मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः ६०

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 60

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

ततोऽहमभितो भ्रान्तस्तादृशं प्रविचारयन् ।

बहुकालमसंरुद्धसंविदाकाशतां गतः

॥१॥

शब्दं पश्चात्तमश्रौषमहं वीणास्वनोपमम् ।

क्रमात्स्फुटपदं जातं तत आर्यात्वमागतम्

॥२॥

शब्ददेशपतद्वृष्टिर्दृष्टवान्वनितामहम् ।

पार्श्वे कनकनिष्पन्दप्रभया भासिताम्बराम्

॥३॥

आलोलमाल्यवसनामलकाकुललोचनाम् ।

लोलद्धम्मिल्लवलनामन्यां श्रियमिवागताम्

॥४॥

कान्तकाञ्चनगौराङ्गीं मार्गस्थनवयौवनाम् ।

वनदेवीमिवामोदिसर्वावयवसुन्दरीम्

॥५॥

सा पूर्णचन्द्रवदना पुष्पप्रकरहासिनी ।

यौवनोद्दामवदना पक्ष्मलक्षणशालिनी

॥६॥

आकाशकोशसदना शशाङ्ककरसुन्दरी ।

मुक्ताकलापरचना कान्ता मदनुसारिणी

॥७॥

स्वरेण मधुरेणैवमार्यामार्यविलासिनी ।

पपाठाकठिनं वामा मत्पार्श्वे मृदुहासिनी ।।

असदुचितरिक्तचेतन-

संसृतिसरिति प्रमुह्यमानानाम् ।

अवलम्बनतटविटपिन-

मभिनौमि भवन्तमेव मुने

॥९॥

इत्याकर्ण्याहमालोक्य तां चारुवदनस्वनाम् ।

ललनेयं किमनयेत्यनादृत्यैव तां गतः

॥१०॥

ततो जगद्वृन्दमयीं मायां संप्रेक्ष्य विस्मितः ।

अनादृत्यैव तां व्योम्नि विहर्तुमहमुद्यतः ।०

॥११॥

ततस्तां तत्कृतां चिन्तामलमुत्सृज्य खे स्थिताम् ।

जगन्मायां कलयितुं व्योमात्माहं प्रवृत्तवान्

॥१२॥

यावत्तानि तथोग्राणि जगन्ति सकलानि खम् ।

शून्यमेव यथा स्वप्ने संकल्पे कथने तथा

॥१३॥

न पश्यन्ति न शृण्वन्ति कदाचित्कानिचित्क्वचित् ।

तानि कल्पमहाकल्पमहाजन्मैकतान्यथ

॥१४॥

प्रमत्तपुष्करावर्तानुन्मत्तोत्पातमारुतान् ।

स्फुटिताद्रीन्दृढाकारघटितब्रह्ममण्डपान् 1

॥१३॥

ज्वलत्कल्पाग्निविस्फोटचटदैडविडास्पदान् ।

प्रतपद्द्वादशाकारकन्दुमार्तण्डमण्डलान्

॥१६॥

लुठत्सुरपुरव्रातवितताक्रन्दघर्घरान् ।

रणसर्वाद्रिकटकश्रेणीनिगिरणोद्भटान्

॥१७॥

कल्पाग्निज्वलनोल्लासपठत्पटपटारवान् ।

आत्मभ्रंशबृहत्क्षोभक्षुब्धाम्बरमहार्णवान् ।1

॥१८॥

देवासुरनरागारघर्घराक्रन्दकर्कशान् ।

सप्तार्णवमहापूरपूरितार्केन्दुमण्डलान्

॥१९॥

न विचेतन्ति कल्पान्तान्सर्वाण्येवपरस्परम् ।

एकमन्दिरसंसुप्ताः स्वप्ने रणरयानिव

॥२०॥

तत्र रुद्रसहस्राणि ब्रह्मकोटिशतानि च ।

दृष्टानि विष्णुलक्षाणि कल्पवृन्दान्यलं मया

॥२१॥

तत्र क्वचिदनादित्ये निरहोरात्रभूतले ।

