मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उत्पत्तिप्रकरणम् — सर्गः ४३

3
योगवासिष्ठम् · उत्पत्तिप्रकरणम् · 43

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीसरस्वत्युवाच ।

अस्मिन् रणवरे राजन्मर्तव्यं भवताधुना ।

प्राप्तव्यं प्राक्तनं राज्यं सर्वं प्रत्यक्षमेव ते

॥१॥

कुमार्या मन्त्रिणा चैव त्वया च प्राक्तनं पुरम् ।

आगन्तव्यं शवीभूतं प्राप्तव्यं तच्छरीरकम्

॥२॥

आवां यावो यथायातं वातरूपेण च त्वया ।

आगन्तव्यः स देशस्तु कुमार्या मन्त्रिणापि च

॥३॥

अन्यैव गतिरश्वस्य गतिरन्या खरोष्ट्रयोः ।

मदस्विन्नकपोलस्य गतिरन्यैव दन्तिनः

॥४॥

प्रस्तुतेति कथा यावन्मिथो मधुरभाषिणोः ।

तावत्प्रविश्य संभ्रान्त उवाचोर्ध्वस्थितो नरः

॥५॥

देव सायकचक्रासिगदापीरघवृष्टिमत् ।

महत्परबलं प्राप्तमेकार्णव इवोद्धतः

॥६॥

कल्पकालानिलोद्धूतकुलाचलशिलोपमम् ।

गदाशक्तिभुशुण्डीनां वृष्टिं मुञ्चति तुष्टिमत्

॥७॥

नगरे नगसंकाशे लग्नोऽग्निर्व्याप्तदिक्तटः ।

दहंश्चटचटास्फोटैः पातयत्युत्तमां पुरीम्

॥८॥

कल्पाम्बुदघटातुल्या व्योम्नि धूममहाद्रयः ।

बलात्प्रोड्डयनं कर्तुं प्रवृत्ता गरुडा इव

॥९॥

श्रीवसिष्ठ उवाच ।

ससंभ्रमं वदत्येवं पुरुषे परुषारवः ।

उदभूत्पूरयन्नाशा बहिः कोलाहलो महान्

॥१०॥

बलादाकर्णकृष्टानां धनुषां शरवर्षिणाम् ।

बृंहतामतिमत्तानां कुञ्जराणां तरस्विनाम्

॥११॥

पुरे चटचटास्फोटैर्दहतां जातवेदसाम् ।

पौराणां दग्धदाराणां महाहलहलारवैः

॥१२॥

तरतामग्निखण्डानां टांकारः कथितो रवैः ।

ज्वलितानां परिस्पन्दाद्धगद्धगिति चार्चिषाम्

॥१३॥

अथ वातायनाद्देव्यौ मन्त्री राजा विदूरथः ।

ददृशुः प्रोल्लसन्नादं महानिशि महापुरम्

॥१४॥

प्रलयानलसंक्षुब्धपूर्णैकार्णवरंहसा ।

पूर्णं परबलेनोग्रहेतिमेघतरङ्गिणा

॥१५॥

कल्पान्तवह्निविगलन्मेरुभूधरभासुरैः ।

दह्यमानं महाज्वालाज्वालैरम्बरपूरकैः

॥१६॥

मुष्टिग्राह्यमहामेघगर्जासंतर्जितोर्जितैः ।

घोरं कलकलारावैर्मांसलैर्दस्युजल्पितैः

॥१७॥

पुष्करावर्तसंकाशधूम्रूभ्रपिहिताम्बरम् ।

प्रोड्डीनहेमाग्रनिभैर्ज्वालापुञ्जैर्निरन्तरम्

॥१८॥

तरदुल्मुकखण्डोग्रतारातरलिताम्बरम् ।

अन्योन्यदेशसद्मौघप्रज्वलज्ज्वलनाचलम्

॥१९॥

