मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः २०३

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 203

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवाल्मीकिरुवाच ।

इत्थं विचारपरयोर्मुनिराघवयोस्तयोः ।

भास्करः श्रवणायेव व्योममध्यमुपाययौ

॥१॥

तीक्ष्णतामाजगामाशु सर्वदिक्कमथातपः ।

पदार्थौघविकासार्थं रामस्येव महामतिः

॥२॥

उत्फुल्लहृदयाम्भोजस्फाराकारतया तदा ।

लीलापद्माकरा रेजुस्तत्रस्थाः पार्थिवा इव

॥३॥

जालं मुक्ताकलापानन्तरमाक्रान्तभास्करम् ।

ननर्तेव तरद्व्योम विज्ञानश्रवणादिव

॥४॥

पुस्फुरुः पद्मरागेषु लग्नार्कतरुणत्विषः ।

भासो व्योमतलोड्डीना धियो ज्ञानकला इव

॥५॥

एवं निर्वृतिमायाते रामे स्वकुलकैरवे ।

मुनीन्द्रवदनालोकात्सविकासमिव स्थिते

॥५॥

रवावौर्वोपत्र व्योम महाब्धेर्नाभितां गते ।

तेजःपुञ्जलसज्ज्वाले समग्ररसपायिनि

॥७॥

नभोनीलोत्पले नीले गलद्रजसि राजति ।

घर्मांशुकर्णिकाकान्ते स्फुरत्किरणकेसरे

॥८॥

अवतंसे जगल्लक्ष्म्यास्त्रिलोकीकर्णकुण्डले ।

अन्तर्लीनस्फुरत्तारारत्नराजिविराजिते।

॥९॥

दिग्वधूभिर्बृहच्छृङ्गपाणिभिर्मुकुरेष्विव ।

धृतेषु तापभिन्नेषु महाभ्रेषु निरम्बुषु

॥१०॥

सूर्यकान्तवरोत्थेन वह्निनेव समेधिते ।

द्विगुणं प्रज्वलत्यर्कशून्ये गगनधामनि

॥११॥

विनेदुर्मेदुरोद्दाममुखमारुतपूरिताः ।

मध्याह्नशङ्खाः कल्पान्तवातपूर्णा इवार्णवाः

॥१२॥

प्रालेयश्रीरिवाब्जेषु घर्मश्रीर्वदनेष्विव ।

चकार पदमाकीर्णशुद्धमुक्ताफलोपमा

॥१३॥

गृहभित्तिपरावृत्ता सत्त्वसंरम्भमांसला ।

शब्दश्रीः पूरयामास कर्णमर्ण इवार्णवम्

॥१४॥

पुरन्ध्रीभिर्निदाघौघशान्तये समुदीरिता ।

उल्ललास नवा पाण्डुकर्पूरजलदावलिः

॥१५॥

स राजा सहसामन्तः सभूपः सपरिच्छदः ।

सवसिष्ठः समुत्तस्थौ सहरामः स संसदः

॥१६॥

राजानो राजपुत्राश्च मन्त्रिणो मुनयस्तथा ।

अन्योन्यं पूजिता जग्मुर्मुदिताः स्वं निवेशनम्

॥१७॥

अन्तःपुरगृहाग्रेषु तालवृन्तानिलाहृतैः ।

कर्पूरधूलिभिरभून्नवैवाम्बुदमालिका

॥१८॥

अथ मध्याह्नतूर्याणां रवे स्फूर्जति भित्तिषु ।

उवाच वचनं वाक्यकोविदो मुनिनायकः

॥१९॥

सर्वमेव श्रुतं श्राव्यं ज्ञेयं ज्ञातमशेषतः ।

त्वया राघव भो नास्ति ज्ञातव्यमपरं वरम्

॥२०॥

यथा मयोपदिष्टोऽसि यथा पश्यसि शास्त्रतः ।

यथानुभवसि श्रेष्ठमेकवाक्यं तथा कुरु

॥२१॥

उत्तिष्ठ तावत्कार्याय वयं स्नातुं महामते ।

मध्याह्नसमयोऽस्माकमयमङ्गातिवर्तते

॥२२॥

अपरं यत्त्वया भद्र स्वाकाङ्क्षाविनिवृत्तये ।

प्रष्टव्यं तच्छुभं प्रातः प्रष्टव्यं भवता पुनः

॥२३॥

श्रीवाल्मीकिरुवाच ।

इत्युक्ते मुनिनाथेन राजा दशरथः स्वयम् ।

पूजयामास तान्सभ्यान्सर्वान्साधून्सपर्यया

॥२४॥

सह रामेण धर्मात्मा मुनिविप्रान्नृपांश्च सः ।

वसिष्ठाद्युपदिष्टेन क्रमेण व्योमगांस्तथा

॥२५॥

मणिमुक्तागणार्थेन दिव्येन कुसुमेन च ।

मणिरत्नप्रदानेन मुक्ताहारार्पणेन च

॥२६॥

