मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उपशमप्रकरणम् — सर्गः ९०

3
योगवासिष्ठम् · उपशमप्रकरणम् · 90

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

यदा ह्यस्तंगतप्रायं जातं चित्तं विचारतः ।

तदा हि वीतहव्यस्य जाता मैत्र्यादयो गुणाः

॥१॥

श्रीराम उवाच ।

विचाराभ्युदयाच्चित्तस्वरूपेऽन्तर्हिते मुने ।

मैत्र्यादयो गुणा जाता इत्युक्तं किं त्वया प्रभो

॥२॥

ब्रह्मण्यस्तं गते चित्ते कस्य मैत्र्यादयो गुणाः ।

क्व वा परिस्फुरन्तीति वद मे वदतां वर

॥३॥

श्रीवसिष्ठ उवाच ।

द्विविधश्चित्तनाशोऽस्ति सरूपोऽरूप एव च ।

जीवन्मुक्तः सरूपः स्यादरूपो देहमुक्तिजः

॥४॥

चित्तसत्तेह दुःखाय चित्तनाशः सुखाय तु ।

चित्तसत्तां क्षयं नीत्वा चित्तं नाशमुपानयेत्

॥५॥

तामसैर्वासनाजालैर्व्याप्तं यज्जन्मकारणम् ।

विद्यमानं मनो विद्धि तद्दुःखायैव केवलम्

॥६॥

प्राक्तनं गुणसंभारं ममेति बहु मन्यते ।

यत्तु चित्तमतत्त्वज्ञं दुःखितं जीव उच्यते

॥७॥

विद्यमानं मनो यावत्तावद्दुःखक्षयः कुतः ।

मनस्यस्तं गते जन्तोः संसारोऽस्तमुपागतः

॥८॥

दुःखमूलमवष्टब्धमस्मिन्नेव विनिश्चलम् ।

विद्यमानं मनो विद्धि दुःखवृक्षवनाङ्कुरम्

॥९॥

श्रीराम उवाच ।

नष्टं कस्य मनो ब्रह्मन्नष्टं वा कीदृशं भवेत् ।

कीदृशश्चास्य नाशः स्यात्सत्ता नाशस्य कीदृशी

॥१०॥

श्रीवसिष्ठ उवाच ।

चेतसः कथिता सत्ता मया रघुकुलोद्वह ।

अस्य नाशमिदानीं त्वं श्रृणु प्रश्नविदां वर

॥११॥

सुखदुःखदशा धीरं साम्यान्न प्रोद्धरन्ति यम् ।

निःश्वासा इव शैलेन्द्रं चित्तं तस्य मृतं विदुः

॥१२॥

अयं सोहमयं नाहमिति चिन्ता नरोत्तमम् ।

खर्वीकरोति यं नान्तर्नष्टं तस्य मनो विदुः

॥१३॥

आपत्कार्पण्यमुत्साहो मदो मान्द्यं महोत्सवः ।

यं नयन्ति न वैरूप्यं तस्य नष्टं विदुर्मनः

॥१४॥

एष साधो मनोनाशो नष्टं चेह मनो भवेत् ।

चित्तनाशदशा चैषा जीवन्मुक्तस्य विद्यते

॥१५॥

मनस्तां मूढतां विद्धि यदा नश्यति सानघ ।

चित्तनाशाभिधानं हि तदा सत्त्वमुदेत्यलम्

॥१६॥

तस्य सत्त्वविलासस्य चित्तनाशस्य राघव ।

जीवन्मुक्तस्वभावस्य कैश्चिच्चित्ताभिधा कृता

॥१७॥

मैत्र्यादिभिर्गुणैर्युक्तं भवत्युत्तमवासनम् ।

भूयो जन्मविनिर्मुक्तं जीवन्मुक्तमनोऽनघ

॥१८॥

व्याप्तं वासनया यत्स्याद्भूया जननमुक्तया ।

जीवन्मुक्तमनःसत्ता राम तत्सत्त्वमुच्यते

॥१९॥

संप्रत्येवानुभूतत्वात्सत्त्वाप्त्या तन्वसंयुतः ।

सरूपोऽसौ मनोनाशो जीवन्मुक्तस्य विद्यते

॥२०॥

मैत्र्यादयोऽथ मुदिताः शशाङ्क इव दीप्तयः ।

जीवन्मुक्तमनोनाशे सर्वदा सर्वथा स्थिताः

॥२१॥

जीवन्मुक्तमनोनाशे सत्त्वनाम्नि हिमालये ।

वसन्त इव मञ्जर्यः स्फुरन्ति गुणसंपदः

॥२२॥

अरूपस्तु मनोनाशो यो मयोक्तो रघुद्वह ।

विदेहमुक्त एवासौ विद्यते निष्कलात्मकः

॥२३॥

समग्राग्र्यगुणाधारमपि सत्त्वं प्रलीयते ।

विदेहमुक्ते विमले पदे परमपावने

॥२४॥

विदेहमुक्तविषये तस्मिन्सत्त्वक्षयात्मके ।

वित्तनाशे विरूपाख्ये न किंचिदपि विद्यते

॥२५॥

न गुणा नागुणास्तत्र न श्रीर्नाश्रीर्न लोलता ।

न चोदयो नास्तमयो न हर्षामर्षसंविदः

॥२६॥

न तेजो न तमः किंचिन्न संध्या दिनरात्रयः ।

न दिशो न च वाकाशो नाधो नानर्थरूपता

॥२७॥

न वासना न रचना नेहानीहे न रञ्जना ।

न सत्ता नापि वाऽसत्ता नच साध्यं हि तत्पदम्

॥२८॥

अतमस्तेजसा व्योम्ना वितारेन्द्वर्कवायुना ।

तत्समं शरदच्छेन निःसंध्येनारजस्त्विषा

॥२९॥

ये हि पारं गता बुद्धेः संसाराचरणस्य च ।

तेषां तदास्पदं स्फारं पवनानामिवाम्बरम्

॥३०॥

संशान्तदुःखमजडात्मकमेव सुप्त-

मानन्दमन्थरमपेतरजस्तमो यत् ।

आकाशकोशतनवोऽतनवा महान्त-

स्तस्मिन्पदे गलितचित्तलवा वसन्ति

॥३१॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे चित्तोपदेशविचारयोगोपदेशो नाम नवतितमः सर्गः ।।९० ।।