मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः ३७

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 37

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

इच्छाविषविकारस्य वियोगं योगनामकम् ।

शान्तये श्रृणु भूयोऽपि पूर्वमुक्तमपि स्फुटम्

॥१॥

आत्मनो व्यतिरिक्तं चेद्विद्यते तदिहेच्छया ।

इष्यतामसति त्वेतत्स्वात्मान्यत्वं किमिष्यते

॥२॥

निर्भागावयवा सूक्ष्मा व्योम्नः शून्यतरैव चित् ।

सैवाहंजगदाकारा सती किं तत्तयेष्यते

॥३॥

सा व्योमरूपा व्योमैव व्योमात्मवेद्यवेदिका ।

व्योमात्मजगदाभासमत्रेच्छाविषयोऽस्ति कः

॥४॥

ग्राह्यग्राहकसंबन्धः कुतश्चिदिति तन्न नः ।

विद्यतेऽसौ प्रशान्तानां येषामस्ति न वेद्मि तान्

॥५॥

ग्राह्यग्राहकसंबन्धः स्वनिष्ठोऽपि न लभ्यते ।

असतस्तु कथं लाभः केन लब्धोऽसितः शशी

॥६॥

एषैव ग्राहकादीनां सत्ता यन्नात्मनिष्ठता ।

स्वभावावेक्षया सत्या न जाने क्व प्रयान्ति ते

॥७॥

एष एव स्वभावो यद्दृष्टृदृश्यक्षयोऽखिलः ।

ज्ञात्वाऽसत्या विनिर्वाणमहंतात्मनि गच्छति

॥८॥

निर्वाणे नास्ति दृश्यादि दृश्यादौ नास्ति निर्वृतिः ।

मिथोऽनयोरनुभवो न च्छायातपयोरिव

॥९॥

उभे एते मिथोऽसत्ये असत्ये च न निर्वृतिः ।

यतो निर्वाणमजरमदुःखमनुभूयते

॥१०॥

भ्रमभूतं च दृश्यादि नित्यं नात्र सुखप्रदम् ।

असच्च तद्भाव्यतां मा निर्वाणे स्थीयतामजे

॥११॥

शुक्तिकारूप्यसदृशं प्रेक्षितं यन्न लभ्यते ।

अर्थकार्यपि तन्नास्ति किमत्रापह्नवेन च

॥१२॥

तत्सद्भावान्महद्दुःखमसद्भावान्महत्सुखम् ।

अभावः सोपपत्तिस्तु दृढतां याति भावनात्

॥१३॥

तत्किमात्मनि बन्धाय विदग्धं न मुधाधमाः ।

स्पष्ट एवोपचयादेर्वस्तुन्यस्तमिताऽपदे

॥१४॥

कार्यकारणभावादि ब्रह्मैव सकलं यदा ।

तदा तु ब्रह्मता ह्यस्मिन्संविन्मात्रात्मके तते

॥१५॥

मार्गयन्ति प्रबोधाय तैर्मृगैरलमस्तु नः ।

व्योमरूपे किलैकस्मिन्सर्वात्मनि तते सति

॥१६॥

कार्यकारणताढ्यानामुक्तीनामेव कः क्रमः ।

यो हेतुः स्पन्दने वायोर्द्रवत्वे सलिलस्य च

॥१७॥

शून्यत्वे नभसः सौम्य सर्गादित्वे चिदात्मनः ।

कार्यकारणभावादि ब्रह्मैव सकलं यदा

॥१८॥

तदा ब्रह्मणि सर्गाणां कारणार्था विलज्जता ।

न दुःखमस्ति न सुखं शान्तं शिवमयं जगत्

॥१९॥

नास्ति चिन्मात्रतान्यत्वमत इच्छोदयः कुतः ।

मृद्देहयोधसेनायां न मृन्मात्रेतरद्यथा

॥२०॥

