मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः १२५

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 125

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

वर्षे शान्तभयाभिख्ये जलधारे गिरौ तरौ ।

तादृक्कर्तरिपानीयं शाकद्वीपे पिबन् स्थितः

॥१॥

पूर्वोऽथ वर्षसप्तत्या पाश्चात्येनैत्य मोक्षितः ।

विद्यया क्रकचेनेव छित्त्वा वृक्षत्वमक्षतः

॥२॥

पाश्चात्यः शिशिरे वर्षे पाषाणत्वमुपागतः ।

मोचितो दक्षिणेनाशु गोमांसादिप्रयोगतः

॥३॥

शिवेऽस्ताचलपारस्थे वर्षे वर्षेण पश्चिमः ।

मोचितो दक्षिणेनैत्य गोपिशाच्या वृषीकृतः

॥४॥

अत्रैव क्षेमके वर्षे आम्बिकेयगिरौ तरौ ।

दक्षिणो यक्षतां यातो मोक्षं यक्षेण लब्धवान्

॥५॥

अत्रैव वृषके वर्षे शैले केसरनामनि ।

केसरित्वं गतः पूर्वः पाश्चात्येनैव मोचितः

॥६॥

श्रीराम उवाच ।

एकदेशगता विष्वग्व्याप्य कर्माणि कुर्वते ।

योगिनस्त्रिषु कालेषु सर्वाणि भगवन्कथम्

॥७॥

श्रीवसिष्ठ उवाच ।

इह रामाप्रबुद्धानां यदस्त्यस्त्वलमेव नः ।

तेन यत्तु प्रबुद्धानां तदिदं श्रृणु कथ्यते

॥८॥

चिन्मात्रसत्तासामान्यादृतेऽन्यन्नात्म तद्विदाम् ।

दृश्यात्यन्ताभावबोधे सर्गासर्गदृशोः क्षये

॥९॥

चिन्मात्रसत्तासामान्ये विश्रान्तस्य निरन्तरम् ।

सर्वेशस्येह सर्वत्वं सर्वात्मत्वं च सर्वदा

॥१०॥

वद केन कथं कुत्र कदा किमिव रोध्यते ।

सर्वगस्त्वथ सर्वात्मा यत्र भाति यदा यथा

॥११॥

तथा भाति तदा तत्र सर्वात्मनि किमस्ति नो ।

अतीतं वर्तमानं च भविष्यत्स्थूलमप्यणु

॥१२॥

तथा दूरमदूरं च निमेषः कल्प एव च ।

स्वरूपमजहत्येव सामान्ये तानि सर्वदा

॥१३॥

सर्वात्मनि स्थितान्येव पश्य मायाविजृम्भितम् ।

अजातमनिरुद्धं च यथास्थितमवस्थितम्

॥१४॥

विज्ञानघनमेवेदमत एव जगत्त्रयम् ।

नभस्त्वमत्यजंश्चैव सर्वात्मैव नभः स्थितम्

॥१५॥

जगदात्मा जगद्रूपं द्रष्टृदृश्यतयोदितम् ।

विश्वात्मदृग्वपुर्यत्स्यात्तत्किं केन कथं कदा

॥१६॥

दुःसाध्यं ब्रूहि तत्त्वज्ञ साध्यासाध्यस्वरूपिणः ।

तस्मादस्याः सदैकस्या विपश्चिद्राजसंविदः

॥१७॥

प्रबोधमनुगच्छन्त्या अप्राप्तायाः परं पदम् ।

एकस्या अप्यनेकस्याः सर्वं सर्वत्र युज्यते

॥१८॥

बोधाबोधात्मरूपे हि किं नामास्ति परात्मनि ।

अप्राप्तायाः परं बोधं पदार्थाकुलतोचिता

॥१९॥

किंचिद्बोधं प्रविष्टायाः सिद्धताप्युचितैव सा ।

एवं ते सर्वदिक्संस्थाः सर्वमेव परस्परम्

॥२०॥

पश्यन्त्यनुभवन्त्याशु चिकित्सन्ते च संकटम् ।

बोधाकाशः स्वकाद्रूपादीषच्च्युत इवाशु चेत्

॥२१॥

तदन्यतामिवादत्ते सुस्थितोऽपि यथास्थितम् ।

श्रीराम उवाच ।

विपश्चितः प्रबुद्धाश्चेत्कथं सिंहवृषादिताम्

॥२२॥

दिक्षु यान्तीति मे ब्रह्मन्बोधाय कथयाश्वलम् ।

श्रीवसिष्ठ उवाच ।

प्रबुद्धाः कथिता ये ते योगिनस्ते मयानघ

॥२३॥

