मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः १४३

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 143

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

मुनिरुवाच ।

सर्वेषामेव धर्माणां कर्मणां शर्मणामपि ।

पण्डितः पुण्डरीकाणां मार्तण्ड इव मण्डनम्

॥१॥

आत्मज्ञानविदो यान्ति यां गतिं गतिकोविदाः ।

पण्डितास्तत्र शक्रश्रीर्जरत्तृणलवायते

॥२॥

पाताले भूतले स्वर्गे सुखमैश्वर्यमेव वा ।

न तत्पश्यामि यन्नाम पाण्डित्यादतिरिच्यते

॥३॥

पण्डितस्य यथाभूता वस्तुदृष्टिः प्रसीदति ।

दृगिवेन्दौ निरम्भोदे सकलामलमण्डले

॥४॥

इदं दृश्यमविद्यात्म ब्रह्म संपद्यते क्षणात् ।

बुधस्य बोधात्स्रग्दाम सर्पत्वमिव शाम्यति

॥५॥

यत्स्थितं ब्रह्मणि ब्रह्म कृतास्तेनैव सत्यता ।

स्वभावैकात्मिकाः संज्ञा देहसर्गक्षयादिकाः

॥६॥

सर्गो विद्यत एवायं न यत्र किल किंचन ।

तस्य धर्माणि कर्माणि न चैवाक्षरमालिका

॥७॥

पृथ्व्यादि संभवति चेत्तत्सकारणमस्तु तत् ।

तदेव यत्र नास्त्येव तत्र किं तस्य कारणम्

॥८॥

ब्रह्मणः प्रतिभातं यत्तदिदं जगदुच्यते ।

तेनैव कुत एतानि पृथ्व्यादीनि क्व कारणम्

॥९॥

स्वप्नद्रष्टुर्दृश्यनृणामस्ति काल्पनिकं यथा ।

न वास्तवं पूर्वकामं जाग्रत्स्वप्ने तथा नृणाम्

॥१०॥

यथा प्राक्कर्म पुंस्त्वे च स्वप्ने पुंसां न विद्यते ।

इह जाग्रत्स्वप्ननृणां भातानामपि नो तथा

॥११॥

जीवः सर्वेषु सर्गेषु स्वप्नार्थान्निखिलान्मिथः ।

प्राक्कर्मसत्वं मिथ्यात्म यथावासनमेषु च

॥१२॥

सर्गादावथ देहान्ते भान्ति स्वप्नार्थवन्मिथः ।

यथासंवेदनं जीवाः सन्तोऽसन्तश्च तेन ते

॥१३॥

यथासंवेदनं सर्वे भान्ति भावयतस्ततः ।

ते सन्त्यात्मन्यपि स्वप्ने जाग्रतीवार्थदा मिथः

॥१४॥

संकल्पसंविदग्रस्थवस्तुनिष्ठतयाऽस्फुटम् ।

फलं चाप्नोति ते स्वप्ने लोकनिष्ठतयाऽस्फुटः

॥१५॥

शुद्धा संवित्स्वभावस्था यत्स्वयं भाति भास्वरा ।

तस्या भानस्य तस्यास्य जाग्रत्स्वप्नाभिधाःकृताः

॥१६॥

सर्गादावथ देहान्ते भातं यद्वेदनं यथा ।

तत्तथाऽऽमोक्षमेवास्ते तदिदं सर्ग उच्यते

॥१७॥

जाग्रत्स्वप्नार्थसार्थस्य संविदश्च न भिन्नता ।

अस्त्यप्रतिघरूपायाः प्रकाशालोकयोरिव

॥१८॥

अग्न्यौष्ण्ययोरिव तथा वातस्पन्दनयोरिव ।

द्रवाम्भसोरिवाऽऽवीचि वा शैत्यानिलयोरिव

॥१९॥

सर्वमप्रतिघं शान्तं जगज्जातमसन्मयम् ।

इत्थं सन्मयमेवास्ति नास्त्यर्थेन च संयुतम्

॥२०॥

ब्रह्म प्रोद्भूय मृत्वा च दृश्यानुभवरूपि च ।

चिन्मात्रमजरं शान्तमेकमेवामलं स्थितम्

॥२१॥

कार्यकारणतार्थानां या यथा हृदि कल्पिता ।

ब्रह्मणा पुरुषेणेव नगर्यन्तस्तथैव सा

॥२२॥

ब्रह्मणो हृदि सर्गोऽयं हृदि ते स्वप्नपूर्यथा ।

कार्यकारणता तत्र तथास्तेऽभिहिता यथा

॥२३॥

संविद्धनोदरे सर्गे कार्यकारणता स्थिता ।

तथा यथोहिता तेन त्वया वा कल्पनापुरम्

॥२४॥

चिता संकल्परूपिण्या सर्गे संकल्पपत्तने ।

त्वयैव स्थापिता संस्था कार्यकारणरूपिणी

॥२५॥