न सज्जगदहंतादौ दृश्ये ब्रह्मेतरत्तथा ।

श्रीराम उवाच ।

एवं चेत्तदुदेत्विच्छा मा वोदेतु मुनीश्वर

॥२१॥

सा तु ब्रह्मैव कोऽर्थः स्यादस्या विधिनिषेधने ।

श्रीवसिष्ठ उवाच ।

ज्ञातायां संप्रबुद्धायामिच्छा ब्रह्मैव नेतरत्

॥२२॥

यथा संबुद्धवान्राम तत्सत्यं किं त्विदं श्रृणु ।

यदा यदा ज्ञतोदेति शाम्यतीच्छा तदा तदा

॥२३॥

वस्तुस्वभावादुदयत्यादित्ये यामिनी यथा ।

शाम्यत्येव न तूदेति ज्ञप्ताविच्छादि तत्तथा

॥२४॥

यथा यथोदयो ज्ञप्तेर्द्वैतशान्तिस्तथा तथा ।

वासनाविलयश्चैव कथमिच्छोदयो भवेत्

॥२५॥

तस्या विद्योपशान्तेयं निर्मला मुक्ततोदिता ।

अशेषदृश्यवैरस्याद्यस्येच्छोदेति न क्वचित्

॥२६॥

विरक्ततास्य नो दृश्ये नोदेत्यत्रास्य रक्तता ।

केवलं द्रष्टृदृश्यश्रीः स्वदते न स्वभावतः

॥२७॥

काकतालीययोगेन परप्रेरणयानया ।

यदि किंचित्कदाचिच्च सम्यगिच्छति वा न वा

॥२८॥

तदस्य सेच्छा नेच्छा वा ब्रह्मैवात्र न संशयः ।

इच्छा न जायते ज्ञस्यावश्यमेवानु वा नवा

॥२९॥

ज्ञता चेदुदिता जन्तोस्तदिच्छास्योपशाम्यति ।

नैतयोः स्थितिरेकत्र प्रकाशतमसोरिव

॥३०॥

प्रतिषेधविधीनां तु तज्ज्ञो न विषयः क्वचित् ।

शान्तसर्वैषणेच्छस्य कोऽस्य किं वक्ति किंकृते

॥३१॥

एतदेव ज्ञताचिह्नं यदिच्छास्वतितानवम् ।

ह्लादनं सर्वलोकानामथानुभव एव वा

॥३२॥

दृश्यं विरसतां यातं यदा न स्वदते क्वचित् ।

तदा नेच्छा प्रसरति तदैव च विमुक्तता

॥३३॥

बोधादनैक्यमद्वैतं यः शान्तमवतिष्ठते ।

इच्छानिच्छादयः सर्वे भावास्तस्य शिवात्मकाः

॥३४॥

बोधादस्तमितद्वैतमद्वैतैक्यविवर्जितम् ।

यः स्वच्छो विगतव्यग्रः शान्त आत्मन्यवस्थितः

॥३५॥

नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ।

न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः

॥३६॥

नानिच्छया नेच्छयाथ न सता नासता सदा ।

नैवात्मना न चान्येन नैतैर्मरणजीवितैः

॥३७॥

इच्छा च तस्य नोदेति निर्वाणस्य प्रबोधिनः ।

यदि चोदेति तस्येच्छा ब्रह्म शाश्वतमेव सा

॥३८॥

न दुःखमस्ति न सुखं शान्तं शिवमजं जगत् ।

इति योऽन्तः शिलेवास्ते तं प्रबुद्धं विदुर्बुधाः

॥३९॥

दुःखं सुखं भावनया कुर्वन्विषमिवामृतम् ।

इति निश्चित्य धीरात्मा प्रबुद्ध इति कथ्यते

॥४०॥

तत्स्थितं व्योमनि व्योम शान्ते शान्तं शिवे शिवम् ।

शून्ये शून्यं सति च सद्यद्ब्रह्मणि जगत्स्थितम्

॥४१॥

असंवेदनसंवित्खे ततेऽविश्वमिति स्थिते ।

