मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः ५८

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 58

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीराम उवाच ।

अहो नु विततोदारा विमला विपुलाचला ।

भवता भगवन्भूत्यै भूयो दृष्टिरुदाहृता

॥१॥

सर्वथा सर्वदा सर्वं सर्वं सर्वत्र सर्वदा ।

सदित्येव स्थितं सत्यं समं समनुभूतितः

॥२॥

अयमस्ति मम ब्रह्मन्संशयस्तं निवारय ।

किमिदं भगवन्नाम पाषाणाख्यानमुच्यते

॥३॥

श्रीवसिष्ठ उवाच ।

सर्वत्र सर्वदा सर्वमस्तीति प्रतिपादने ।

पाषाणाख्यानदृष्टान्तो मयायं तव कथ्यते

॥४॥

नीरन्ध्रैकघनाङ्गस्य पाषाणस्यापि कोटरे ।

सन्ति सर्गसहस्राणि कथयेति प्रदर्श्यते

॥५॥

भूताकाशे महत्यस्मिन्खशून्यत्वमनुज्झति ।

सन्ति सर्गसहस्राणि कथयेति प्रदर्श्यते

॥६॥

अन्तर्गुल्माङ्कुरादीनां प्राणिवाय्वम्बुतेजसाम् ।

सन्ति सर्गसहस्राणि कथयेति प्रदर्श्यते

॥७॥

श्रीराम उवाच ।

कुड्यादौ सन्ति सगौंघा इति चेत्कथ्यते मुने ।

तत्खे विभान्ति सर्गौघा इति किं न प्रदृश्यते

॥८॥

श्रीवसिष्ठ उवाच ।

एतत्ते वर्णितं राम मुख्यमेव मयाखिलम् ।

योऽयमालक्ष्यते सर्गः स ख एव खमास्थितम्

॥९॥

आदावेव हि नोत्पन्नमद्यापि न च विद्यते ।

दृश्यं यच्चावभातीदं तद्ब्रह्म ब्रह्मणि स्थितम्

॥१०॥

नास्ति भूरणुमात्रापि सर्गैर्निर्विवरा न या ।

न च क्वचन विद्यन्ते सर्गा ब्रह्मखमेव ते

॥११॥

न तेजसोऽणुरप्यस्ति सगैर्निर्विवरो न यः ।

न च क्वचन सर्गास्ते सन्ति ब्रह्मखमेव तत्

॥१२॥

न वायोरणुरप्यस्ति सर्गैर्निर्विवरो न यः ।

न च क्वचन विद्यन्ते सर्गा ब्रह्मखमेव तत्

॥१३॥

खं नाणुमात्रमप्यस्ति सर्गैर्निर्विवरं न यत् ।

न च क्वचन सर्गास्ते सन्ति ब्रह्मखमेव तत्

॥१४॥

न सा महाभूततास्ति सर्गैर्निर्विवरा न या ।

न च क्वचन विद्यन्ते सर्गा ब्रह्मखमेव तत्

॥१५॥

शैलानां नाणुरप्यस्ति स सर्गैर्यो न निर्घनः ।

न च क्वचन विद्यन्ते सर्गा ब्रह्मखमेव तत्

॥१६॥

ब्रह्मणो नाणुरप्यस्ति सगैर्निर्विवरो न यः ।

न च क्वचन सर्गास्ते सन्ति ब्रह्मखमेव तत्

॥१७॥

सर्गेषु नाणुरप्यस्ति न ब्रह्मात्मैव यः सदा ।

ब्रह्मसर्गास्तथेत्येष वाचि भेदो न वस्तुनि

॥१८॥

सर्गा एव परंब्रह्म परं ब्रह्मैव सर्गता ।

मनागप्यस्ति न द्वैतमत्राग्न्यर्कौष्ण्ययोरिव

॥१९॥

इमे सर्गा इदं ब्रह्म तेऽत्यन्तावाच्यदृष्टयः ।

विदार्यदारुरववद्भान्त्यर्थपरिवर्जिताः

॥२०॥

द्वैतमैक्यं च यत्रास्ति न मनागपि तत्र ते ।

सर्गब्रह्मादिशब्दार्थाः कथं कस्येव भान्तु के

॥२१॥

शान्तमेकमनाद्यन्तमिदमच्छमनामयम् ।

व्यवहारवतोऽप्यङ्ग ज्ञस्य मौनं शिलाघनम्

॥२२॥

निर्वाणमेवमखिलं नभ एव दृश्यं

त्वं चाहमद्रिनिचयाश्च सुरासुराश्च ।

तादृग्जगत्समवलोकय यादृगङ्ग

स्वप्नेऽथ जन्तुमनसि व्यवहारजालम्

॥२३॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मोक्षो ० निर्वाणप्रकरणे उ ० पाषाण० सर्गब्रह्मत्वप्रतिपादनं नामाष्टपञ्चाशः सर्गः ।० ५८।।