मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उत्पत्तिप्रकरणम् — सर्गः १३

3
योगवासिष्ठम् · उत्पत्तिप्रकरणम् · 13

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

परमे ब्रह्मणि स्फारे समे राम समस्थिते ।

अनुत्पन्ननभस्तेजस्तमःसत्ता चिदात्मनि

॥१॥

पूर्वं चेत्यत्वकलनं सतश्चेत्यांशचेतनात् ।

उदेति चित्तकलनं चितिशक्तित्वचेतनात्

॥२॥

ततो जीवत्वकलनं चेत्यसंयोगचेतनात् ।

ततोऽस्य मायाकलनं चेत्यैकपरतावशात्

॥३॥

ततो बुद्धित्वकलनमहन्तापरिणामतः ।

एतदेव मनस्तादिशब्दतन्मात्रकादिमत्

॥४॥

उच्छूनादन्यतन्मात्रभावनाद्भूतरूपिणः ।

अयमित्थं महागुल्मो जगदादिर्विलोक्यते

॥५॥

झटित्येवं क्रमेणेति स्वप्ने पुरमिवाकृतम् ।

महाकाशमहाटव्यामुद्भूयोद्भूय नश्यति

॥६॥

जगत्करञ्जकुञ्जानां बीजमेतदवापजम् ।

नापेक्षते किंचिदपि क्षितिवार्यनलादिकम्

॥७॥

एतच्चिदात्मकं पश्चात्किलोर्व्यादि करिष्यति ।

स्वं स्वप्नवित्पुरमिव चिन्मात्रात्मकमेव यत्

॥८॥

जगदाद्यङ्कुरं यत्र तत्रस्थमपि मुञ्चति ।

जगतः पञ्चकं बीजं पञ्चकस्य चिदव्यया

॥९॥

यद्बीजं तत्फलं विद्धि तस्माद्ब्रह्ममयं जगत् ।

एवमेष महाकाशे सर्गादौ पञ्चको गणः

॥१०॥

चिच्छक्त्या स्वाङ्गभूतात्मा कल्पितोस्ति न वास्तवः ।

अनेनोच्छूनतामेत्य यदपीदं वितन्यते

॥११॥

तदप्याकाशरूपात्मकल्पनात्मनि सन्मयम् ।

क्वचिन्न नाम तत्सिद्धं यदसिद्धेन साध्यते

॥१२॥

स्वरूपं यद्विकल्पात्म कथं तत्सत्यतामियात् ।

अथ चेत्पञ्चकं ब्रह्म ब्रह्मात्मकतया धिया

॥१३॥

तत्पञ्चकं विद्धि प्रौढो ब्रह्मैव त्रिजगत्क्रमः ।

यथा स्फुरति सर्गादावेष पञ्चकसंभवः

॥१४॥

तथैवाद्येह भूतत्वे याति कारणतां स्वयम् ।

एवं न जायते किंचिज्जगज्जातं न लक्ष्यते

॥१५॥

स्वप्नसंकल्पपुरवदसत्सदनुभूयते ।

ब्रह्माकाशपराकाशे जीवाकाशत्वमात्मनि

॥१६॥

इति चित्यवदातात्मा पृथ्व्यादीनामसंभवात् ।

इत्येष जीवः कथितो व्योम्नि स्वात्मा इवोदितः

॥१७॥

जीवाकाशस्त्विमं देहं यथा विन्दति तच्छ्रुणु ।

जीवाकाशः स्वमेवासौ तस्मिंस्तु परमेश्वरे

॥१८॥

अणुतेजःकणोऽस्मीति स्वयं चेतति चिन्तया ।

यत्तदेवोच्छूनमिव भावयत्यात्मनाम्बरे

॥१९॥

असदेव सदाकारं संकल्पेन्दुर्यथा न सन् ।

तमेव भावयन् द्रष्ट्रदृश्यरूपतया स्थितः

॥२०॥

एक एव द्वितामेति स्वप्ने स्वमृतिबोधवत् ।

किंचित्स्थौल्यमिवादत्ते ततस्तारकतां विदन्

॥२१॥

यथाभावितमात्रार्थभाविताद्विश्वरूपतः ।

स एव स्वात्मा सततोप्ययं सोहमिति स्वयम्

॥२२॥

चित्तात्प्रत्ययमाधत्ते स्वप्ने स्वामिव पान्थताम् ।

तारकाकारमाकारं भाविदेहाभिधं तथा

॥२३॥

भावयत्येति तद्भावं चित्तं चेत्यार्थतामिव ।

परित्यज्यैव तद्बाह्यं ततस्तारककोटरे

॥२४॥

अन्तर्भाति बहिष्ठोऽपि पर्वतो मुकुरे यथा ।

कूपसंस्थो यथा देहः समुद्गकगतं वचः

॥२५॥

स्वप्नसंकल्पयोः संविद्वेत्त्येतज्जीवकोऽणुके ।

स्वरूपतारकान्तस्थो जीवोऽयं चेतति स्वयम्

॥२६॥

तदेतद्बुद्धिचित्तादिज्ञानसत्तादिरूपकम्।

जीवाकाशः स्वतस्तत्र तारकाकाशकोशगम्

॥२७॥

प्रेक्षेऽहमिति भावेन द्रष्टुं प्रसरतीव खे ।