आकाश एव कचनं यच्चित्ते स्वात्मरूपिणी ।

नियतं संनिवेशत्वात्तदन्तः सर्ग उच्यते

॥२६॥

या संविद्रव्यवस्थास्ते हृदि संकल्पपत्तने ।

सैषा स्वभावसंसिद्धिः कार्यकारणतार्थजा

॥२७॥

प्रथमं यद्यथा भाति चित्त्वमस्ति तथेह तत् ।

तस्यैव नियतिः कालो देशादीत्यभिधा कृता

॥२८॥

या नामाशु यथा भाति चेतनाकाशशून्यता ।

तया तथा वस्तुतया कार्यकारणताश्रिता

॥२९॥

चिच्चमत्कारमात्रेऽस्मिन्सर्गाभे भावरूपिणि ।

पूर्वं भावाः प्रवर्तन्ते पश्चात्सर्गाभिधा विदः

॥३०॥

शून्यतास्त्रिजगद्रूपास्तथा चिद्व्योमनि स्थिताः ।

अनन्याः पवने सौम्ये स्पन्दसत्ता यथा निजाः

॥३१॥

व्योम्नि सौषिर्यनैबिड्यं यथा नीलमिति स्थितम् ।

चिति चेतननैविड्यं तथा सर्ग उपस्थितम्

॥३२॥

आभात एव भातेऽस्मिन्कृच्छ्रात्सर्गे विसर्गता ।

बुध्यते रज्जुभुजगे रज्जुरूपं यथा पुनः

॥३३॥

मृतः स स्वप्नवत्सर्वः संपश्यति पृथग्जगत् ।

तच्चान्यदिदमन्यच्च नित्याप्रतिघमम्बरम्

॥३४॥

व्याध उवाच ।

परतः सुखदुःखार्थं देहः संपद्यते कथम् ।

किमस्य हेतुः के वास्य हेतवः सहकारिणः

॥३५॥

कुर्वन्ति धर्माधर्माश्चेत्तेन प्रतिघरूपिणा ।

तदस्याप्रतिघं रूपं कुर्वन्तीत्यसमञ्जसम्

॥३६॥

मुनिरुवाच ।

धर्माधर्मौ वासना च कर्मात्मा जीव इत्यपि ।

पर्यायशब्दभारोऽत्र कल्प्यते न तु वास्तवः

॥३७॥

चित्त्वात्कल्पितचित्त्वेन स्वयं चिन्नभसात्मनि ।

कृतानि नामान्येतानि कश्चिदस्तीति चेतसा

॥३८॥

संविदात्मा स्वयं चित्त्वाद्देहं वेत्ति खमेव खे ।

मृत्वा सन्तं सन्तमिव संकल्पस्वप्नयोरिव

॥३९॥

स्वयं स्वप्न इवाभाति मृतस्य परलोकधीः ।

तमेव पश्यति चिरं न तत्राप्यस्ति सत्यता

॥४०॥

मृतं निर्माति चेदन्यः कथं वास्य स्मृतिर्भवेत् ।

कथं वा स्यात्स एवासौ चेतनत्वं तमेव खम्

॥४१॥

मृतौ न जायते तस्माच्चेतसैव स केवलम् ।

इहायमित्थमित्येव वेत्ति खे वासनात्मकम्

॥४२॥

स्वमेव भावमभ्यस्तमास्ते सोऽनुभवंश्चिरम् ।

स्फुटप्रत्ययवांस्त्वत्र सत्यमित्येव वेत्त्यलम्

॥४३॥

खात्मा खमेव तत्रैव स्वप्नाभं दृश्यमाहरन् ।

पुनः स्वमरणं वेत्ति पुनर्जन्म पुनर्जगत्

॥४४॥

अलीकजालमेवं खे पश्यन्प्रत्येकमास्थितः ।

पश्यत्याचारयत्यत्ति किंचित्कश्चिन्न कस्यचित्

॥४५॥

इत्येवं जगतां सन्ति कोटीनां कोटिकोटयः ।

परिज्ञातास्तु ता ब्रह्म केवलं दृश्यमन्यथा

॥४६॥

ताभिर्न कस्यचित्किंचिदावृतं न च सन्ति ताः ।

तासां च वेत्ति प्रत्येकमिदमेव जगत्त्विति

॥४७॥

भूतानि तासां प्रत्येकं तथैवान्योन्यमास्थिते ।

सत्यान्येवासत्यदृष्ट्या सत्यदृष्ट्या त्वजं पदम्

॥४८॥

सद्यद्विदितवेद्यस्य तदज्ञस्यासदक्षयम् ।

असद्यत्संप्रबुद्धस्य तत्सदज्ञस्य सुस्फुटम्

॥४९॥

चितेर्यद्यद्यथा भानं तत्तत्सत्यं यथा यतः ।

सद्रूपाणि समग्राणि भूतानीमान्यतो मिथः

॥५०॥

नित्यमन्योन्यसत्यानि तानि तान्येव वाप्यतः ।

किल संविद्विनिर्णेयं रूपमप्रतिघं यतः ।।

संविन्मात्रविनिर्णेयं कान्यता नान्यता कथा ।

यथासंवेदनं भाते वस्त्वौघे क्व द्वितैकते ।। '