सौम्ये समसमे शान्ते शिवेऽहंताभ्रमः क्षयी

॥४२॥

यदिदं दृश्यते किंचिज्जगत्स्थावरजङ्गमम् ।

तत्सर्वं शान्तमाकाशं परचिन्तापुरोपमम्

॥५३॥

परचिन्तापुरोमध्ये गतविघ्नं गमागमौ ।

यथान्तस्तव शून्यत्वात्तथैवास्मिञ्जगद्भ्रमे

॥४४॥

अब्धिद्यूर्वीनदीशैलशोभाशून्यतरात्मनि ।

जृम्भते द्रष्टृकरणं मृगतृष्णाम्बुवीचिवत्

॥५५॥

स्वप्ननिर्माणपुरवद्वालवेतालतालवत् ।

यदिदं दृश्यते तत्र किं किलासत्यतेतरत्

॥४६॥

असत्यमेवाहमिति भासते सत्यमेव च ।

भ्रान्तिभाजं विनैवेयं भ्रान्तिः स्फुरति सा सती

॥४७॥

न सन्नासन्न सदसत्किमपीदमतीन्द्रियम् ।

अवाच्यं जगदित्येव भात्यवक्षुभितं खवत्

॥४८॥

इहेच्छानिच्छते ज्ञस्य शाम्यतां यदलं समे ।

तथापि श्रेयसे मन्ये नन्वनिच्छोदयं स्फुटम्

॥४९॥

अहं जगदिति ज्ञप्तिः खे खस्येवेयमास्थिता ।

चिदात्मनो यथा वायोः स्पन्दो नात्रास्ति कारणं

॥५०॥

चितश्चेत्योन्मुखत्वं यत्तच्चित्तं सैव संसृतिः ।

सेच्छा तन्मुक्तता मुक्तिर्युक्तिं ज्ञात्वेति शाम्यताम्

॥५१॥

इच्छा भवत्वनिच्छा वा सर्गो वा प्रलयोऽथवा ।

क्षतिर्न कस्यचित्काचिन्न च किंचिदिहास्ति हि

॥५२॥

इच्छानिच्छे सदसती भावाभावौ सुखासुखे ।

इत्यत्र कलना व्योम्नि संभवन्ति न काश्चन

॥५३॥

इच्छानां तानवं यस्य दिनानुदिनमागतम् ।

विवेकशमतृप्तस्य तमाहुर्मोक्षभागिनम्

॥५४॥

इच्छाक्षुरिकया विद्धे हृदि शूलं प्रवर्तते ।

जयन्ति यत्र नैतानि मणिमन्त्रौषधानि च

॥५५॥

यान्कार्यकरणव्यूहान्कृतवान्पूर्वमेव तान् ।

संप्रेक्षया न पश्यामि मिथ्याभ्रमभरादृते

॥५६॥

भ्रमभूतेन कुर्मश्चेद्व्यवहारमवस्तुना ।

तत्कस्मात्परचित्ताद्रिः कम्बलत्वं न नीयते

॥५७॥

असता व्यवहारश्चेत्प्रेक्षामात्रविनाशिना ।

क्रियते शशशृङ्गेण तत्कथं छाद्यते न खम्

॥५८॥

अहभावाच्चिदाकाशो जाड्यातिशयतः क्षणात् ।

पाषाणतां जलमिव मनस्त्वाद्याति देहताम्

॥५९॥

चित्त्वादनुभवत्येतामसत्यामेव देहिताम् ।

अविनष्टैव चिच्छक्तिः स्वप्ने स्वमरणं यथा

॥६०॥

व्योम्न्यसत्यमवस्तुत्वात्सत्यं चानुभवाद्यथा ।

नीलत्वं तद्वदीशेऽस्मिन्सर्गो नासन्न सन्मयः

॥६१॥

यथा शून्यत्वनभसोर्यथा स्पन्दनभस्वतोः ।

भेदो नास्ति तथा सर्गब्रह्मणोरेकरूपयोः

॥६२॥

नेह संजायते किंचिज्जगदादि न नश्यति ।

स्वप्नो निद्रागतस्येव केवलं प्रतिभासते

॥६३॥

अविद्यमाने पृथ्व्यादौ प्रतिभामात्ररूपिणि ।

