मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः ३४

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 34

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

प्राप्तेषु सुखदुःखेषु यो नश्यति स नश्यति ।

यो न नश्यत्यनाशोऽसावलं शास्त्रोपदेशनैः

॥१॥

यस्य चेच्छोदयस्तस्य सन्त्यवश्यं सुखादयः ।

ते चेत्सम्यक्चिकित्स्यन्ते पूर्वमिच्छैव मुच्यताम्

॥२॥

अहं जगदिदं भ्रान्तिर्नास्त्येव परमे पदे ।

इदं शान्तमनालम्बं सर्वं निर्वाणमव्ययम्

॥३॥

अहं ब्रह्म जगच्चेति शब्दसंभ्रमविभ्रमः ।

सर्वस्मिञ्छान्त आकाशे केन नामोपकल्पितः

॥४॥

नेहास्त्यहं न च जगन्न च ब्रह्मादिशब्दकाः ।

शान्तस्यैकस्य सर्वत्वात्कर्ता भोक्तेह कः कुतः

॥५॥

उपदेश्यातिशायित्वात्सर्वापह्नव एव च ।

कृतोऽयं स च सत्यात्मा त एवाहं विशिष्यते

॥६॥

अग्रस्थसिद्धसंचारो ज्ञायते नापि दारुणः ।

यथैकपार्श्वसंसुप्तनरः स्वप्नाभ्रगर्जितम्

॥७॥

ज्ञप्तौ नास्ति यतस्तेन सिद्धाचारो न लक्ष्यते ।

स्वभाव इति सर्वेण ज्ञप्तिस्थो ह्यनुभूयते

॥८॥

ज्ञप्तिरप्यात्मभूतैव सर्वं भाति हि तन्मयम् ।

तस्मात्साहं जगत्सर्वमभिन्नं परमात्मनः

॥९॥

ज्ञप्तिर्जगत्तया भाति संकल्पस्वप्नयोरिव ।

अनानावयवोदेति जलमूर्मितया यथा

॥१०॥

एकात्मैवोदये ज्ञप्तेर्नानातामिव चागतः ।

अज्ञानात्स त्ववस्तुत्वात्प्रेक्षितो नोपलभ्यते

॥११॥

यथा स्वावयवानेव सर्वानवयवी भवेत् ।

नित्यानवयवं शान्तं ब्रह्मैवेदं तथा जगत्

॥१२॥

भाण्डलक्षाणि धत्तेऽन्तश्चिद्रूपकनकेष्टिका ।

यदेव सा चेतयते जगदादीव वेत्ति तत्

॥१३॥

ब्रह्मैव कचतीवेदं सत्तयाच्छजगत्तया ।

चिद्रूपत्वाद्द्रवात्मत्वात्तरङ्गादितयाब्धिवत्

॥१४॥

यद्यच्चेतयतेऽन्तस्तु जगदादीव पश्यति ।

अरूपमपि रूपं स्वं यन्न चेतयते न तत्

॥१२॥

चेतनाचेतनत्वोक्ती तस्येशत्वात्स्वदेहगे ।

उपदेशार्थमेवोक्ते न सद्विषयमर्थतः

॥१६॥

न जगत्सन्न चैवासद्भासते चेतनाच्चिति ।

अचेतनान्न कचति क इवार्थग्रहोऽत्र नः

॥१७॥

अचेतनं चेतनं च स्पन्दास्पन्दवदात्मनः ।

स्वायत्ते न कदर्थस्थे स्वस्थपाषाणवत्स्थिते

॥१८॥

यस्येक्षितस्य नो सत्ता नाधारो न च कारणम् ।

सोऽहमित्येव यो यक्षो न जाने कुत उत्थितः

॥१९॥

यस्याहमिति यक्षस्य सत्तैवास्ति न सत्यतः ।

अहो नु चित्रं तेनेमे भवन्तो विवशीकृताः

॥२०॥

काकतालीयवद्भ्रान्तमहं ब्रह्मणि भासते ।

स्वमेव रूपं दृग्भ्रान्तौ केशोण्ड्रकमिवाम्बरे

॥२१॥

ब्रह्मैवाहं जगच्चात्र कुतो नाशसमुद्भवौ ।

अतो हर्षविषादानां किंत्वेव कथमास्पदम्

॥२२॥

सर्वेश्वरत्वादीशस्य विभातीदं प्रचेतितम् ।

अचेतितं च नो भाति तेनाचेतितमस्तु ते

॥२३॥

काकतालीयवच्चित्त्वाज्जगतो भाति ब्रह्म खम् ।

स्वप्नसंकल्पपुरवत्तत्तस्माद्भिद्यते कथम्