॥५२॥

तदेवेदमिदं ज्ञप्तेस्तदेवेदं भवत्यलम् ।

तदेवैतत्तदेवेति भवेज्ज्ञप्तेरसत्यतः

॥५३॥

तच्चेदर्थस्ततो ज्ञप्तेर्नायं तस्याः पृथक् स्थितः ।

स्थिते ज्ञप्त्यात्मनि त्वर्थे त्वज्ञप्त्यायं ततो व्रजेत्

॥५४॥

ज्ञानं यदेव तज्ज्ञेयं ज्ञेयस्यासंभवात्पृथक् ।

यथा ज्ञानमतो ज्ञेयं तनोत्यात्मानमात्मना

॥५५॥

पश्यन्तोऽपि मिलन्तोऽपि पृथक्सर्गा न किंचन ।

सत एवासतो ज्ञस्य मूर्खज्ञातांस्तु वेद्मि नो

॥५६॥

एकं प्रबोधतः सर्वे चिन्मात्रं तावदात्मखम् ।

तदेवानेकसंवित्त्या सहस्रं चिज्जडात्मनाम्

॥५७॥

एकं तथा च चिन्मात्रं स्वप्ने लक्षात्म तिष्ठति ।

पुनर्लक्षात्म तत्स्वप्नादेकमास्ते सुषुप्तके

॥५८॥

चिद्व्योम्नि स्वप्नसंवित्तिर्या सैव जगदुच्यते ।

सुषुप्तं प्रलयः प्रोक्तस्तस्मान्न्यायोऽयमेव सन्

॥५१॥

एकैव संविन्नानात्वं नृलक्षत्वं च गच्छति ।

शून्यत्वं च तथार्थत्वं स्वप्नसंकल्पयोरिव

॥६०॥

इदमप्रतिघं सर्वं किल वेदनमात्रकम् ।

शुद्धं तद्वद्यथा यत्र भाति तत्र तथा भवेत्

॥६१॥

एकैव संवित्सर्गादौ भवत्यग्न्यम्बुखादिकम् ।

पृथ्व्यादि तावत्सर्गार्थं स्वप्नसंकल्पयोरिव

॥६२॥

संविदाकाशरूपैव भाति पृथ्व्यादिनामिका ।

यत्तदेव खमेवेदं जगदित्येव भासते

॥६३॥

संवित्सप्रतिघं भाति भाति चाप्रतिघं तथा ।

न वस्तुतस्तु प्रतिघा संवित्सान्ते निवर्तते

॥६४॥

यासि पूर्वां पश्चिमां च दिशं वेत्सि चिरं विदन् ।

प्रतिघं नाम ते नास्ति न च सप्रतिघा क्वचित्

॥६५॥

दृष्टं संकल्पितं चार्थं सहाभ्यस्यति यश्चिरम् ।

सोऽवश्यं तदाप्नोति न चेच्छान्तो निवर्तते

॥६६॥

यासि पूर्वां पश्चिमां च दिशं वेति चिरं विदन् ।

य आस्ते यात्यसौ तत्तामन्यस्त्यक्त्वा तु नेतराम्

॥६७॥

दृष्टः संकल्पितश्चार्थः स्यामित्यचलसंविदः ।

द्वयं भवेद्वयं नश्यत्यन्यस्याचलसंविदः

