मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — पूर्वार्धम् — सर्गः ९४

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — पूर्वार्धम् · 94

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

एवं वदति वै कुम्भे चित्तत्यागं मुहुर्मुहुः ।

अन्तर्विचारयन्सौम्यो राजा वचनमब्रवीत्

॥१॥

शिखिध्वज उवाच ।

हृदयाकाशविहगो हृदयद्रुममर्कटः ।

भूयोभूयो निरस्तं हि समभ्येत्येव मे मनः

॥२॥

जानामि चैतदादातुं मत्स्यं जाल इवाकुलम् ।

त्यागमस्य न जानामि चित्तं द्रव्य इवोत्तम

॥३॥

चित्तस्यादौ स्वरूपं मे यथावद्भगवन्वद ।

ततश्चित्तपरित्यागं यथावद्वद मे प्रभो

॥४॥

कुम्भ उवाच ।

वासनैव महाराज स्वरूपं विद्धि चेतसः ।

चित्तशब्दस्तु पर्यायो वासनाया उदाहृतः

॥५॥

त्यागस्तस्यातिसुकरः सुसाध्यः स्पन्दनादपि ।

राज्यादप्यधिकानन्दः कुसुमादपि सुन्दरः

॥६॥

मूर्खस्य तु मनस्त्यागो नूनं दुःसाध्यतां गतः ।

पामरस्येव साम्राज्यं तृणस्येव सुमेरुता

॥७॥

शिखिध्वज उवाच ।

स्वरूपं वेद्मि चित्तस्य वासनामयमाकुलम् ।

त्यागः स मन्ये दुःसाध्यो वज्रनिर्गिलनादपि

॥८॥

संसृत्यामोदपुष्पस्य दुःखदाहानलस्य च ।

जगदब्जमृणालस्य मोहमारुतखस्य च

॥९॥

शरीरयन्त्रवाहस्य दृत्पद्मभ्रमरस्य च ।

अयत्नाच्चेतसस्त्यागो यथा भवति तद्वद

॥१०॥

कुम्भ उवाच ।

सर्वनाशोऽस्य यः साधो चेतसः संसृतिक्षयः ।

स एव चित्तसंत्याग इत्युक्तं दीर्घदर्शिभिः

॥११॥

शिखिध्वज उवाच ।

चित्तत्यागादहं मन्ये चित्तनाशः सुसिद्धये ।

अभावः शतशो व्याधेः कथमस्यानुभूयते

॥१२॥

कुम्भ उवाच ।

अहंबीजश्चित्तद्रुमः सशाखाफलपल्लवः ।

उन्मूलय समूलं तमाकाशहृदयो भव

॥१३॥

शिखिध्वज उवाच ।

चेतसः किं मुने मूलं कोऽकुंरः कोऽस्य संभवः । काःशास्त्राःकेच वा स्कन्धाः कथमुन्मूल्यते च सः ।।