प्रणयेन प्रणामेन प्रदानेनार्थशालिना ।

वस्त्रासनान्नपानेन कनकेन तथा भुवा

॥२७॥

धूपेन गन्धमाल्याभ्यां यथोदितमनिन्दितः ।

पूर्वान्संपूजयामास सर्वानेव महीपतिः

॥२८॥

अथोत्तस्थौ सभामध्यात्सभया सह मानदः ।

सवसिष्ठादिदेवर्षिः सायमिन्दुरिवाम्बरात्

॥२९॥

ससभोत्थानसमयः ससंरम्भो व्यराजत ।

जानुदघ्नसुरोन्मुक्तपुष्पसंजातकर्दमः

॥३०॥

संघट्टाघट्टकेयूररत्नचूर्णारुणावनिः ।

छिन्नहारस्फुरन्मुक्ताताराजितनिशाम्बरः

॥३१॥

देवर्षिमुनिविप्रेन्द्रपार्थिवस्पन्दसंकुलः ।

व्यग्रभृत्याङ्गनाहस्तकेशचञ्चलचामरः

॥३२॥

ज्ञानप्रमेयीकरणस्पन्दमानो न दारुणः ।

शिरःकरत्रिनयनजिह्वेष्वेव विराजितः

॥३३॥

परस्परमथापृच्छ्य पूजिताः पेशलोक्तयः ।

राजानो मुनयश्चैव सर्वे दशरथादयः

॥३४॥

स्वाश्रमान्साधवो जग्मुस्तुष्टस्निग्धाशया मिथः ।

लोकसप्तकवास्तव्या देवाः शक्रपुरादिव

॥३५॥

अन्योन्यं प्रणयात्सर्वे पूजयित्वा यथाक्रमम् ।

तद्विसृष्टाः स्वमागत्य गृहं चक्रुर्दिनक्रियाम्

॥३६॥

अथ सर्वे वसिष्ठाद्यास्तथा दशरथादयः ।

चक्रुर्दिवसकार्याणि राजानो मुनयस्तथा

॥३७॥

यथाप्राप्तं क्रियां तेषु कृतवत्स्वथ दैवसीम् ।

क्रमेणाकाशपथिको भास्करोऽस्तमुपाययौ

॥३८॥

तयैव कथया तेषां रामस्य च महामतेः ।

प्रबोधवशतः शीघ्रं सा व्यतीयाय शर्वरी

॥३९॥

उत्सारिततमःपांसुताराकुसुमनिर्भरम् ।

भुवनं भवनीकुर्वन्नाजगाम दिवाकरः

॥४०॥

करवीरकुसुम्भाभैः करैररुणयन् दिशः ।

विवेश गगनाम्भोधिमथ बालदिवाकरः

॥४१॥

राजानो राजपुत्राश्च मन्त्रिणो मुनयस्तथा ।

वसिष्ठाद्याः समाजग्मुः पुनर्दाशरथीं सभाम्

॥४२॥

यथाक्रमं यथासंस्थं यथादेशं यथासनम् ।

सा विवेश सभा तत्र धिष्ण्यश्रीरम्बरे यथा

॥४३॥

ततो दशरथाद्येषु सुमन्त्रादिषु चाप्यलम् ।

वसिष्ठं संप्रशंसत्सु मुनिमासनसंस्थितम्

॥४४॥

वसिष्ठस्य पितुश्चाग्रे राजीवदललोचनः ।

उवाच राघवो धीमान्मृदुवर्णमिदं वचः

॥४५॥

श्रीराम उवाच ।

भगवन्सर्वधर्मज्ञ सर्वज्ञानमहार्णव ।

सर्वसंदेहपरशो परशोकभयापह

॥४६॥

श्रोतव्यमपरं किं मे विद्यते वेद्यमेव वा ।

श्रोतव्यं विद्यते यद्वा तत्सर्वं वक्तुमर्हसि

॥४७॥

श्रीवसिष्ठ उवाच ।

राम संप्राप्तबुद्धिस्त्वं श्रोतव्यं ते न विद्यते ।

कृतकृत्या तवैषा धीः प्राप्तप्राप्या स्थितात्मनि

॥४८॥

त्वमेव तावत्कथय प्रविचार्य धियात्मना ।

कीदृशोऽद्य भवानन्तः किं शेषं श्राव्यमस्ति ते

॥४९॥

श्रीराम उवाच ।

ब्रह्मन्नेवमहं मन्ये यथाहं कृतकृत्यधीः ।

निर्वाणोस्मि प्रशान्तोस्मि नाकाङ्क्षा मम विद्यते

॥५०॥

वक्तव्यमुक्तं भवता ज्ञातं ज्ञेयं मयाखिलम् ।

तव विश्रान्तिमायातु कृतकृत्या सरस्वती

॥५१॥

अधिगतमधिगम्यं ज्ञेयमाप्तु मयेदं

विगतमखिलमैक्यं द्वैतमस्तं प्रयातम् ।

परिगलितमशेषं दृश्यभेदावभानं

ननु निपुणमपास्ताशेषसंसारितास्था

॥५२॥

इत्यार्षे वासिष्ठमहारामायणे वा० दे० मो० निर्वा० उ० निर्वाणवर्णनं नाम त्र्यधिकद्विशततमः सर्गः ।। २०३ ।।