मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः १२०

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 120

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

सहचरा ऊचुः ।

एवंप्रायाः कथाः कुर्वत्पश्यैनन्मिथुनं महत् ।

पानं प्रवृत्तवत्सारं पातुं पद्मनिभेक्षण

॥१॥

कदलीकन्दलीस्वच्छगुच्छाच्छोटनपण्डिताः ।

विविधा वायवो वान्ति पुष्पकेसरमण्डिताः

॥२॥

वान्ति वाता वनोद्वान्तविविधामोदमांसलाः ।

पीतघर्मकणाः क्रान्तललनालकलालकाः

॥३॥

कुलाचलगुहागेहवलनोद्यन्मृगाधिपाः ।

सरन्त्यसुरसंरम्भैर्लवणार्णवमारुताः

॥४॥

तमालतालतरललीलान्दोलनलालिताः ।

अनिलाजलकल्लोलोत्क्रान्तकोमलपल्लवाः

॥५॥

ललन्नवलतावान्तपुष्पधूलिविधूसराः ।

सरन्ति मरुतो मन्दमुद्यानेषु नृपा इव

॥६॥

मधुरं वंशविश्रान्तो गातुमेष वनानिलः ।

प्रवृत्तः पाण्डुनगरनारीभिरिव शिक्षितः

॥७॥

निकारः कर्णिकारेण पवनस्य यदा कृतः ।

तदा परिहरन्त्येनं भ्रमरा अपि दूरतः

॥८॥

न ददाति फलं किंचिदर्थिने न च पल्लवम् ।

तालः स्तम्भतयाऽऽरम्भं ह्यरूपैव विनाऽऽकृतिः

॥९॥

राग एव हि शोभायै निर्गुणानां जडात्मनाम् ।

राजेव राजते राजन्रागेणैवैष किंशुकः

॥१०॥

आगच्छ कर्णिकारोऽयं विकारस्यैव भाजनम् ।

निरामोदः किमेतेन निर्गुणेनेव जन्तुना

॥११॥

विलोलमञ्जरीजालतडित्सङ्गस्थितोऽसितः ।

चातकस्याम्बुदभ्रान्तिं तमालः कुरुते मुधा

॥१२॥

पत्राला घनसंघाताः सच्छायावृतभूभृतः ।

गुणानां महतां योग्या वंशा वंशा इवोन्नताः

॥१३॥

हेमसान्वासनस्थोऽग्र्यो वातव्याधितटोऽम्बुदः ।

तडित्पीताम्बरं धत्ते क्षुब्धं हरिरिवोद्भवः

॥१४॥

प्रवेशनिर्गमव्यग्रतरत्खगशिलीमुखः ।

प्रफुल्लकिंशुको भाति वीरो रक्त इवासृजा

॥१५॥

मन्दारमञ्जरीपुञ्जपिञ्जराम्भोदमन्दिरे ।

महेन्द्रमस्तके मत्ताः सुप्ता गन्धर्वकामिनः

॥१६॥

कल्पद्रुमवनच्छाया विश्रान्ता विततान्विताः ।

पश्य पार्थिव गायन्ति सिद्धविद्याधराध्वगाः

॥१७॥

पश्य कल्पद्रुमस्यास्य पल्लवे पल्लवे वने ।

विश्रान्ताः सुरसुन्दर्यो गायन्ति च हसन्ति च

॥१८॥

मन्दिरं मन्दपालस्य मन्दरे मृदुमन्दिरे ।

मुनेरिदमुदारस्य भार्या सा यस्य पक्षिणी

॥१९॥

अन्योन्यामतसिंहेभनकुलोरगकेलिकाम् ।

पश्य मुन्याश्रमश्रेणिं सर्वर्तुकुसुमद्रुमाम्

॥२०॥

विद्रुमद्रुममिश्राणामम्भोधितटवीरुधाम् ।

बिम्बितार्काः कचन्त्येते पल्लवेषूदबिन्दवः

॥२१॥

वीचयो रत्नमाणिक्यपदेष्वावर्तवृत्तिभिः ।

विलसन्ति विलासिन्यो वक्षःस्विव विलासिनाम्

॥२२॥

नागलोकेन्द्रलोकस्त्रीगमनागमनोद्भवः ।

दिव्यो भूषणझांकारः श्रूयते नभसः श्रृणु

॥२३॥

श्रवणोपान्तविभ्रष्टमदमत्तालिनीस्वरैः ।

ऐरावणस्नानभुवो गायन्तीव गुहा गिरेः

॥२४॥

ह्रसतोऽनुदिनं कृष्णपक्षे कृष्णान्तलेखिकाः ।

दृश्यन्ते कृशगात्रस्य वास्तुकावलयोऽम्बुधेः

॥२५॥

आमोदगन्धश्वसना सच्छाया शीतलाङ्गिका ।

एकान्तदर्शिताकारा नानाकुसुमपूरिता

॥२६॥

वनविन्यासवसना निर्झरामलहासिनी ।

आस्तीर्णपुष्पास्तरणा धन्या वनविलासिनी

॥२७॥

रमन्ते नन्दनोद्याने न तथोदारबुद्धयः ।

यथोपशान्तशब्दासु शुद्धासु वनभूमिषु

॥२८॥

सुविरक्तं मुनेश्चेतो रक्तं च विषयार्थिनः ।

रमयन्ति समं रम्या विजना वनभूमयः

॥२९॥

सलिलाधौतवप्राणामम्भोधितटभूभृताम् ।

नूपुरैरिव रत्नौघैः पादा भान्ति ध्वनन्ति च

॥३०॥

पुंनागनगविश्रान्ताः कान्तकाञ्चनकान्तयः ।

हेमचूडाः खगा भान्ति दिवि देवगणा इव

॥३१॥

भ्रमराम्भोदधूमाढ्याः फुल्लचम्पककाननाः ।

कम्पन्ते पश्य वातेन ज्वलिता इव पर्वताः

॥३२॥

कुर्वन्तं करवीराग्रलतान्दोलावदोलकम् ।

कोकिलं कोकिलालिङ्ग्य लोलालापयति प्रियम्

॥३३॥

लसत्कलकलारावमेता लावणसैन्धवीः ।

पूर्णास्तटभुवो भूपैः पश्योपायनपाणिभिः

॥३४॥

आ पूर्वादाऽपरस्माल्लवणजलनिधेरोत्तराद्दक्षिणाद्वा

देवोदग्राजिशिष्टा इह नरपतयः पादपीठीक्रियन्तां

दीयन्तां मण्डलानां दिशि दिशि च यथाशास्त्रमस्त्रा-

ण्यवन्या

रक्षायै क्षान्तिपूर्वं चिरमतुलबलं शान्तया शास-

नानि

॥३५॥

इत्यार्षे श्रीवासि० वा० दे० मो० निर्वा० अविद्यो० विप० दिगन्तरवृत्तिवाय्वादिवर्णनं नाम विंशत्यधिकशततमः सर्गः ।। १२० ।।