मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — पूर्वार्धम् — सर्गः ५१

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — पूर्वार्धम् · 51

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

न पुनर्भवतः पूर्वं संपन्नाश्चक्षुरादयः ।

यथा कमलजस्यैतत्सर्वमेव त्वया श्रुतम्

॥१॥

ब्रह्मपुर्यष्टकस्यादावर्थसंविद्यथोदिता ।

पुर्यष्टकस्य सर्वस्य तथैवोदेति सर्वदा

॥२॥

विद्धि पुर्यष्टकं जीवो यो गर्भस्थेन्द्रियोदयः ।

यद्यथा भावयत्याशु तत्तथा परिपश्यति

॥३॥

इन्द्रियाणीन्द्रियार्थाख्यं विद्धि संवेदनं स्वकम् ।

संपन्नं च यथा तत्ते प्रोक्तमाद्यमनःस्थितौ

॥४॥

शुद्धा संवित्संभवन्ती संवेदनमनिन्दितम् ।

ततोऽहंवेदनानन्तजीवपुर्यष्टकान्विता

॥५॥

न त्वेकत्वादनन्तत्वादवेद्यत्वादनामये ।

अभावत्वादनेकत्वादशून्यत्वात्परा स्थिता

॥६॥

चेत्यादिबुद्ध्या तत्किंचिन्न मनस्तां च गच्छति ।

न च जीवत्वमायाति न च पुर्यष्टकात्मिका

॥७॥

न विद्यादिविलासोऽस्ति सोस्ति नास्तीव यः सदा ।

परमात्मेति कथितो मनःषष्ठेन्द्रियातिगः

॥८॥

तस्मात्संपद्यते जीवश्चिन्मूर्तिर्मननात्मकः ।

भ्रमः केवलमित्याद्य उपदेशाय गीयते

॥९॥

यतः कुतश्चित्संपन्ने त्वविद्यामय आमये ।

उपदेश्योपदेशेन प्रविलीने विचारणात्

॥१०॥

प्रशान्तसकलाकारं ज्ञानं तत्रावशिष्यते ।

यत्राकाशमपि स्थूलमणाविव महाचलः

॥११॥

यत्रोद्यदाचारमपि सदप्यसदिव स्थितम् ।

जगज्जान्विषयांस्त्यक्त्वा काये त्वं तिष्ठ निर्मले

॥१२॥

असन्मयमविद्याया रूपमेव तदेव हि ।

यद्वीक्षिता सती नूनं नश्यत्येव न दृश्यते

॥१३॥

आलोकितं नाम कथमवस्तु किल लभ्यते ।

प्रयत्नेनापि संप्राप्तं मृगतृष्णाम्बुकैरिव

॥१४॥

असदेव सदेवासदज्ञानादस्य सत्यता ।

ज्ञानाद्यथास्थितं वस्तु दृश्यते नश्यति भ्रमः

॥१५॥

अविद्याया विचारोऽयं जीवपुर्यष्टकादिका ।

अप्यत्यन्तमसत्यायाः कल्पना कल्पितात्मनः

॥१६॥

तस्यास्त उपदेशाय सेयं जीवादिकल्पना ।

कृता शास्त्रैः प्रबोधाय तां त्वमेकमनाः श्रृणु

॥१७॥

जीवत्वमिव संप्राप्ता पुर्यष्टकपदस्थिता ।

कला कलङ्ककलिता चितिराबोधनोन्मुखी

॥१८॥

यद्यथा भावयत्याशु तत्तथानुभवत्यलम् ।

सत्यो भवत्वसत्यो वा बालेन निशि यक्षकः

॥१९॥

पञ्चतन्मात्रकलनां संभावयति सत्तया ।

तत्रात्मनि तथा रन्ध्रान्प्रपश्यति तथोदितान्

॥२०॥

एभ्य एव समुत्पन्नं बहिःस्थं भूतपञ्चकम् ।

पश्यत्यनन्यदन्याभं शाखाशतमिवाङकुरः

॥२१॥

इदमन्तरिदं बाह्यमिति निश्चयवांस्ततः ।

जीवो भावं यथादत्ते तत्तथा द्रढयत्यथ

॥२२॥

रश्मिजालमिवेन्दोर्यदात्मनः प्रतिभासनम् ।

बाह्यस्पर्शतया तेन तदेवाशूररीकृतम्

॥२३॥

मरिचस्येव यत्तैक्ष्ण्यं शून्यत्वमिव खस्य यत् ।

