मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः ६४

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 64

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

ततस्तत्कुवलोल्लासिमालतीमाल्यलोचना ।

ललना ललितालोक्य लीलयाऽऽलपिता मया

॥१॥

का त्वं कमलगर्भाभे किमर्थं मामुपागता ।

कस्यासि किं प्रार्थयसे क्व गतासि किमास्पदा

॥२॥

विद्याधर्युवाच ।

मुने शृणु यथावत्त्वमात्मोदन्तं वदाम्यहम् ।

प्रष्टुमर्हसि विस्रब्धमार्तां करुणयार्थिनीम्

॥३॥

परमाकाशकोशस्य कस्मिंश्चित्कोणकोटरे ।

युष्माकं संस्थितं किंचिदिदं तावज्जगद्गृहम्

॥४॥

पातालभूतलस्वर्गा इहापवरकास्त्रयः ।

कल्पनैका कुमार्यत्र कृता धातृत्वमायया

॥५॥

तत्र द्वीपैः समुद्रैश्च वलितं वलयैरिव ।

पाटलोत्थं जगल्लक्ष्म्याः प्रकोष्ठमिव भूतलम्

॥६॥

अन्ते द्वीपसमुद्राणां सर्वदिक्कमवस्थिता ।

योजनानां सहस्त्राणि दश हेममयी मही ।

॥७॥

स्वयंप्रकाशसंकल्पफलदाम्बरनिर्मला ।

चिन्तामणिमयी स्वच्छा स्वच्छायाजितविष्टपा

॥८॥

साप्सरोमरसिद्धानां लीलाविहरणावनिः ।

संकल्पमात्रसंपन्नसर्वसंभोगसुन्दरी ।

॥९॥

अन्ते तस्या भुवः शैलो लोकालोकोऽस्ति विश्रुतः ।

भूपीठस्य प्रकोष्ठस्य वलयावलनां दधत् ।

॥१०॥

क्वचिन्नित्यं तमोव्याप्तो मूढबुद्धेरिवाशयः ।

क्वचिन्नित्यं प्रकाशात्मा मनः सत्त्ववतामिव

॥११॥

क्वचिदाह्लादजनकः साधूनामिव संगमः ।

क्वचिदुद्वेगजनको मूर्खैरिव समागमः

॥१२॥

क्वचित्प्रकटसर्वार्थो मनो मतिमतामिव ।

क्वचिदत्यन्तगहनो मूर्खश्रोत्रियचित्तवत्

॥१३॥

क्वचिदप्राप्तसोमांशुः क्वचिदप्राप्तसूर्यभाः ।

क्वचिल्लोकमयस्तेन क्वचिदाशून्यदिक्तटः

॥१४॥

क्वचिद्देवपुरव्याप्तः क्वचिद्दैत्यपुरान्वितः ।

क्वचित्पातालगहनः क्वचिच्छृङ्गोर्ध्वकन्धरः

॥१५॥

क्वचिच्छ्वभ्रभ्रमद्गृध्रः क्वचित्सानुमनोहरः ।

क्वचिच्छृङ्गशिखाक्रान्तवैरिञ्चनगरान्तरः

॥१५॥

क्वचिच्छून्यमहारण्यवहत्कल्पान्तमारुतः ।

क्वचित्पुष्पवनोद्यानगायद्विद्याधरीगणः

॥१७॥

क्वचित्पातालगम्भीरगुहाकुम्भाण्डभीषणः ।

क्वचिन्नन्दनसोदर्यमुन्याश्रममनोरमः

॥१८॥

क्वचिदक्षयमत्ताभ्रः क्वचिद्दुर्लभवारिदः ।

क्वचिद्गर्भगुहाश्वभ्रगहनोपान्तमण्डलः

॥१९॥

क्वचित्क्षुब्धजनाक्षेपसमुत्सादितभूतभूः ।

क्वचिद्वास्तव्यजनतासौजन्यजितविष्टपः

॥२०॥

क्वचिन्नित्यं वहद्वाताजातस्थावरजङ्गमः ।

क्वचित्सर्वक्षयोन्मुक्तस्थिरस्थावरजङ्गमः

॥२१॥

क्वचिन्महामरुमरुन्मुक्तभांकारभीषणः ।

क्वचित्कणत्कमलिनीमत्तसारसभूषणः

॥२२॥

क्वचित्सलिलकल्लोलजलदोल्लासघर्घरः ।

