मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः १५८

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 158

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

मुनिरुवाच ।

एतत्ते कथितं सर्वं भविष्यद्भूतवत्तव ।

यथेच्छसि तथेदानीं व्याध साधु विधीयताम्

॥१॥

अग्निरुवाच ।

इति तस्य वचः श्रुत्वा विस्मयाकुलचेतनः ।

क्षीणं स्थित्वा जगामाशु स्नातुं व्याधस्तथा मुनिः

॥२॥

इति तौ चेरतुस्तत्र तपः शास्त्रविचारणैः ।

अकारणसुहृद्भूतावुभौ व्याधमहामुनी

॥३॥

अथाल्पेनैव कालेन मुनिर्निर्वाणमाययौ ।

देहं त्यक्त्वाऽपदेशान्ते परे परिणतिं गतः

॥४॥

कालेन बहुनान्येन ततो युगशतात्मना ।

व्याधस्य कामनां दातुं पद्मजन्मा समाययौ

॥५॥

व्याधः स्ववासनावेशं निवारयितुमक्षमः ।

जानन्नपि वरं पूर्वं वर्णितं समयाचत

॥६॥

ब्रह्मैवमस्त्विति प्रोच्य ययावभिमतां दिशम् ।

व्याधस्तपःफलं भोक्तुं खगवद्व्योम पुप्लुवे

॥७॥

वर्धमानेन देहेन जगत्पारे महानभः ।

वेगादगणितं कालं पूरयामास शैलवत्

॥८॥

महागरुडवेगेन तिर्यगूर्ध्वमधस्तथा ।

व्योम पूरयतस्तस्य कालो बहुतरो ययौ

॥९॥

अथ दीर्घेण कालेन यदा विद्याभ्रमस्य सः ।

अन्तं न समवाप्नोति तत्रोद्वेगमुपाययौ

॥१०॥

उद्वेगादथ बद्ध्वासौ प्राणरेचनधारणाम् ।

प्राणांस्तत्याज नभसि शवीभूतमधोवपुः

॥११॥

चित्तं प्राणान्वितं व्योम्नि ययौ तत्रैव सिन्धुताम् ।

विदूरथारिरूपां तामखिलावनिपालिनीम्

॥१२॥

देहो मेरुशताकारमहाशव इवाभवत् ।

द्वितीयोर्वीनिभो व्योम्नः पपाताशनिवज्रवत्

॥१३॥

पिधानमिव कस्योर्वीवीथी कस्मिंश्चिदम्बरे ।

केशोण्ड्रकवदाभाते कस्मिंश्चिज्जागते भ्रमे

॥१४॥

आकारपूरिताशेषवसुधाचलमण्डलः ।

विपश्चिच्छ्रेष्ठ कथितमेतत्ते तन्महाशवम्

॥१५॥

यस्मिञ्छवं संपतितं जगत्यवनिमण्डले । ।

तदिदं जगदाभातमस्माकं स्वप्नपूर्यथा

॥१६॥

तदेतच्छवमास्वाद्य शुष्का पूर्णा महोदरी ।

संपन्ना चण्डिका देवी रक्ता रक्तान्त्रपूरिता

॥१७॥

मेदिनी मेदिनी जाता शवस्यैतस्य मेदसा ।

पूरिताऽपूर्वरूपेण हिमवद्गिरिरूपिणा

॥१८॥

तदैवैतन्महामेदो मृद्धातुत्वमुपागतम् ।

कालेन वसुधा भूयो भूत्वा मृन्मयतां गता

॥१९॥

भूयः प्रजातानि वनानि भूमौ

ग्रामाः कृताः पत्तनसंयुताश्च ।

पातालतः साधुसमुत्थितास्ते

शैलाः प्रवृत्ता व्यवहारलक्ष्मीः

॥२०॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० अवि० विय० ? शवनिर्णयो नामाष्टपञ्चाशदधिकशततमः सर्गः ।।१५८।।