आकल्पयुगवर्षान्ते जगत्यूहैः क्षयोदयः

॥२२॥

चिति सर्वं चितः सर्वं चित्सर्वं सर्वतश्च चित् ।

चित्सत्सर्वात्मिकेत्येतद्दृष्टं तत्र मयाखिलम्

॥२३॥

त्वं किंचिदिति चेद्वक्षि तत्र किं चिदिवाङ्ग चित् ।

सा हि शून्यतमा व्योम्नो न च नाम न किंचन

॥२४॥

तदाकाशमिदं भाति जगदित्यभिशब्दितम् ।

तेनैव शब्दनभसा सर्वे हि परमं नभः

॥२५॥

दृश्यदृष्टिरियं भ्रान्तिराकाशतरुमञ्जरी ।

चिद्व्योमाङ्ग कमेवेति तत्राहमनुभूतवान्

॥२६॥

बुद्ध्याकाशैकरूपेण व्यापिना बोधरूपिणा ।

तत्रानन्तेन संकल्पमनुभूतमिदं मया

॥२७॥

ब्रह्मव्योम जगज्जालं ब्रह्मव्योम दिशो दश ।

ब्रह्मव्योम कलाकालदेशद्रव्यक्रियादिकम्

॥२८॥

तत्राहमिव संसारशते भाते मुनीश्वराः ।

दृष्टा वसिष्ठनामानो ब्रह्मपुत्राः सदुत्तमाः

॥२९॥

ब्रह्मन्द्वासप्ततिस्त्रेताः सर्वा एव सराघवाः ।

तत्र दृष्टं कृतशतं द्वापराणां शतं तथा

॥३०॥

भेदोदयेन वै दृष्टास्तास्ताः सर्गदशास्तथा ।

बोधेन चेत्तदत्यच्छमेकं ब्रह्म नभस्ततम्

॥३१॥

नेदं ब्रह्मणि नामास्ति जगद्ब्रह्मण्यथ त्विदम् ।

ब्रह्मैवाजमनाद्यन्तं तत्सर्वं तत्पदादिकम्

॥३२॥

पाषाणमौनप्रतिमं नकिंचिदभिशब्दितम् ।

यत्तत्किंचिदिति द्योतरूपं ब्रह्म जगत्स्मृतम्

॥३३॥

विभात्यचेत्यं चिद्व्योम्नि स्वसत्तैव जगत्तया ।

निराकारे निराकारा स्वप्नानुभवसंनिभा

॥३४॥

अनन्यमात्मनो ब्रह्म सर्वं भामात्ररूपकम् ।

प्रकाशनमिवालोकः करोति न करोति च

॥३५॥

तेषु नामानुभूयन्ते जगल्लक्षेषु तत्र वै ।

उष्णानि चन्द्रबिम्बानि सूर्याः शीतलमूर्तयः

॥३६॥

प्रजास्तमसि पश्यन्ति पश्यन्त्येव न तेजसि ।

उलूकस्य समाचारास्तस्यैव सदृशस्वराः

॥३७॥

इतः शुभेन नश्यन्ति यान्ति पापैस्तथा दिवम् ।

विषाशनेन जीवन्ति म्रियन्तेऽमृतभोजनैः

॥३८॥

यद्यथा बुध्यते बोधे यथोदेत्यथवा स्वतः ।

तथाशु स्फुटतामेति सद्वासद्वा तदेव तत्

॥३९॥

विटपाकारमूलौघदर्शनाद्वज्रशोभिभिः ।

घूर्णते पत्रपुष्पाभैः पादपैर्व्योम्नि काननम्

॥४०॥

सिकताः पीडिताः सत्यः स्रवन्ति स्नेहजं रसम् ।

शिलाफलककेभ्यश्च जायन्ते कमलान्यलम् ।०

॥४१॥

दारुण्यश्मनि भित्तौ च चञ्चलाः शालभञ्जिकाः ।

देवाङ्गनाभिः सहितं गायन्ति कथयन्ति च

॥४२॥

मेघान्परिदधत्युच्चैर्भूतान्युच्चैः पटानिव ।

प्रतिवर्षं विजातीयान्युत्पद्यन्ते फलान्यगे

॥४३॥

संनिवेशैर्न नियतैरङ्गानां विविधाङ्गकैः ।