आत्मनो वेदनं यच्च तदेवान्यदिव स्थितम्

॥२४॥

अत्रैव निश्चयं बद्ध्वा नियमः सुदृढीकृतः ।

अनेनेत्थमनेनेत्थं भाव्यमित्यवखण्डितम्

॥२५॥

स्वभावेतरनामासौ स्वसंकल्पमयात्मकः ।

कश्चित्कदाचिद्भवति स्वभावेनैव नान्यथा

॥२६॥

आत्मनैवेदमखिलं संपन्नं द्वैतमद्वयम् ।

खण्डो मधुरसेनेव मृदेव च महाघटः

॥२७॥

संनिवेशविकारादिदेशकालादिसंभवात् ।

संभवत्यत्र नत्वीशे देशकालाद्यसंभवात्

॥२८॥

इतः पुष्पमितः पत्रमहमित्युदितो यथा ।

खण्डे स्वात्मनि नः सत्तारसोऽद्वित्वे द्वितां वहन्

॥२९॥

इतः पट इतः कुड्यमहमित्यादितस्तथा ।

सर्वात्मनात्मनि ब्रह्म विद्धि त्वं द्वित्वमाहरत्

॥३०॥

अद्याङ्कुरोऽहमद्यार्करुगहं त्वद्य वारिदः ।

यथेति तिष्ठत्यम्भोदस्तथात्मा सदसद्वपुः

॥३१॥

इति भाव्यमनेनेदमित्थं सर्वेश्वरे ततम् ।

क्रमं खण्डयितुं लोके कस्य नामास्ति शक्तता

॥३२॥

आदर्शस्वच्छ आकाशे नैव स्वः प्रतिबिम्बति ।

व्यतिरेकासंभवतः कचत्येव हि केवलम्

॥३३॥

ब्रह्मणि त्वात्मनात्मैव स्थितः कचति बिम्बति ।

द्वैतीभवत्यदेहोऽपि चिन्मयत्वात्स्वभावतः

॥३४॥

यद्यथैवात्मकचनं वेत्ति तं भवतात्मना ।

असत्यमपि तन्नेह व्यभिचारी कदाचन

॥३५॥

हेमत्वकटकत्वे द्वे सत्यासत्यस्वरूपिणी ।

हेम्नि भाण्डगते यद्वच्चित्त्वाचित्त्वे तथात्मनि

॥३६॥

सर्वगत्वाच्चितेश्चित्त्वं नित्यं मनसि विद्यते ।

हेमत्वं कटकस्येव जडभावः स्थितोऽन्यदा

॥३७॥

चित्त्वजाड्यात्मकं चित्तं दृष्टं भावयति स्वयम् ।

यथा यदैव यद्भावं तथा भवति तत्तदा

॥३८॥

काले काले चिता जीवस्त्वन्योन्यो भवति स्वयम् ।

भाविताकारवानन्तर्वासनाकलिकोदयात्

॥३९॥

स्वप्ने दृष्टो यथा ग्रामो याति सत्तान्यतेक्षणात् ।

देहाद्देहं तथा याति देहोऽयं प्रतिभात्मकः

॥४०॥

प्रतिभासो यथा स्वप्ने नरः कुड्यं पटो भवेत् ।

भवत्यसत्यमेवेदं देहान्तरमिदं स्वतः

॥४१॥

असत्यमेव म्रियते त्वसत्यं जायते पुनः ।

जीवः स्वप्रतिभासेन स्वप्नवत्स्वान्यरूपवत्

॥४२॥

कालेनैतादृशं रूपमिदं नान्यत्वमेति वै ।

प्रकृतं निश्चयारूढं भ्रमन्त्येते भवः स्वतः

॥४३॥

वस्तु दृष्टमदृष्टं च स्वप्ने समनुभूयते ।

जीवस्वप्ने जगद्रूपं विद्धि वेद्यविदां वर

॥४४॥

अजाग्रत्दृष्टिदृष्टो यः स्वाभिधानादिनेरितः ।

न स्वप्नो विद्यते तस्मादच्छात्मा चितिमात्रकम्

॥४५॥

अद्यापूर्वाभिधं स्वप्ने यथा पश्यति नान्यथा ।

अग्रदृष्टं तथैवार्थं चेतनं चित्प्रपश्यति

॥४६॥

प्राक्तनी वासनाद्यापि पौरुषेणावजीयते ।

ह्यःकुकर्माद्य यत्नेन प्रयाति हि सुकर्मताम्

॥४७॥

मोक्षादृते न शाम्यन्ति जीवतां चक्षुरादयः ।

उन्मज्जन्ति निमज्जन्ति केवलं देशकालतः

॥४८॥

चितः स्वकलनात्तस्य देहोग्र इव तिष्ठति ।