क्वचिन्मत्ताप्सरोदोलाविलासजनितस्मरः

॥२३॥

क्वचित्पिशाचकुम्भाण्डवेष्टिताचेष्टदिक्तटः ।

क्वचिद्विद्याधरीसिद्धनृत्यगीतसरित्तटः

॥२४॥

क्वचिदुद्वर्षदम्भोदसरिद्बाहुलुठत्तटः ।

क्वचित्सततगानीतनीतनानाभ्रसत्पटः

॥२५॥

क्वचित्कमलिनीकोशवक्त्रस्थाध्यानमण्डलः ।

क्वचित्स्वर्गाङ्गनासिद्धसुन्दरीदन्तमण्डनः

॥२६॥

क्वचित्तपद्दिनकरजनताचारसुन्दरः ।

क्वचिन्नैशतमोगेहनृत्यन्मत्तनिशाचरः

॥२७॥

क्वचिदुत्पतदुत्पाततया नश्यज्जनावनिः ।

क्वचित्सौराज्यसंपत्त्या प्रोद्भवत्पुरमण्डलः

॥२८॥

क्वचिदत्यन्तनिःशून्यः क्वचिज्जनपदावृतः ।

क्वचिच्छ्वभ्रान्तगम्भीरः क्वचित्पातालभीषणः

॥२९॥

क्वचिद्बृहत्कल्पतरुः क्वचिन्निर्जलजङ्गमः ।

क्वचिन्महाकरिकुलः क्वचिन्मत्तहरिव्रजः

॥३०॥

क्वचिन्निर्भूतमुद्यातः क्वचिदुन्मत्तराक्षसः ।

क्वचित्करञ्जगहनः क्वचित्तालमहावनः

॥३१॥

क्वचिद्व्योमोपमसराः क्वचिद्दीर्घमरुस्थलः ।

क्वचिन्नित्यभ्रमत्पांसुः क्वचित्सर्वर्तुकाननः

॥३२॥

शिखरेषु शिलास्तस्य सामान्याचलसंनिभाः ।

सन्ति सुस्थितकल्पाभ्रा रत्नमय्योऽम्बरामलाः

॥३३॥

क्षीरोदकार्कगौरीणां वनस्कन्धौकसामिव ।

विश्राम्यन्त्यनिशं यासु हरयो हरियोनयः

॥३४॥

तासामुत्तरदिग्भागे पूर्वशृङ्गशिलोदरे ।

निवसाम्यहमक्षीणवज्रसारसमत्वचि

॥३५॥

विधिना तत्र बद्धास्मि वसाम्युपलयन्त्रके ।

अत्रासंख्या मुने याता मन्ये युगगणा मम

॥३६॥

न केवलमहं बद्धा यावद्भर्तापि तत्र मे ।

बद्धः सायंतने पद्मकुङ्मले षट्पदो यथा

॥३७॥

तेन सार्धं मया भर्त्रा शिलाकोटरसंकटे ।

अनुभूताश्चिरं कालमत्र वर्षगणा गताः

॥३८॥

अद्याप्यात्मैकदोषेण न हि मोक्षं लभावहे ।

चिरं तत्रैव तिष्ठावस्तथैवाबद्धभावनौ

॥३९॥

पाषाणसंकटे तस्मिन्बद्धावावां न केवलम् ।

बद्धो यावदशेषेण परिवारोऽपि तत्र नौ

॥४०॥

पुराणपुरुषो बद्धो द्विजस्तत्रास्ति मे पतिः ।

एकस्थानान्न चलति जीवन्युगशतान्यसौ

॥४१॥

आबाल्याद्ब्रह्मचारी च श्रोत्रियः पाठकोऽलसः ।

एकान्त एक एवास्तेऽजिह्मवृत्तिरचापलः

॥४२॥

अहं व्यसनिनी भार्या तस्य वेदविदां वर ।

न निमेषं समर्थास्मि तं विना देहधारणे

॥४३॥

शृणु तेन कथं ब्रह्मन्भार्याहं समुपार्जिता ।

कथं वृद्धिमयं यातः स्नेहोऽस्माकमकृत्रिमः

॥४४॥

तेन जातेन मद्भर्त्रा बालेनैव सता पुरा ।

किंचिज्ज्ञेन सतैकेन तिष्ठतात्मालयेऽमले

॥४५॥

श्रोत्रियत्वानुरूपेण जाया मे जन्मशालिनी ।

कुतः संभवतीत्येव निर्णीय चिरचिन्तया

॥४६॥

स्वयमेवानवद्याङ्गी तेन तामरसेक्षण ।

उत्पादितास्मि नाथेन ज्योत्स्नेव शशिनाऽमला

॥४७॥

