मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उत्पत्तिप्रकरणम् — सर्गः १२०

3
योगवासिष्ठम् · उत्पत्तिप्रकरणम् · 120

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

हेमोर्मिकादिवन्मिथ्या कथितायाः क्षयोन्मुखम् ।

त्वं महत्त्वमविद्यायाः शृणु राघव कीदृशम्

॥१॥

लवणोऽसौ महीपालस्तथा दृष्ट्वा तदा भ्रमम् ।

द्वितीये दिवसे गन्तुं प्रवृत्तस्तां महाटवीम्

॥२॥

यत्र दृष्टं मया दुःखमरण्यानीं स्मरामि ताम् ।

चित्तादर्शगतां विन्ध्यात्कदाचिल्लभ्यते हि सा

॥३॥

इति निश्चित्य सचिवैः प्रययौ दक्षिणापथम् ।

पुनर्दिग्विजयायेव प्राप्य विन्ध्यमहीधरम्

॥४॥

पूर्वदक्षिणपाश्चात्यमहार्णवतटस्थलीम् ।

बभ्राम कौतुकात्सर्वां व्योमवीथीमिवोष्णगुः

॥५॥

अथैकस्मिन्प्रदेशे तां चिन्तामिव पुरोगताम् ।

ददर्शोग्रामरण्यानीं परलोकमहीमिव

॥६॥

स तत्र विहरंस्तांस्तान्वृत्तान्तान्सकलानथ ।

दृष्टवान्पृष्टवांश्चैव ज्ञातवांश्च विसिस्मिये

॥७॥

तान्परिज्ञातवांश्चासीद्व्याधान्पुल्कसजान्पुनः ।

विस्मयाकुलया बुद्ध्या भूयो बभ्राम संभ्रमी

॥८॥

अथ प्राप्य महाटव्यां पर्यन्ते धूमधूसरे ।

तमेव ग्रामकं यस्मिन्सोऽभवत्पुष्टपुल्कसः

॥९॥

तत्रापश्यज्जनांस्तांस्तांस्ताः स्त्रियस्ताः कुटीरकाः ।

नानाकाराञ्जनाधारांस्तांस्तांश्च वसुधातटान्

॥१०॥

तांश्चाकाण्डपरिभ्रष्टांतान्वृक्षांस्तांस्त्वनुव्रजान् ।

तांस्तथैव समुद्देशास्ताऋयाधानेकलान्सुतान्

॥११॥

अन्यासु वृद्धासु सबाष्पनेत्रास्वार्तार्तियुक्तासु च वर्णयन्ती ।

अकालकान्तारविशीर्णबन्धुर्दुःखान्यसंख्यानि सखीषु वृद्धा

॥१२॥

वृद्धा प्रवृद्धोज्ज्वलनेत्रबाष्पा कष्टं बताशुष्ककुचा कृशाङ्गी ।

अवग्रहोग्राशनिदग्धदेशे तत्रार्तनादा परिरोदितीदम्

॥१३॥

हा पुत्रि पुत्रावृतसर्वगात्रे दिनत्रयाभोजनजर्जराङ्गि ।

कृत्वासिना वर्मणि जीर्णदेहाः कथं क्व मुक्ता भवतासवस्ते

॥१४॥

तालीदलालम्बनमम्बुदाद्रौ दन्तान्तरस्थारुणसत्फलस्य ।

स्मरामि गुञ्जाफलदाम भर्तुः पुरस्थमुद्रामरहासिनस्ते

॥१५॥

कदम्बजम्बीरलवङ्गगुञ्जा-कुञ्जान्तरतस्तु चरत्तरक्षोः ।

पश्यामि पुत्रस्य कदा नु भूयो भयंकराण्युड्यतिवल्गितानि

॥१६॥

न तानि कामस्य विलासिनीह मुखेऽपि शोभालसितानि सन्ति ।

तमालनीले चिबुकैकदेशे सुतस्य चान्यास्यगतामिषस्य

॥१७॥

सुतापनीता सह तेन भर्त्रा यमेन यस्या यमुना समाना ।

तमालवल्लीसहपुष्पगुच्छा समीरणेनेव वने वरेण

॥१८॥

हा पुत्रि गुञ्जाफलदामहारे समुन्नताभोगपयोधराङ्गि ।

वातोल्लसत्कज्जललोलवर्णे पर्णाम्बरे बादरजम्बुदन्ते

॥१९॥

हा राजपुत्रेन्दुसमानकान्त संत्यज्य शुद्धान्तविलासिनीस्ताः ।

रतिं प्रयातोऽसि ममात्मजायां न सापि ते सुस्थिरतामुपेता

॥२०॥

संसारनद्याः सुतरङ्गभङ्गैः क्रियाविलासैर्विहितोपहासैः ।

किं नाम तुच्छं न कृतं नृपेशो यद्योजितः पुष्कसकन्यकायाम्

॥२१॥

सा त्रस्तसारङ्गसमाननेत्रा स दृप्तशार्दूलसमानवीर्यः ।

उभौ गतावेकपदेन नाशमाशा सहार्थेन यथा महेहा

॥२२॥

मृतेश्वराश्वस्तनिजात्मजास्मि दुर्देशयातास्मि च दुर्गताऽस्मि ।

दुर्जातिजातास्मि महापदेऽस्मि साक्षाद्भयं भोऽस्मि महापदस्मि

॥२३॥

नीचावमानप्रभवस्य मन्योः क्षुधाप्रपन्नस्य कलत्रकस्य ।

शोकस्य वृत्तावनिवार्यवृत्तेर्नार्यस्म्यनेकायतनं विनाथा

॥२४॥

दैवोपतप्तस्य विबान्धवस्य मूढस्य रूढस्य महाधिभूमौ ।

यत्प्राणनं यन्मरणं महापद्यस्यात्मनिर्जीवितमुत्तमं तत्

॥२५॥

जनैर्विहीनस्य कुदेशवृत्तेर्दुःखान्यनन्तानि समुल्लसन्ति ।

सहस्रशाखारससंकुलानि तृणानि वर्षास्विव पर्वतस्य

॥२६॥

एवं लपन्तीं स्वकलत्रवृद्धां दासीभिराश्वास्य नृपः स्त्रियं ताम् ।

पप्रच्छ किंवृत्तमिहैव का च का ते सुता कश्च सुतस्तवेति

॥२७॥

उवाच सा बाष्पविलोचनाथ ग्रामस्त्वयं पुष्पसघोषनामा ।

इहाभवत्पुष्कसकः पतिर्मे बभूव तस्येन्दुसमा सुतैका

॥२८॥

सा दैवयोगात्पतिमिन्द्रतुल्यमिहागतं दैववशेन भूपम् ।

अयं विशीर्णं मधुकुम्भमाप वने वराकी करभी यथैका

॥२९॥

सा तेन सार्धं सुचिरं सुखानि भुक्त्वा प्रसूता तनयाः सुतांश्च ।

वृद्धिं गता काननकोटरेऽस्मिंस्तुम्बीलता पादपसंश्रितेव

॥३०॥

इत्यार्षे श्रीवसिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषूत्पत्तिप्रकरणे चण्डालीशोचनं नाम विंशत्युत्तरशततमः सर्गः ।। १२० ।।