मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — पूर्वार्धम् — सर्गः १०४

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — पूर्वार्धम् · 104

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

इत्यध्यात्मविचित्राभिः कथाभिस्तौ परस्परम् ।

आसाते वेद्यवेत्तारौ मुहूर्तत्रितयं वने

॥१॥

तत उत्थाय कस्मिंश्चित्सानौ सरससारसे ।

सरोवरे वने चैव विहृतौ नन्दने वने

॥२॥

तेनाचारेण ताभिश्च कथाभिस्तौ वने ततः ।

नीतवन्तौ दिनान्यष्टौ तासु काननवीथिषु

॥३॥

अथ कुम्भ उवाचान्यद्वनं यावो गिराविति ।

तदोमिति नृपो मत्वा तावुभौ प्रविचेरतुः

॥४॥

वनान्यनेकरूपाणि जङ्गलानि तटानि च ।

सरांसि गुल्मजालानि श्रृङ्गाणि गहनानि च

॥५॥

नदीर्देशांस्तथा ग्रामान्नगराणि वनानि च ।

मञ्जुघोषान्गिरीन्कुञ्जांस्तीर्थान्यायतनानि च

॥६॥

सममेव समस्नेहौ समवेतौ स्थितावुभौ ।

समसत्त्वौ समोत्साहौ शंसन्तौ तस्थतुः सदा

॥७॥

आनर्चतुः पितृन्देवान्बुभुजाते च राघव ।

समं तप्ते च सिक्ते च समबुद्धी बभूवतुः

॥८॥

तमालवनखण्डेषु मन्दारगहनेषु च ।

दंपती स्निग्धहृदयौ सुहृदौ तौ विरेजतुः

॥९॥

इदं गेहमिदं नेति विकल्पकलना मनः ।

न जहार तयो राम वात्येव विबुधाचलम्

॥१०॥

विचेरतुस्तौ सुहृदौ क्वचिद्धूलिविधूसरौ ।

क्वचिच्चन्दनदिग्धाङ्गौ क्वचिद्भस्मानुरञ्जितौ

॥११॥

क्वचिद्दिव्याम्बरधरौ चित्राम्बरधरौ क्वचित् ।

क्वचित्पल्लवसंछन्नौ क्वचित्कुसुममण्डितौ

॥१२॥

दिनैः कतिपयैरेव समचित्ततया तया ।

सत्त्वोदात्ततया चैव राजा कुम्भवदाबभौ

॥१३॥

अथ तं सुरगर्भाभं चूडाला सा शिखिध्वजम् ।

दृष्ट्वा शोभामुपगतं चिन्तयामास मानिनी

॥१४॥

अयं पतिरदीनात्मा रम्याश्च वनभूमयः ।

इयं स्थितिरनायासा या न कामेन वञ्चिता

॥१५॥

जीवन्मुक्तधियां भोगं यथाप्राप्तमतिष्ठताम् ।

एकाग्रहात्मिका तुच्छा मूढतैवोदिता भवेत्

॥१६॥

निजः पतिरुदारात्मा निराधिश्च नवं वयः ।

गृहाणि पुष्पजालानि सा हता या न कामिनी

॥१७॥

वनपुष्पलतागेहे स्वायत्ते भर्तरि प्रिया ।

रमते या न निर्दुःखा सा हतैव दुरङ्गना

॥१८॥

रम्यं विवाहितं कान्तं पतिमासाद्य निर्जने ।

स्त्री सती या न रमते तां धिगस्तु दुरङ्गनाम्

॥१९॥

समुज्झता यथाप्राप्तमपि वेद्यविदा सदा ।

अनिन्द्यं समुदारार्थं किं तज्ज्ञेन कृतं भवेत्

॥२०॥

तत्किंचिद्रचयाम्याशु प्रपञ्चं प्रेक्षया वने ।

येनायं भूपतिर्भर्ता रमते मयि मानदः

॥२१॥

इति संचिन्त्य चूडाला कुम्भवेषधरा पतिम् ।

प्राह काननगुल्मस्था कोकिलं कोकिला यथा

॥२२॥

कुम्भ उवाच ।

चैत्रमासस्य शुक्लोऽयं प्रतिपद्दिवसो महान् ।

अद्यास्थानं महारम्भं स्वर्गे भवति वै हरेः

॥२३॥

संनिधानं मया तत्र कर्तव्यं पितुरग्रतः ।

यथास्थिता हि नियतिर्न संत्याज्या कदाचन

॥२४॥

प्रतिपालयितव्यं मे त्वयेह च वनावनौ ।

क्रीडता नवपुष्पायां समुद्वेगमगच्छता

