ।

स कथं पोषमायाति पुष्टे तस्मिंश्च किं भवेत्

॥२२॥

श्रीदेव्युवाच ।

यद्येन क्रियते किंचिद्येन येन यदा यदा ।

विनाभ्यासेन तन्नेह सिद्धिमेति कदाचन

॥२३॥

तच्चिन्तनं तत्कथनमन्योन्यं तत्प्रबोधनम् ।

एतदेकपरत्वं च तदभ्यासं विदुर्बुधाः

॥२४॥

ये विरक्ता महात्मानो भोगभावनतानवम् ।

भावयन्त्यभवायान्तर्भव्या भुवि जयन्ति ते

॥२५॥

उदितौदार्यसौन्दर्यवैराग्यरसरञ्जिता ।

आनन्दस्पन्दिनी येषां मतिस्तेऽभ्यासिनः परे

॥२६॥

अत्यन्ताभावसंपत्तौ ज्ञातृज्ञेयस्य वस्तुनः ।

युक्त्या शास्त्रैर्यतन्ते ये ते ब्रह्माभ्यासिनः स्थिताः

॥२७॥

सर्गादावेव नोत्पन्नं दृश्यं नास्त्येव तत्सदा ।

इदं जगदहं चेति बोधाभ्यास उदाहृतः

॥२८॥

दृश्यासंभवबोधेन रागद्वेषादितानवे ।

रतिर्बलोदिता यासौ ब्रह्माभ्यास उदाहृतः

॥२९॥

दृश्यासंभवबोधेन विना द्वेषादितानवम् ।

तप इत्युच्यते तस्मान्न ज्ञानं तच्च दुःखतत्

॥३०॥

दृश्यासंभवबोधो हि ज्ञानं ज्ञेयं च कथ्यते ।

तदभ्यासेन निर्वाणमित्यभ्यासो महोदयः

॥३१॥

भवबहुलनिशानितान्तनिद्रा-

सततविवेकविबोधवारिसेकैः ।

प्रगलति हिमशीतलैरशेषा

शरदि महामिहिकेव चेतसीति

॥३२॥

इत्युक्तवत्यथ मुनौ दिवसो जगाम

सायंतनाय विधयेऽस्तमिनो जगाम ।

स्नातुं सभा कृतनमस्करणा जगाम

श्यामाक्षये रविकरैश्च सहाजगाम

॥३३॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे विज्ञानाभ्यासवर्णनं नाम द्वाविंशः सर्गः ।। २२ ।। चतुर्थो दिवसः ।