शिरोभिः सर्वभूतानि परिक्रामन्ति भूमिगैः

॥४४॥

शास्त्रवेदविहीनानि निर्धर्माण्येव कानिचित् ।

यत्किंचनैककारीणि तिर्यग्वन्ति जगन्त्यधः ०

॥४५॥

कामसंवित्तिहीनानि निःस्त्रीजातानि कानिचित् ।

भूतैः संशुष्कहृदयैर्व्याप्तान्यश्ममयैरिव

॥४६॥

पवनाशनभूतानि समरत्नाश्मकानि च ।

अजातार्थान्यलुब्धानि निगर्वाणीव कानि च

॥४७॥

क्वचित्प्रत्येकमात्मानं पश्यत्याप्नोति नेतरत् ।

बहुभूतकमप्यस्ति जगदित्येकभूतकम्

॥४८॥

नखकेशादिके यद्वत्तद्वदन्यत्र संस्थितः ।

आत्मवत्सर्वभूतानामेकीभूतात्मभावना

॥४९॥

अनन्तापारपर्यन्त शून्यमेव बहु क्वचित् ।

यत्नतः संविदाप्नोति तस्यान्ते न जगत्पुनः

॥५०॥

अत्यन्ताबुद्धबुद्धानि मोक्षशब्दार्थदृष्टिषु ।

दारुयन्त्रमयाशेषभूतौघानीव कानिचित्

॥५१॥

ऋक्षचक्रविहीनानि निष्कालकलनानि च ।

मूकसंकेतसाराणि भूतजालानि कानिचित् ]

॥५२॥

कानिचिद्वर्जितान्येव नेत्रशब्दार्थसंविदा ।

व्यर्थदीप्तात्मतेजांसि भूतानीत्येकचिन्तया

॥५३॥

प्राणसंविद्विहीनानि व्यर्थामोदानि कानिचित् ।

मूकानि शब्दवैयर्थ्याच्छ्रुतिहीनानि कानिचित्

॥५४॥

वाक्यसंविद्विहीनत्वान्मूकान्यन्यानि कानिचित् ।

स्पर्शसंविद्विहीनत्वादश्माङ्गानीव कानिचित्

॥५५॥

संविन्मात्रमयान्येव दृष्टान्यपि च कानिचित् ।

व्यवहारीण्यप्यग्राह्याण्येव नित्यं पिशाचवत् ०

॥५६॥

भूमयान्येकनिष्ठानि निष्पिण्डान्येव कानिचित् ।

कानिचिद्वारिपूर्णानि वह्निपूर्णानि कानिचित्

॥५७॥

कानिचिद्वातपूर्णानि सर्वाकाराणि कानिचित् ।

जगन्ति व्योमरूपाणि वत तत्र कचन्ति खे

॥५८॥

धरापीठैकपूर्णेषु तिष्ठन्त्यन्येषु देहिनः ।

भेका इव शिलाकोशे कीटा इव धरोदरे

॥५९॥

जलैकपरिपूर्णेषु तिष्ठन्त्युर्वीवनाद्रिषु ।

भ्रमन्त्यन्येषु भूतानि नित्यमेवोग्रमीनवत्

॥६०॥

अन्येष्वग्न्येकपूर्णेषु जलादिरहितान्यपि ।

भूतान्यग्निमयान्येव स्फुरन्त्यलमलातवत्

॥६१॥

अन्येष्वनिलपूर्णेषु भूतान्यस्तेतराण्यपि ।

वातमात्रमयाङ्गानि स्फुरन्त्यर्जुनवातवत्

॥६२॥

अन्येषु व्योममात्रात्मदेहेषु व्योमरूपिणः ।

प्राणिनः सन्ति सर्गेषु दर्शनव्यवहारिणः

॥६३॥

पातालपातिषु तथाम्बरमुत्पतत्सु

तिष्ठत्सु विभ्रमपदेष्वथ दिङ्मुखेषु ।

नानाजगत्सु किमिवास्ति मया न दृष्टं

यन्नाम चिज्जलधिचञ्चलबुद्बुदेषु ।

॥६४॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे उत्तरार्धे पाषा० जगज्जालवर्णनं नाम षष्टितमः सर्गः ।। ६० ।।