कुम्भ उवाच ।

अहमर्थोदयो योऽयं स चित्तावेदनात्मकः ।

एतच्चित्तद्रुमस्यास्य विद्धि बीजं महामते

॥१५॥

परमात्मपदं क्षेत्रं क्षेत्रं मायामयस्य तत् ।

एतस्मात्प्रथमोद्भिन्नादंकुरोऽनुभवाकृतिः

॥१६॥

निश्चयात्मा निराकारो बुद्धिरित्येव सोच्यते ।

अस्य बुद्ध्यभिधानस्य याङ्कुरस्य प्रपीनता

॥१७॥

संकल्परूपिणी तस्याश्चित्तनाममनोभिधा ।

जीवो मिथ्योपलम्भात्मा शून्यात्मा ह्युपलोपमः

॥१८॥

स्तम्भः कायोऽयमेतस्य स्नाय्वस्थिरसरञ्जितः ।

देशान्तरेऽङ्कुरोद्देशे कालस्पन्दोऽस्य वासना

॥१९॥

शाखायाश्चित्तवृक्षस्य दीर्घा दूरगतास्तताः ।

इन्द्रियाण्यल्पभोगाश्च भावाभावात्मयोनयः

॥२०॥

विटपौघा महान्तोऽस्य शुभाशुभफलाकुलाः ।

ईदृशस्यास्य चित्तस्य दुर्वृक्षस्य प्रतिक्षणम्

॥२१॥

शास्त्राविलवनं कुर्वन्मूलकाषे भरं कुरु ।

शिखिध्वज उवाच ।

चित्तद्रुमस्य शाखादेः कुर्वाणोऽहं विकर्तनम्

॥२२॥

कथं करोमि मूलस्य निःशेषकषणं मुने ।

कुम्भ उवाच ।

वासना विविधाः शाखाः फलस्पन्दादिनान्विताः

॥२३॥

अभाविता भवन्त्यन्तर्लूनाः संविद्वलेन ते ।

असंसक्तमना मौनी शान्तवादविचारणः

॥२४॥

संप्राप्तकारी यः सोऽन्तर्लूनश्चित्तलतो भवेत् ।

चित्तद्रुमलताजालं पौरुषेण विकर्तयन्

॥२५॥

यस्तिष्ठति स मूलस्य योग्यो निकषणे भवेत् ।

गौणं शाखाविलवनं मुख्यं मूलविकर्तनम्

॥२६॥

चित्तवृक्षस्य तेन त्वं मूलकाषपरो भव ।

मुख्यत्वेन महाबुद्धे मूलदाहमलं कुरु

॥२७॥

चित्तकण्टकखण्डस्य भवत्येवमचित्तता ।

शिखिध्वज उवाच ।

अहंभावात्मनश्चित्तद्रुमबीजस्य हे मुने ।

कोऽनलो दहनाख्येऽस्मिन्कर्मण्यर्थकरो भवेत्

॥२८॥

कुम्भ उवाच ।

राजन्स्वात्मविचारोऽयं कोऽहं स्यामिति रूपधृक् ।

चित्तदुर्द्रुमबीजस्य दहने दहनः स्मृतः

॥२९॥

शिखिध्वज उवाच ।

मुने मया स्वया बुद्ध्या बहुशः प्रविचारितम् ।

यावन्नाहं जगन्नोर्वीवनमण्डलमण्डितम्

॥३०॥

नाद्रेस्तटं न विपिनं न पर्णस्पन्दनादि च ।

जडत्वान्न च देहादि न मांसास्थ्यसृगादि च

॥३१॥

कर्मेन्द्रियाण्यपि न च न च बुद्धीन्द्रियाणि च ।

न मनो नापि च मतिर्नाहंकारश्च जाड्यतः

॥३२॥

कटकत्वं यथा हेम्नि तथाहंत्वं चिदात्मनि ।

जडं त्वसद्रूपतया तेन तन्नास्ति हे मुने

॥३३॥

संनिवेशनिवासात्मा सर्वार्थादिः परे पदे ।

विद्यते नान्यदन्यत्वान्नभसीव महाद्रुमः

॥३४॥

जानन्नपीति भगवन्नहंत्वमलमार्जनम् ।

अन्तर्यज्ज्ञं न जानामि तेन तप्ये चिरं मुने

॥३५॥

कुम्भ उवाच ।

एतावन्मात्रकं वृन्दं यदि न त्वं महीपते ।

जडत्वात्तन्महाबुद्धे योऽसि तद्वद मेऽनघ

॥३६॥

शिखिध्वज उवाच ।

चिन्मात्रमहमच्छात्मवेदनं विदुषां वर ।

यत्र भावाः स्वदन्ते ते निर्णीयन्ते च येन वा

॥३७॥

एवंरूपस्य मे लग्नं नूनं मलमकारणम् ।

सकारणं वाहमिति यत्पदं च न वेद्म्यहम्

॥३८॥

असदेतदनात्मीयं प्रमार्ष्टुं मलमात्मनः ।

मुने यदा न शक्नोमि तेन तप्ये सुदारुणम्

॥३९॥

कुम्भ उवाच ।

ब्रूहि किं तन्महाबाहो लग्नं तव मलं महत् ।

स्थितोऽसि येन संसारी सता वाप्यथवाऽसता

॥४०॥

शिखिध्वज उवाच ।

चित्तद्रुमस्य यद्बीजमहंभावश्च मे मलम् ।

तच्च त्यक्तुं न जानामि त्यक्तं त्यक्तमुपैति माम्

॥४१॥

कुम्भ उवाच ।

कारणाज्जायते कार्यं यत्तत्सर्वत्र संभवेत् ।

अन्यत्त्वसद्द्विचन्द्राभं दृष्टमेतन्न विद्यते

॥४२॥

कारणाज्जायते कार्यमहंभावाद्भवाङ्कुरः ।