हतसैन्यपुरापातं द्रुताङ्गाराभ्रकोटरैः ।

कर्कशाक्रन्दनिर्दग्धलोकपूगोग्रगर्जितम्

॥२०॥

कृशानुकणनाराचनिरन्तरतराम्बरम् ।

बहुहेतिशिलाजाललुठद्दग्धपुरोत्करम्

॥२१॥

रणद्द्विरदसंघट्टकुट्टितोद्भटसद्भटम् ।

विद्रवत्तस्करच्छेदमार्गकीर्णमहाधनम्

॥२२॥

अङ्गारराशिनिपतन्नरनार्युग्ररोदनम् ।

स्फुटच्चटचटाशब्दप्रलुठत्स्फुटकाष्ठकम्

॥२३॥

विपुलालातचक्रौघशतसूर्यनभस्तलम् ।

अङ्गारशिखिराकीर्णसमस्तवसुधातलम्

॥२४॥

दग्धाग्निकाष्ठक्रेकाररणज्जवलनवैणवम् ।

दग्धजन्तुघनाक्रन्दरुदत्सकलसैनिकम्

॥२५॥

पांसुशेषात्तराजश्रीवृद्धतृप्तहुताशनम् ।

सकलग्रसनारम्भसोद्योगाग्निमहाशनम्

॥२६॥

यदृच्छात्कारडात्कारकठिनाग्निरटद्गृहम् ।

अनन्तजन्तुभोज्यान्नवह्निभुक्तेन्धनस्पृहम्

॥२७॥

अथ शुश्राव तत्रासौ गिरो राजा विदूरथः ।

योधानां दग्धदाराणां पश्यतामभिधावताम्

॥२८॥

हा मत्तमरुदूर्ध्वस्थानङ्गार गृहपादपान् ।

रणत्खरखरं नीरजालामातपपन्थिनः

॥२९॥

हा दग्धदाराः प्रालेयशीता देहेषु दन्तिनाम् ।

मग्ना मनस्तु महतामिव विज्ञानसूक्तयः

॥२०॥

हा तात हेतयो लग्नास्तरुणीकबरीतृणे ।

ज्वलन्ति शुष्कपर्णौघा इव वीरानिलेरिताः

॥३१॥

आवर्तननदीदीर्घा वहत्यूर्ध्वतरङ्गिणी ।

पश्येयं धूमयमुना व्योमगङ्गां प्रधावति

॥३२॥

वहदुल्मुककाष्ठोर्ध्वगामिनी धूमनिम्नगा ।

वैमानिकानन्धयति पश्याग्निकणबुद्बुदा

॥३३॥

अस्या माता पिता भ्राता जामाता स्तनपाः सुते ।

अस्मिन्सद्मनि निर्दग्धा दग्धैवासत्समिन्धने

॥३४॥

हा हा हागच्छ ते शीघ्रमेतदङ्गारमन्दिरम् ।

इतः प्रवृत्तं पतितुं सुमेरुः प्रलये यथा

॥३५॥

अहो शरशिलाशक्तिकुन्तप्रासासिहेतयः ।

जालसंध्याभ्रपटलं विशन्ति शलभा इव

॥३६॥

हेतिप्रवाहा ज्वलनं नभस्यन्त्यां विशन्त्यहो ।

वडवानलमुज्वालमर्णःपूरा इवार्णवात्

॥३७॥

धूमायन्ति महाभ्राणि ज्वालाः शिखरिकोटिषु ।

सरसान्यपि शुष्यन्ति हृदयानीव रागिणाम्

॥३८॥

आलानत्वरुषेवैता दन्तिभिर्वृक्षपङ्क्तयः ।

स्फुरत्कटकटारावं पात्यन्ते कृतचीत्कृतैः

॥३९॥

पुष्टषुष्पफलस्कन्धा गतश्रीका गृहद्रुमाः ।

गता निर्दग्धसर्वस्वा गृहस्था इव दीनताम्

॥४३॥

मातापितृविनिर्मुक्ता बालकास्तिमिरावलीम् ।

मग्नन्तोऽङ्गेषुरथ्यासु कुड्यपातेन हा हताः

॥४१॥