॥२४॥

यथोर्म्यादि जले वृक्षे यथा वा शालभञ्जिका ।

यथा घटादयो भूमौ तथा ब्रह्मणि सर्गता

॥२५॥

अनाकृतावसंस्थाने स्वच्छे यदनुभूयते ।

तत्तदेवात उदितं किंनामाहं जगन्ति किम्

॥२६॥

मरुतः स्पन्दवैचित्र्यं सत्तयैव यथा तथा ।

ब्रह्मणो निःस्वभावस्य जगदाद्यहमादि च

॥२७॥

यथाभ्रे लक्ष्यते वृक्षगजवाजिमृगादिता ।

असन्निवेशाकृतिनि सर्गाहन्ते तथापरे

॥२८॥

सर्गोऽवयववद्भाति सर्व एव परे शिवे ।

एवं तदुपमां विद्धि कार्यकारणवद्यथा

॥२९॥

अन्तःशान्तमनायासमनुपाधि गतभ्रमम् ।

जगत्यसंभवादेव व्योमवत्सममास्यताम्

॥३०॥

न भवन्तो न च वयं न जगन्ति न खादयः ।

सन्ति शान्तमशेषेण ब्रह्मेदं निर्भरं स्थितम्

॥३१॥

अशेषेष्वविशेषेषु शान्ताशेषविशेषता ।

सत्या सैवाहमित्याशु त्यक्त्वा मोक्षाय भाव्यताम्

॥३२॥

वेदनं बन्धनं विद्धि विद्धि मोक्षमवेदनम् ।

यथास्थितं यथाचारं भव शान्तमवेदनम्

॥३३॥

द्रष्टा न दृश्यतां याति चितिर्नायाति चेत्यताम् ।

चेत्याभावादजगति कः किं चेतयते कथम्

॥३४॥

द्रष्टृदृश्यदशाभावाज्जाग्रत्येव सुषुप्तिवत् ।

शरदाकाशकोशाभमसत्तोपममास्यताम्

॥३५॥

तथैकब्रह्मचिद्रूपे पवनस्पन्दने यथा ।

अत्राचिद्बोधता सर्गो मोक्षो ब्रह्मैकबोधता

॥३६॥

चित्स्पन्दो ब्रह्ममरुतो यत्र सर्ग इति स्मृतः ।

नात्र चित्स्पन्दनं यत्स्यान्निर्वाणं तदुदाहृतम्

॥३७॥

बीजमन्तर्यथा वेत्ति स्वरूपं पल्लवादिकम् ।

तथा महाचिदन्तस्थं स्वरूपं वेत्ति सर्गताम्

॥३८॥

पत्रादिवेदनाद्बीजं यथा पत्रादि तिष्ठति ।

परा चित्सर्गसंवित्तिस्तथा भवति सर्गता

॥३९॥

यथा भावविकाराभाश्चित्पराः सर्गतास्तथा ।

सर्वे बीजानि दृष्टान्तास्तद्रूपा एव तन्मयाः

॥४०॥

निर्विकारपरब्रह्ममयं सर्वमिदं जगत् ।

निर्विकारमनाद्यन्तमेवं विद्धि निरामयम्

॥४१॥

निजसंकल्पमात्रात्मा निजसंकल्पनात्क्षयी ।

द्वैताद्वैतविकारोऽयं संकल्पनगरं यथा

॥४२॥

शून्यत्वाकाशयोर्भेदो यादृशोऽवगतस्त्वया ।

भेदं निरात्मकं विद्धि तादृशं ब्रह्मसर्गयोः

॥४३॥

मद्वाचिद्रूपिणी शान्ता या सत्ता ब्रह्मणः पुरा ।

स्वतः सेयमहंत्वं च मानवोऽस्मीत्यबोधतः

॥४४॥

ब्रह्मण्यस्मिञ्जगद्रूपे न किंचिदपि जायते ।

जातमप्यथ नष्टं च न नश्यत्यम्बुवीचिवत्

॥४५॥

पदार्थब्रह्मरूपेण ब्रह्मैवात्मनि तिष्ठति ।

अवयवीवावयवे खे खं वारीव वारिणि

॥४६॥

निमेषादर्धभागेन देशाद्देशान्तरस्थितौ ।

यद्रूपं संविदो मध्ये स स्वभाव उपास्यताम्

॥४७॥

संक्षुब्धमक्षुब्धमिति द्विरूपं

संवित्स्वरूपं प्रवदन्ति सन्तः ।

श्रेयः परं येन समीहसे त्वं

तदेकनिष्ठो भव माऽमतिर्भूः

॥४८॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे उत्तरार्धे परमार्थयोगोपदेशो नाम चतुस्त्रिंशः सर्गः ।। ३४ ।।