प्रसङ्गरूपान्तरतो न प्रबुद्धा विपश्चितः ।

विपश्चितो महाबाहो प्रबुद्धा निपुणं न ते

॥२४॥

बोधाबोधदृशोर्मध्ये ते हि दोलायिताः स्थिताः ।

मोक्षचिह्नानि दृश्यन्ते बन्धचिह्नानि चाभितः

॥२५॥

नित्यधर्मप्रबुद्धानां तथाभूततया तया ।

विपश्चितो धारणया योगिनो न परं गताः

॥२६॥

धारणायोगिनस्ते हि धारणाप्राप्तसिद्धयः ।

ये परं बोधमायाता येष्वविद्या न विद्यते

॥२७॥

किमविद्यामवेक्षन्ते ते तामरसलोचन ।

धारणायोगिनो ह्येते वरेण प्राप्तसिद्धयः

॥२८॥

अविद्या विद्यते तेषां तेन तेऽतद्विचारिणः ।

अन्यच्च श्रृणु हे राम जीवन्मुक्तशरीरिणाम्

॥२९॥

भवेद्व्यवहृतावेव पदार्थान्तरवेदनम् ।

मोक्षोऽपि चेतसो धर्मश्चेतस्येव स तिष्ठति

॥३०॥

न देहे देहधर्मस्तु न देहाद्विनिवर्तते ।

न कदाचन निर्मुक्तं चेतो भूयो निबध्यते

॥३१॥

यत्नेनापि पुनर्बद्धं केन वृन्तच्युतं फलम् ।

देहस्तु देहधर्मेण जीवन्मुक्तिमतामपि

॥३२॥

गृह्यते तद्गतं तेषां चेतस्त्वचलमेव तत् ।

मोक्षो हि न परज्ञेयो धारणादिप्रयोगवत्

॥३३॥

आत्मसंवेद्य एवासौ मध्वाद्यास्वादसौख्यवत् ।

सुखदुःखैर्युतोयोऽसौ स्वयं बन्धानुभूतिमान्

॥३४॥

तन्मुक्तौ मुक्त इत्युक्तः स्वानुभूतिप्रदस्त्वसौ ।

अन्तःशीतलचित्तो हि मुक्त इत्यभिधीयते

॥३५॥

बन्धः संतप्तचित्तेति देहादेस्तन्न दृश्यते ।

शरीरे कणशः कृत्ते राज्ये वा विनियोजिते

॥३६॥

रुदतो हसतश्चैव जीवन्मुक्तमतेरिह ।

न दुःखं न सुखं किंचिदन्तर्भवति तत्स्थितम्

॥३७॥

गृह्णतोऽप्यनुभूतिस्तु तत्रैवैषास्ति नापरे ।

दृश्यन्ते पण्डिता भग्ना रूपान्तरमुपागताः

॥३८॥

देहादिजीवन्मुक्तानां स्वभावान्न कदाचन ।

मृतोऽपि नैव म्रियते रुदन्नपि न रोदिति

॥३९॥

विहसन्न हसत्येव जीवन्मुक्तो महोदयः ।

वीतरागाः सरागाभा अकोपाः कोपसंयुताः

॥४०॥

अमोहा मोहवलिता दृश्यन्ते तत्त्वदर्शिनः ।

इदं सुखमिदं दुःखमित्यादिकलनास्तु ताः

॥२॥

अलं दूरगतास्तेषामङ्कुरा नभसो यथा ।

जगदात्मा च नास्त्येव यस्यैकं सर्वमस्ति च

॥४२॥

सुखदुःखादि तस्येति वाग्व्योमविटपोपमा ।

अशोका एव शोचन्ते जीवन्मुक्ता जयान्विताः

॥४३॥

अच्छिन्ना एकतद्भावा दृश्यन्ते तत्त्वदर्शिनः ।

शिरः कमलजस्योच्चैः सामगायनतत्परम्

॥४४॥

हरो नखेन चिच्छेद सुकुमारमिवाम्बुजम् ।

शक्तोऽपि न पुनर्ब्रह्मा जनयामास तच्छिरः

॥४५॥

व्योमैकतास्य चिद्व्योम्नो मुधा मूर्ध्नेतरेण किम् ।

नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन

॥४६॥

यद्यथा नाम संपन्नं तत्तथास्त्वितरेण किम् ।

हरो हरिणशावाक्षीमक्षीणशरतोऽश्रु च ।

धत्ते वपुषि दुग्धाब्धिर्गुप्तामृतकलामिव

॥४७॥

शक्तोऽपि रागितामेष न त्यजत्युत्तमाशयः ।

पञ्चेषुदाहसमये दृष्टा नीरागतागुणाः

॥४८॥

नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ।

न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः

॥४९॥