॥६८॥

दक्षिणादुत्तरां वाशां यामीत्यचलसंविदः ।

द्वयं भवेद्द्वयं नश्यत्यन्यस्याचलसंविदः

॥६९॥

खे पुरं स्यां भुवि मृगः स्यामित्यचलसंविदः ।

द्वयं भवेद्वयं नश्यत्यन्यदन्यत्तु तज्जगत्

॥७०॥

एकं प्रबोधतः सर्वं चिन्मात्रं तावदात्मखम् ।

तदेवानेकसंवित्त्या सहस्रं चिज्जडात्मनाम्

॥७१॥

शरीरमस्त्वप्रतिघमथ सप्रतिघं च वा ।

स्वप्नात्मकोऽयं संसारो जीवस्येह परत्र च

॥७२॥

एतन्म्लेच्छादिदेशेषु मृतानां दर्शनात्पुनः ।

स्मृतिपूर्वं च कथनात्प्रत्यक्षमनुभूयते

॥७३॥

ये मृता भस्मसाज्जाता म्लेच्छदेशेषु ते पुनः ।

आगत्य कथयित्वार्थं गच्छन्त्यप्रतिघात्मकाः

॥७४॥

एष चेज्जीवतो धर्मस्तद्देशान्तरगे जने ।

मृत इत्येव बुद्धेऽर्थे कस्मान्नैव प्रवर्तते

॥७५॥

जीवधर्मः सोऽपि संश्चेन्मृतधर्मोऽपि किं न सन् ।

यादृगनुभवस्त्वस्मिन्समे न्यायद्वये स्थिते

॥७६॥

स्वप्नवज्जगदाभानमित्येवं सत्यखण्डितम् ।

आर्यानुभवशास्त्राणामनेनास्त्येकवाक्यता

॥७७॥

दृष्टिजालं जनौघानां पश्यतामिन्दुमन्दिरे ।

यादृगप्रतिघं तादृग्जगत्सदसदात्मकम्

॥७८॥

सन्मात्रमात्रानुविधमच्छानुभवमात्रकम् ।

चिन्मात्रं भानमात्रात्म सर्वार्थात्मार्थवर्जितम्

॥७९॥

सर्वमप्रतिघं शान्तं जगदेकं चिदम्बरे ।

अनिङ्गनमनाभासमात्मन्येवात्मनास्यताम्

॥८०॥

अचला संविदेवास्ते स्थिरं कृत्वा यथा यथा ।

तथा तथा भवत्याशु किमसत्किं च वापि सत्

॥८१॥

शरीराण्यथ कर्माणि दुःखानि च सुखानि च ।

यथा स्थितान्युपायान्तु यान्तु वा कस्य किं ग्रहः

॥८२॥

इत्थमस्तु सदथान्यथास्तु वा

मैव भूद्भवतु कोऽत्र संभ्रमः ।

मुञ्च फल्गुनि फले फलावहं

बुद्धवानसि कृतं परिभ्रमैः

॥८३॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा०दे०मो०नि०उ०अ०वि० निर्वाणबोधोपदेशो नाम त्रिचत्वारिंशदधिकशततमः सर्गः ।।१४३।।