ततो रन्ध्रद्वयेनैव भाविबाह्याभिधं पुनः

॥२८॥

येन पश्यति तन्नेत्रयुगं नाम्ना भविष्यति ।

येन स्पृशति सा वै त्वग्यच्छृणोति श्रुतिस्तु सा

॥२९॥

येन जिघ्रति तद्घ्राणं स स्वमात्मनि पश्यति ।

तत्तस्य स्वदनं पश्चाद्रसना चोल्लसिष्यति

॥३०॥

स्पन्दते यत्स तद्वायुश्चेष्टा कर्मेन्द्रियव्रजम् ।

रूपालोकमनस्कारजातमित्यपि भावयत्

॥३१॥

आतिवाहिकदेहात्मा तिष्ठत्यम्बरमम्बरे ।

एवमुच्छूनतां तस्मिन्भावयंस्तेजसः कणे

॥३२॥

असत्यां सत्यसंकाशां ब्रह्मास्ते जीवशब्दवत् ।

इत्थं स जीवशब्दार्थः कलनाकुलतां गतः

॥३३॥

आतिवाहिकदेहात्मा चित्तदेहाम्बराकृतिः ।

स्वकल्पनान्त आकारमण्डं संस्थं प्रपश्यति

॥३४॥

कश्चिज्जलगतं वेत्ति कश्चित्सम्राट्स्वरूपिणम् ।

भाविब्रह्माण्डकलनां पश्यत्यनुभवत्यपि

॥३५॥

आत्मगर्भगृहं चित्ताद्यथासंकल्पमात्मनः ।

देशकालक्रियाद्रव्यकल्पनावेदनं स तत्

॥३६॥

भावयञ्छब्दनिर्माता शब्दैर्बध्नाति कल्पितैः ।

आतिवाहिकदेहोऽसावित्यसत्यजगद्भ्रमे

॥३७॥

असत्य एव कचति स्वप्ने खोड्डयनं यथा ।

इत्यनुत्पन्न एवासौ स्वयंभूः स्वयमुत्थितः

॥३८॥

आतिवाहिकदेहात्मा प्रभुराद्यः प्रजापतिः ।

एतस्मिन्नपि संपन्ने ब्रह्माण्डाकारिणि भ्रमे

॥३९॥

न किंचिदपि संपन्नं न च जातं न दृश्यते ।

तद्ब्रह्माकाशमाकाशमेव स्थितमनन्तकम्

॥४०॥

संकल्पनगराकारमेतत्सदपि नैव सत् ।

अनिर्मितमरागं च एतद्वै चित्रमुत्थितम्

॥४१॥

अकृतं चानुभूतं च न सत्यं सत्यवत्स्थितम् ।

महाकल्पे विमुक्तत्वाद्ब्रह्मादीनामसंशयम्

॥४२॥

स्मृतिर्न प्राक्तनी काचित्कारणं वा स्वयंभुवः ।

तेन यादृक्स्वयंभूः स्यात्तादृक्तज्जमिदं स्मृतम्

॥४३॥

अनाद्यनुभवस्त्वित्थं योऽत्रास्ति वनिकादिके ।

स्वप्नानुभूतं पृथ्व्यादि प्रबोधे यादृशं भवेत्

॥४४॥

स्मृतः स व्योममात्रात्मा सर्वदैव स्मृतं जगत् ।

यत्र यत्र यथा तोये द्रवत्वं नाम भिद्यते

॥४५॥

तत्र तत्र तथा नान्यः सर्गोऽस्ति परमात्मनि ।

सृष्टिरेवमियं प्रौढा सम एव त्वयं स्थितः

॥४६॥

भात्येवं नाम ब्रह्माण्डं व्योमात्मेवातिनिर्मलम् ।

दृश्यमेवमिदं शान्तं स्वात्मनिर्मितविभ्रमम्

॥४७॥

निराधारं निराधेयमद्वैतं चैक्यवर्जितम् ।

जगत्संविदि जातायामपि जातं न किंचन

॥४८॥

परमाकाशमाशून्यमच्छमेव व्यवस्थितम् ।

सर्वसंसारता नास्ति यदेव तदवस्थितम्

॥४९॥

नाधेयं तत्र नाधारो न दृश्यं न च द्रष्टृता ।

ब्रह्माण्डं नास्ति न ब्रह्मा न च वैतण्डिका क्वचित्

॥५०॥

न जगन्नापि जगती शान्तमेवाखिलं स्थितम् ।

ब्रह्मैव कचति स्वच्छमित्थमात्मात्मनात्मनि

॥५१॥

चित्त्वाद्द्रवत्वात्सलिलमिवावर्ततयात्मनि ।

असदेवेदमाभाति सदिवेहानुभूयते

॥५२॥

विनश्यत्यसदेवान्ते स्वप्ने स्वमरणं यथा ।

अथवा स्वस्वरूपत्वात्सदेवेदमनामयम् ।

अखण्डितमनाद्यन्तं ज्ञानमात्राम्बरोदरम्

॥५३॥

आकाश एव परमे प्रथमः प्रजेशो

नित्यं स्वयं कचति शून्यतया समो यः ।

स ह्यातिवाहिकवपुर्नतु भूतरूपी

पृथ्व्यादि तेन न सदस्ति यथा न जातम्

॥५४॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे स्वयंभूत्पत्तिवर्णनं नाम त्रयोदशः सर्गः ।। १३ ।।