इति कारणमन्विष्य कथयस्व ममाधुना

॥४३॥

शिखिध्वज उवाच ।

मुनेऽहमिति दोषस्य वेदनं वेद्मि कारणम् ।

तद्यथोपशमं याति तन्मे वद मुनीश्वर

॥४४॥

चितश्चेत्योन्मुखत्वेन दुःखायायमहंस्थितः ।

चेत्योपशमनं ब्रूहि मुने तदुपशान्तये

॥४५॥

कुम्भ उवाच ।

कारणं कारणज्ञोऽसि वेदनस्य वदाशु मे ।

ततस्त्वां बोधयिष्यामि कारणाकारणक्रमम्

॥४६॥

वेद्यवेदनरूपस्य चेत्यसंचेतनस्य मे ।

अकारणं कारणतां यद्यातं तव तद्वद

॥४७॥

शिखिध्वज उवाच ।

चेत्यचेतनरूपस्य वेद्यसंवेदनाकृतेः ।

इयं पदार्थसत्तेह देहादि कारणं मुने

॥४८॥

शरीरादितयोदेति वेदनं वस्तुसत्तया ।

असत्याभासया स्पन्दो यथा पवनलेखया

॥४९॥

असत्ता वस्तुसत्ताया नावगच्छाम्यहं यथा ।

अहंत्ववेदनं चित्तबीजं समुपशाम्यति

॥५०॥

कुम्भ उवाच ।

विद्यते यदि देहादिवस्तुसत्ता तदस्ति ते ।

अभावाद्देहसत्तादेः किंनिष्ठं तव वेदनम्

॥५१॥

शिखिध्वज उवाच ।

यस्योपलभ्यते किंचित्स्वरूपं कलनात्मकम् ।

असद्रूपं कथं तत्स्यात्प्रकाशः स्यात्कथं तमः

॥५२॥

हस्तपादादिसंयुक्तः क्रियाफलविलासवान् ।

सदानुभूयमानोऽयं देहो नास्ति कथं मुने

॥५३॥

कुम्भ उवाच ।

कारणं यस्य कार्यस्य भूमिपाल न विद्यते ।

विद्यते नेह तत्कार्यं तत्संवित्तिस्तु विभ्रमः

॥५४॥

कारणेन विना कार्यं शरीरं न कदाचन ।

विद्यते यस्य नो बीजं तद्द्रव्यं क्वेव जायते

॥५५॥

अकारणं तु यत्कार्यं सदिवाग्रेऽनुभूयते ।

तद्द्रष्टुर्विभ्रमाद्विद्धि मृगतृष्णाजलोपमम्

॥५६॥

अविद्यमानमेव त्वं विद्धि मिथ्याभ्रमोदितम् ।

नातियत्नवतोऽप्येतन्मृगतृष्णाम्बु लभ्यते

॥५७॥

शिखिध्वज उवाच ।

असतो द्वीन्दुबिम्बादेर्न युक्तं कारणेक्षणम् ।

वन्ध्यातनयसर्वाङ्गमण्डनं कस्य राजते

॥५८॥

कुम्भ उवाच ।

कारणेन विना कार्यं शरीराद्यस्थिपञ्जरम् ।

अविद्यमानमेवेदं विद्ध्यसंभवतो नृप

॥५९॥

शिखिध्वज उवाच ।

हस्तपादादियुक्तस्य शरीरस्य मुनीश्वर ।

नित्यमालक्ष्यमाणस्य पिता कस्मान्न कारणम्

॥६०॥

कुम्भ उवाच ।

कारणाभावतो राजन्पिता नाम न विद्यते ।

असतो यत्तु संजातमसदेव तदुच्यते

॥६१॥

पदार्थानां च कार्याणां कारणं बीजमुच्यते ।

संभवत्यङ्ग जगति न बीजेन विनाङ्कुरः

॥६२॥

तस्मान्न कारणं यस्य कार्यस्येहोपपद्यते ।

बीजाभावे हि तन्नास्ति तत्संवित्तिस्तु विभ्रमः

॥६३॥

अवश्यं खलु यन्नास्ति निर्बीजं तन्मतिभ्रमः ।

द्वीन्दुत्वमरुभूम्यम्बुवन्ध्यापुत्रदशासमम्

॥६४॥

शिखिध्वज उवाच ।

पितामहानां पुत्राणां पितृणां च जगत्त्रये ।

आद्यः पितामहः कस्मात्पूर्वोत्पत्तौ न कारणम्

॥६५॥

कुम्भ उवाच ।

आद्यः पितामहो यः स्यात्सोऽपि नास्त्येव भूपते ।

कारणाभावतो नित्यं यदा भावो न कस्यचित्

॥६२॥

कारणस्य स्वबीजस्य नित्याभावात्पितामहः ।

अन्यः स दृश्यमानोपि भ्रमादन्यो न विद्यते

॥६७॥

मृगतृष्णाम्बुवद्भ्रान्तिरूप एवावभासते ।

पितामहार्थकारित्वमपि तस्य भ्रमात्मकम्

॥६८॥

पितामहोदरे तस्य मिथ्याप्रत्ययतः स्थितिः ।

घना तव निवृत्तैव मार्जयिष्याम्यथेतरत्

॥६९॥

तस्माच्चिदात्मकतयात्मनि चित्ततोऽयं

नित्यं स्वयं कचति भूमिप देवदेवः ।

तेनैव पद्मज इति स्वयमात्मनात्मा

प्रोक्तः स्वरूप इति शान्तमिदं समस्तम्

॥७०॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू० शिखिध्वजावबोधनं नाम चतुर्नवतितमः सर्गः ।।९४।।