सर्गे क इव संरम्भस्त्यागादानैश्चिदम्बरे

॥६४॥

न देहः प्रतिभातोऽस्ति पृथ्व्यादिकारणान्वितः ।

केवलं ब्रह्मचिन्मात्रमेवात्मन्येव संस्थितम्

॥६५॥

बुद्ध्यादेः कारणत्वं च द्वैतैक्यासंभवान्न सत् ।

अनेनेदं क्रियत इत्यस्यार्थं याति संभवात्

॥६६॥

अहेतुरक्रमं भाति चिति कल्पक्रियागणः ।

क्षणेनैव यथा स्वप्ने मृतिजन्मादि सत्वराः

॥६७॥

खमेव पृथ्वी खं शैलाः खमेव दृढभित्तयः ।

खमेव लोकाः स्पन्दः खं सर्गसंवेदनं चितेः

॥६८॥

व्योमभित्तौ जगच्चित्रं चिद्रङ्गमयमाततम् ।

नोदेति नास्तमायाति न शाम्यति न ताम्यति

॥६९॥

चिद्वारिणि जगत्तुङ्गतरङ्गद्रवरूपिणि ।

किं नु वा कथमुत्पन्नं किं शान्तं च कदा कथम्

॥७०॥

शान्ते महाचिदाकाशे जगच्छून्यत्वशालिनि ।

चेत्यासंभवतः सन्ति नोदयास्तमयौ कुतः

॥७१॥

पर्वता गगनायन्ते गगनं पर्वतायते ।

संवेदनप्रयोगेण ब्रह्मणः सर्गता स्थितौ

॥७२॥

संविच्चूर्णप्रयोगेण निमेषार्धेन योगिनः ।

कुर्वन्ति जगदाकाशमाकाशं त्रिजगन्ति च

॥७३॥

सिद्धसंकल्पनगराण्यसंख्यानि यथाम्बरे ।

तथा सर्गसहस्राणि सन्ति तानि तु चिन्नभः

॥७४॥

महार्णवे यथावर्ता अन्योन्यमपि मिश्रिताः ।

पृथगेवावतिष्ठन्ते पयसोऽन्ये च नैव ते

॥७५॥

महाचिति महासर्गा अन्योन्यमपि मिश्रिताः ।

पृथगेवावतिष्ठन्ते व्यतिरिक्ता न ते ततः

॥७६॥

सर्गात्सर्गान्तरालोके या प्रबुद्धस्य योगिनः ।

सिद्धलोकान्तरे प्राप्तिः सैवेति विबुधोक्तयः

॥७७॥

अविनाशिनि भूतानि स्थितानि परमे शिवे ।

व्योम्नीव शून्यतोल्लासाः सर्गवर्गा निरर्गलम्

॥७८॥

परमार्थनिजामोदाः सहजाः सर्गविभ्रमाः ।

नोद्यन्ति नोपशाम्यन्ति लेखा इव शिलोदरे

॥७९॥

अन्योन्यं कुसुमामोदा मिलिता अप्यमीलिताः ।

व्योमरूपास्तथा सर्गा अन्योन्यं सिद्धभूमयः

॥८०॥

संकल्पाकाशरूपत्वात्सर्वानुभववत्स्थितेः ।

तनुसंकल्पमोहानां सत्याश्च मननोक्तयः

॥८१॥

न ज्ञानवादिता सत्या न बाह्यानर्थवादिता ।

यथावेदनमेतानि वेदनानि फलन्ति वः

॥८२॥

चिति चित्त्वं यदस्त्यन्तर्जगदित्येव भाविते ।

भेदो द्रवत्वपयसोरिव नात्रोपपद्यते

॥८३॥

कालो जगन्ति भुवनान्यहमक्षवर्ग-

स्त्वं तानि तत्र च तथेति च सर्वमेकम् ।

चिद्व्योम शान्तमजमव्ययमीश्वरात्म

रागादयः खलु न केचन संभवन्ति

॥८४॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो० निर्वाणप्रक० उत्तरार्धे दृश्योपदेशयोगो नाम सप्तत्रिंशः सर्गः ।। ३७ ।।