मनसा मानसीभार्या मन्दरोत्तमसुन्दरी ।

ततो वृद्धिं प्रयातास्मि वसन्त इव मञ्जरी

॥४८॥

सहजाम्बरसंछन्ना भूतानां चित्तहारिणी ।

पूर्णेन्दुबिम्बवदना द्यौरिवामलतारका

॥४९॥

कोरकोच्चस्तनभरा समग्ररसशालिनी ।

लतावरवनेनेव करपल्लवशालिनी

॥५०॥

सर्वस्य जन्तुजातस्य नित्यं हृदयहारिणी ।

हरिणीतारनयना मदनोन्माददायिनी

॥५१॥

लीलाविलासैकरता हेलावलितलोचना ।

गेयवाद्यप्रिया नित्यं न च तृप्तानुरागिणी

॥५२॥

सौभाग्यभोगपरमा लक्ष्म्यलक्ष्म्योः प्रिया सखी ।

अनन्या मोहजालानामखिन्ना संपदापदोः

॥५३॥

न केवलमहं गेहं धारयामि द्विजन्मनः ।

यावत्त्रैलोक्यसदनमिदमङ्ग बिभर्म्यहम्

॥५४॥

अहं कुलकरी भार्या कलत्रभरणक्षमा ।

त्रैलोक्यगृहसंभारधारणैकभरोद्वहा

॥५५॥

अथाहं तरुणी जाता समुद्भिन्नोन्नतस्तनी ।

लतोल्ललद्गुलुच्छेव विलासरसशालिनी

॥५६॥

पतिर्मा दीर्घसूत्रत्वाच्छ्रोत्रियत्वात्तपोरतः ।

कयाप्यपेक्षयाद्यापि न विवाहितवानिमाम्

॥५७॥

तेन यौवनसंपन्नविलासरसशालिनी ।

तं विना व्यसनेनाहं दह्येऽग्नाविव पद्मिनी

॥५८॥

शीतानिलविलोलासु नलिनीषु निरन्तरम् ।

अङ्गदाहमवाप्नोमि पूताङ्गारस्थलीष्विव

॥५९॥

उद्यानावनयः सर्वाः पूर्णाः कुसुमवर्षणैः ।

संपन्नास्तप्तसिकताः शून्या मे मरुभूमयः

॥६०॥

जलकल्लोलकह्लारकमलोत्करकोमलाः ।

सरस्यः सारसारावसरसा मम नीरसाः

॥६१॥

अहं पुष्करमन्दारकुमुदोत्करमालिता ।

भृशं दाहमवाप्नोमि कण्टकेष्विव दोलिता

॥६२॥

कुमुदोत्पलकह्लारकदलीतल्पपालयः ।

मदङ्गसङ्गमाद्ग्रीष्ममर्मरा याति भस्मताम्

॥६३॥

यत्कान्तमुचितं स्वादु विचित्रं चित्तहारि च ।

तदालोक्य भवाम्यन्तर्बाष्पपूर्णायतेक्षणा

॥६४॥

व्यसनानलसंतप्ताः पतन्तो बाष्पबिन्दवः ।

छमच्छमिति मज्जन्ति कमलोत्पलपङ्क्तिषु

॥६५॥

कदलीकन्दलीस्कन्धदोलान्दोलनलीलया ।

लालितोद्यानखण्डेषु मुखमाच्छाद्य रोदिमि

॥६६॥

तुषारनिकराकीर्णं कदलीदलमण्डपम् ।

पश्याम्यूष्माणमुज्झन्तं खदिराङ्गारभीषणम्

॥६७॥

नलिनीनालदोलासु सारसीं सारसाश्रिताम् ।

दीनानना विलोक्यान्तर्निन्दामि निजयौवनम्

॥६८॥

रम्ये रोदिमि मध्यस्थे पदार्थे यामि सौम्यताम् ।

हृष्याम्यशोभने दीना न जाने किमहं स्थिता

॥६९॥

दृष्टानि कुन्दमन्दारकुमुदानि हिमानि च ।

मया कामाग्निदग्धानां भस्मानीव दिशं प्रति

॥७०॥

आनीलपल्लवमृणाललतोत्पलानां

कह्लारकुन्दकदलीदलमालतीनाम् ।

शय्या ममाङ्गचलनेन विशोषयन्त्या

व्यर्थं गतानि नवयौवनवासराणि

॥७१॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मोक्षो० निर्वाणप्रकरणे उ० पा० विद्याधरीव्यसनवर्णनं नाम चतुःषष्टितमः सर्गः ।। ६४।।