रागितैषास्तु मा वास्य किमरागितयान्यया ।

यद्यथा नाम संपन्नं तत्तथास्त्वितरेण किम्

॥५०॥

करोति कारयत्युच्चैर्म्रियते मार्यतेऽपि च ।

जायते वर्धतेऽजस्रं जीवन्मुक्तो जनार्दनः

॥५१॥

न चाजवं जवीभावं त्यक्तुं शक्तोऽप्यसौ न तम् ।

तेन त्यक्तेन नैवार्थस्तस्य नैवाश्रितेन च

॥५२॥

तद्यथास्थितमेवास्तु इह इत्यस्तवासनम् ।

हरिर्निरिच्छ एवास्ते शुद्धचिन्मात्ररूपभृत्

॥५३॥

आत्मानमान्दोलयति कालकन्दुकतां गतम् ।

अजस्रं नित्यमादित्यो जगद्गृहनभोङ्गणे

॥५४॥

न च रोधयितुं देहं न समर्थो दिनेश्वरः ।

निरिच्छ एव निर्वाणस्तथाप्यास्ते यथास्थितम्

॥५५॥

चन्द्रोऽनुभवति व्यर्थमाकल्पं क्षयमक्षयम् ।

जीवन्मुक्ततया खिन्नो यथास्थितमवस्थितः

॥५६॥

मरुत्तहव्यगौरीशवीर्यग्रासादिखेदिताम् ।

जीवन्मुक्तो वहत्यग्निर्यथा स्थित्या समस्थितिः

॥५७॥

बह्वीभिर्विजिगीषाभिः कृपणाविव तिष्ठतः ।

जीवन्मुक्तावपि गुरू लोके शुक्रबृहस्पती

॥५८॥

करोति जनको राज्यं जीवन्मुक्तमना मुनिः ।

जगत्यामाजिषूग्रासु देहं जर्जरतां नयन्

॥५९॥

नलमान्धातृसगरदिलीपनहुषादयः ।

जीवन्मुक्ताश्चिरं राज्यं चक्रुराकुलिता इव

॥६०॥

व्यवहारे यथैवाज्ञस्तथैव खलु पण्डितः ।

वासनावासने एव कारणं बन्धमोक्षयोः

॥६१॥

बलिप्रह्लादनमुचिवृत्रान्धकमुरादयः ।

जीवन्मुक्ताः स्थितिं चक्रुर्वीतरागाः सरागवत्

॥६५२॥

तस्मादसत्त्वे सत्त्वे च रागद्वेषक्षयोदये ।

न मनागपि भेदोऽस्ति ज्ञखं प्रति स्वरूपिणि

॥६३॥

ज्ञानेनाकाशशुद्धेन धर्मान्ये गगनोपमान् ।

विन्दन्ति जीवन्मुक्तानां तेषां भेदमतिः कुतः

॥६४॥

भास्वरं शक्रकोदण्डं यथा नानेव शून्यकम् ।

आभासमात्रमेवायं तथा दृश्यात्मको भ्रमः

॥६५॥

शक्रचापे यथा भान्ति नानावर्णा नभोङ्गणे ।

तथा शून्यात्मका एव ब्रह्माण्डपरमाणवः

॥६६॥

इदं जगदसद्भाति सदिव व्यक्तिमागतम् ।

अजातमनिरुद्धं च यथा शून्यत्वमम्बरे

॥६७॥

साद्यन्तमप्यनाद्यन्तमशून्यमपि शून्यकम् ।

जगज्जातं तथाऽजातमरुद्धं रुद्धमेव च

॥६८॥

जातं निरुद्धमस्त्येवं ब्रह्म व्योमैव भासते ।

यथा दारुमयः स्तम्भस्तथा तच्छालभञ्जिका

॥६९॥

समस्तकलनोन्मुक्तं समं निर्निद्रमासनम् ।

यदेकान्तचिदाकाशं तद्विद्यात्तन्मयं जगत्

॥७०॥

देशाद्देशान्तरप्राप्तौ यन्मध्ये संविदो वपुः ।

अनुन्मेषं चिदाकाशं तद्विद्यात्तन्मयं जगत्

॥७१॥

तत्र यद्द्वैतमैक्यं तन्मन्ये तदपि नैव च ।

तद्व्योम केवलं भाति मन्ये तदपि नैव वा

॥७२॥

जगदाकाशमेवेदमात्मैवात्मनि वा स्थितम् ।

भविष्यत्पुरवद्दृष्टमपि स्फारमपि स्फुटम्

॥७३॥

आकाशकोशविशदाशय दृश्यजातं

मौनात्म तिष्ठति शिलाघनमेव शान्तम् ।

यन्नाम तस्य जगदित्यभिधां विधाय

स्वात्मैव मोहित इवायमहो नु माया

॥७४॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० अवि० वि० जीवन्मुक्तकलनं नाम पञ्चविंशाधिकशततमः सर्गः ।। १२५ ।।