वातविद्रावितात्त्रस्यन्कीरण्यो रणमूर्धनि ।

पतदङ्गारकागारभारिणः कटुकूजितम्

॥४२॥

हा कष्टमसिनिर्भिन्ने स्कन्धे सन्नदृढोल्मुके ।

पतितो यन्त्रपाषाणः पुरुष्स्याशनिर्यथा

॥४३॥

गवाश्वमहिषेभोष्ट्रश्वशृगालेडकैरहो ।

घोरै रणमिवारब्धं मार्गरोधकमाकुलैः

॥४४॥

पटैः पटपटाशब्दजलजालालिमालितैः ।

आक्रन्दन्त्यः स्त्रियो यान्ति स्थलपद्माचिता इव

॥४५॥

स्त्रीणां ज्वालालवाः पश्य लिहन्त्यलकवल्लरीः ।

कुर्वन्तोऽशोकपुष्पाभां करभा इव पन्नगीः

॥४६॥

हा हा हरिणशावाक्ष्याः पक्षलक्षणपक्ष्मसु ।

कुमार्गेष्विव विश्रान्तिमेति कार्शानवी शिखा

॥४७॥

दह्यमानो विनिर्याति न कलत्रं विना नरः ।

अहो बत दुरुच्छेदाः प्राणिनां स्नेहवागुराः

॥४८॥

करी रभसनिर्लूनज्वलदङ्गारपादपः ।

प्लुष्टपुष्करकः कोपान्मग्नः पुष्करदं सरः

॥४९॥

धूमोऽम्बुदपदं प्राप्य विलोलान्तस्तडिल्लतः ।

ज्वलदङ्गारनाराचनिकरं परिवर्षति

॥५०॥

देव धूमस्फुरद्वह्निकण आवर्तवृत्तिमान् ।

स्थित आपीडवात्तव्योम्नि रत्नपूर्ण इवार्णवः

॥५१॥

गौरमम्बरमाभाति ज्वालाशिखरतेजसा । ।।

मृत्युनेवोत्सवे दत्तः कुङ्कुमाक्तकरण्डकः

॥५२॥

अहो नु विषमं चेदं वर्तते वृत्तवर्जितम् ।

ध्रियन्ते राजनार्योऽपि वैरिवीरैरुदायुधैः

॥५३॥

लोलस्रग्दामकुसुमैर्मार्गप्राकारकारकैः ।

अर्धनिर्दग्धकबरीकीर्णवक्षस्थलस्तनाः

॥५४॥

आलोलाम्बरसंलक्ष्यनितम्बजघनस्थलाः ।

पतन्माणिक्यवलयवलितावनिमण्डलाः

॥५५॥

छिन्नहारलताजालविकीर्णामलमौक्तिकाः ।

दृष्टादृष्टस्तनश्रेणीपार्श्वोद्यत्कनकप्रभाः

॥१९६॥

कुररीकर्कशाक्रन्दमन्दीकृतरणारवाः ।

धारावाहास्रुतारावभिन्नपार्श्वविचेतनाः

॥५७॥

रक्तकर्दमवाष्पाम्बुक्लिन्नग्रन्धितवाससः ।

भुजमूलार्पितभुजैर्नीयमाना बलान्नृभिः

॥५८॥

क इवास्मिन्परित्राता स्यादित्यादीनवीक्षितैः ।

उत्पलालीव वर्षद्भिः परिरोदितसैनिकाः

॥५९॥

मृणालकोमलाच्छोरुमूलजालैः सुनिर्मलैः ।

स्वच्छाम्बरतलालक्ष्यैराकाशनलिनीनिभाः

॥६०॥

आलोलमाल्यवसनाभरणाङ्गरागा

बाष्पाकुलाततचलालकवल्लरीकाः ।

आनन्दमन्दरनिरन्तरमथ्यमाना-

त्कामार्णवात्समुदिता इव राजलक्ष्म्यः

॥६१॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलो० अग्निदग्धगृहादिवर्णनं नाम त्रिचत्वारिंशः सर्गः ।। ४३ ।।