॥२५॥

आगच्छामि दिनान्तेऽद्य निर्विकल्पं नभस्तलात् ।

सर्गादतितरामेव त्वत्सङ्गो मम तुष्टये

॥२६॥

इत्युक्त्वा मञ्जरीं कुम्भो ददौ मित्राय कौसुमीम् ।

प्रीतये स्वामिव प्रीतिं कान्तां नन्दनवृक्षजाम्

॥२७॥

आगन्तव्यं त्वया शीघ्रमेवं वदति भूपतौ ।

षुप्लुवेऽथ वनाद्वयोम शरन्मुखपयोदवत्

॥२८॥

पुष्पाञ्जलिं जहौ व्योम व्रजन्कुसुमदामजम् ।

विसारि वनवातेन हिमं हैम इवाम्बुदः

॥२९॥

शिखिध्वजो व्रजन्तं तं ददर्शाऽऽदर्शनं तदा ।

उन्निद्रोऽब्दं यथा बर्ही धीमत्प्रीतिर्हि दुस्त्यजा

॥३०॥

शिखिध्वजदृशामन्ते व्योम्नि कुम्भवपुर्जहौ ।

शान्तावर्तेव वारिश्रीर्मुग्धा स्वं रूपमाययौ

॥३१॥

प्राप मञ्जरिताकारकल्पवृक्षोपमं पुरम् ।

स्फुरत्पताकमात्मीयं स्वर्गरम्यं दिवः पथा

॥३२॥

अन्तःपुरमदृश्यैव विवेश ललनाकुलम् ।

मधुमासमहालक्ष्मीर्लसल्लतमिव द्रुमम्

॥३३॥

राजकार्याणि सर्वाणि तत्र संपाद्य सत्वरम् ।

शिखिध्वजस्य पुरतः पपात फलपुष्पवत्

॥३४॥

तत्र कालद्युति मुखं चकाराखिन्नमानसा ।

इन्दुं सनीहारमिव श्यामा खिन्नमिवाम्बुजम्

॥३५॥

तं दृष्ट्वा तादृशाकारं समुत्तस्थौ शिखिध्वजः ।

बभूव खिन्नचेताश्च समुवाचेदमादृतः

॥३६॥

देवपुत्र नमस्तेऽस्तु विमना इव लक्ष्यसे ।

कुम्भस्त्वं त्यज संरम्भमिदमासनमास्यताम्

॥३७॥

सन्तो विदितवेद्या ये ते हि हर्षविषादजाम् ।

नाश्रयन्ति स्थितिं स्वस्थाः पद्मा इव जलार्द्रताम्

॥३८॥

श्रीवसिष्ठ उवाच ।

तेन क्ष्मापतिनेत्युक्ते कुम्भ आहासने विशन् ।

गिरा विषण्णया शीर्णवंशस्वनसमानया

॥३९॥

यावद्देहमवस्थासु समचित्ततयैव ये ।

कर्मेन्द्रियैर्न तिष्ठन्ति न ते तत्त्वविदः शठाः

॥४०॥

ये ह्यतत्त्वविदो मूढा राजन्बालतयैव ते ।

अवस्थाभ्यः पलायन्ते गृहीताभ्यः स्वभावतः

॥४१॥

यावत्तिलं यथा तैलं यावद्देहं तथा दशा ।

यो न देहदशामेति स च्छिनत्त्यसिनाम्बरम्

॥४२॥

एष देहदशादुःखपरित्यागो ह्यनुत्तमः ।

यत्साम्यं चेतसो योगान्न तु कर्मेन्द्रियस्थितेः

॥४३॥

यावद्देहं यथाचारं दशास्वङ्ग विजानता ।

कर्मेन्द्रियैर्हि स्थातव्यं न तु बुद्धीन्द्रियैः क्वचित्

॥४४॥

परमेष्ठिप्रभृतयः सर्व एवोदिताशयाः ।

देहावस्थासु तिष्ठन्ति नियतेरेष निश्चयः

॥४५॥

अज्ञतत्त्वज्ञभूतानि दृश्यजातमिदं हि यत् ।

तत्सर्वमेव नियतिं धावत्यम्बु यथाम्बुधिम्

॥४६॥

तज्ज्ञा बुद्ध्यादिसाम्येन पाण्यादिचलनेन च ।

नियतिं यापयन्तीमां यावद्देहमखण्डिताम्

॥४७॥

अज्ञास्तु सर्वक्षोभेण सुखदुःखदशाहताः ।

नियतिं यापयन्त्यङ्ग देहलक्षैर्विखण्डिताम्

॥४८॥

इत्थं सुखेषु ननु दुःखदशासु चेत्थं

स्थातव्यमित्यधिगतं यदिहाङ्ग जीवैः ।

अज्ञज्ञभूतनिवहस्फुरितस्तदेवं

दुर्लंघ्य एष नियतो नियतेर्विलासः

॥४९॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निवा० पू० चू० जीवन्मुक्तव्यवहारप्रतिपादनं नाम चतुरधिकशततमः सर्गः ।।१०४।।