पञ्चात्माभावितोऽसत्यो महायक्षः शिशोरिव

॥४९॥

मनोबुद्धिरहंकारस्तथा तन्मात्रपञ्चकम् ।

इति पुर्यष्टकं प्रोक्तं देहोऽसावातिवाहिकः

॥५०॥

अमूर्त एव चित्तात्मा खत्वमस्यातिपीनता ।

वाततास्य महागुल्मो देहतास्य सुमेरुता

॥५१॥

विरजस्त्वक्रमेणैव निरवस्थस्तु मुक्तिभाक् ।

सुषुप्ततैकावस्थास्य जडाः क्रोडीकृता यया

॥५२॥

स्वप्ननाम्नी तथावस्था देहप्रत्ययशालिनी ।

आमोक्षं भ्रमतीहायमिति स्थावरजंगमैः

॥५३॥

कदाचिद्धि सुषुप्तस्थः कदाचित्स्वप्नवत्स्थितः ।

आतिवाहिकदेहोऽयं सर्वस्यैवावतिष्ठते

॥५४॥

यदा सुषुप्तभावस्थो भाविदुःस्वप्नवेधितः ।

तदा कालानलसमस्तिष्ठत्यनुदिताकृतिः

॥५५॥

स्थावराद्यास्ववस्थासु कल्पवृक्षदशासु च ।

भवत्येव सुषुप्तस्थो घनमोहशिलाघनः

॥५६॥

सुषुप्ततास्य जडता स्वप्नोत्थेयं हि संसृतिः ।

यः प्रबोधोऽस्य सा मुक्तिस्तज्जाग्रद्या तु तुर्यता

॥५७॥

जीवप्रबोधान्मुक्तिर्हि प्रबोधात्परमात्मताम् ।

सोऽभ्येति क्षालितमलं ताम्रं कनकतामिव

॥५८॥

जीवप्रबोधान्मुक्तिर्या सा चेह द्विविधोच्यते ।

एका जीवन्मुक्ततेति द्वितीया देहमुक्तता

॥५९॥

जीवन्मुक्तिर्हि तुर्यत्वं तुर्यातीतं पदं ततः ।

बोधो जीवः प्रबोधोऽयं स च बुद्धिप्रयत्नतः

॥६०॥

ज्ञातप्रमाणो जीवोन्तर्यो जानातीह तन्मयः ।

पश्यतीमं भयं चैव सुदीर्घस्वप्नविभ्रमम्

॥६१॥

मिथ्योदितः स्वहृदये स्वस्थ एव शिलीकृते ।

जीवानामन्तरे त्वन्यन्न किंचिच्चित्कलां विना

॥६२॥

तामेवान्यतया पश्यन्मुधैव परिशोचति ।

जीवाणोरन्तरे त्वन्यन्न किंचित्परमादृते

॥६३॥

यत्र तत्र जगद्दृष्टमहो मायाविजृम्भितम् ।

स्थाल्यन्तः कथदम्बूनां यथा नाना भ्रमोदयः

॥६४॥

जीवाणूनां तथैवान्तर्मिथ्यासंसरणोदयः ।

बन्धोस्य वासनाबन्धो मोक्षः स्याद्वासनालयः

॥६५॥

वासनान्तोऽस्य सौषुप्ती स्वप्ने विस्फुरति स्थितिः ।

घनवासनमोहोऽयं जीवः स्थावरतादिभाक्

॥६६॥

मध्यस्थवासनस्तिर्यक्पुरुषस्तनुवासनः ।

यदान्तर्जीवितेनान्तो बहिर्जाता घटादयः

॥६७॥

जीवैक्यादुभयोः सत्ता ग्राह्यग्राहकयोस्तदा ।

आत्मानात्मसमालीढो बहिरन्तर्यदा चिता

॥६८॥

तदा ग्राह्यग्रहणधीर्मृगतृष्णेव सोदया ।

नेह संत्यज्यते किंचिन्नेह किंचिन्न गृह्यते

॥६९॥

बाह्यान्तरकलाकारश्चिदात्मैकः प्रकाशते ।

त्रिजगच्चिच्चमत्कारस्त्वलं भेदविकल्पनैः ।

शोभिताः स्मश्चिति चिरात्सबाह्यान्तर्न विद्यते

॥७०॥

अब्धिर्यथा जलमपास्तसमस्तभेदः

खादच्छमेव सकलं द्रवमेकशुद्धम् ।

सर्वं तथेदमपहस्तितभेदजात-

माद्यं परं पदमनामयमेव बुद्धम्

॥७१॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देव० मोक्षोपायेषु निर्वाणप्रकरणे पू० इन्द्रियार्थोपलम्भविचारो नामैकपञ्चाशः सर्गः ।।५१ ।।