मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उत्पत्तिप्रकरणम् — सर्गः ३

3
योगवासिष्ठम् · उत्पत्तिप्रकरणम् · 3

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीराम उवाच ।

एवमेव मनः शुद्धं पृथ्व्यादिरहितं त्वया ।

मनो ब्रह्मेति कथितं सत्यं पृथ्व्यादिवर्जितम्

॥१॥

तदत्र प्राक्तनी ब्रह्मन्स्मृतिः कस्मान्न कारणम् ।

यथा मम तवान्यस्य भूतानां चेति मे वद

॥२॥

श्रीवसिष्ठ उवाच ।

पूर्वदेहोऽस्ति यस्याद्य पूर्वकर्मसमन्वितः ।

तस्य स्मृतिः संभवति कारणं संसृतिस्थितेः

॥३॥

ब्रह्मणः प्राक्तनं कर्म यदा किंचिन्न विद्यते ।

प्राक्तनी संस्मृतिस्तस्य तदोदेति कुतः कथम्

॥४॥

तस्मादकारण भाति वा स्वचित्तैककारणम् ।

स्वकारणादनन्यात्मा स्वयंभूः स्वयमात्मवान्

॥५॥

आतिवाहिक एवासौ देहोऽस्त्यस्य स्वयंभुवः ।

न त्वाधिभौतिको राम देहोऽजस्योपपद्यते

॥६॥

श्रीराम उवाच ।

आतिवाहिक एकोऽस्ति देहोऽन्यस्त्वाधिभौतिकः ।

सर्वासां भूतजातीनां ब्रह्मणोऽस्त्येक एव किम्

॥७॥

श्रीवसिष्ठ उवाच ।

सर्वेषामेव देहौ द्वौ भूतानां कारणात्मनाम् ।

अजस्य कारणाभावादेक एवातिवाहिकः

॥८॥

सर्वासां भूतजातीनामेकोऽजः कारणं परम् ।

अजस्य कारणं नास्ति तेनासावेकदेहवान्

॥९॥

नास्त्येव भौतिको देहः प्रथमस्य प्रजापतेः ।

आकाशात्मा च भात्येष आतिवाहिकदेहवान्

॥१०॥

चित्तमात्रशरीरोऽसौ न पृथ्व्यादिक्रमात्मकः ।

आद्यः प्रजापतिर्व्योमवपुः प्रतनुते प्रजाः

॥३३॥

ताश्च चिद्व्योमरूपिण्यो विनान्यैः कारणान्तरैः ।

यद्यतस्तत्तदेवति सर्वैरेवानुभूयते

॥१२॥

निर्वाणमात्रं पुरुषः परो बोधः स एव च ।

चित्तमात्रं तदेवास्ते नायाति वसुधादिताम्

॥१३॥

सर्वेषां भूतजातानां संसारव्यवहारिणाम् ।

प्रथमोऽसौ प्रतिस्पन्दश्चित्तदेहः स्वतोदयः

॥१४॥

अस्मात्पूर्वात्प्रतिस्पन्दादनन्यैतत्स्वरूपिणी ।

इयं प्रविसृता सृष्टिः स्पन्दसृष्टिरिवानिलात्

॥१५॥

प्रतिभानाकृतेरस्मात्प्रतिभामात्ररूपधृक् ।

विभात्येवमयं सर्गः सत्यानुभववान्स्थितः

॥१६॥

दृष्टान्तोऽत्र भवत्स्वप्नपुरस्त्रीसुरतं यथा ।

असदप्यर्थसंपत्त्या सत्यानुभवभासुरम्

॥१७॥

अपृथ्व्यादिमयो भाति व्योमाकृतिरदेहकः ।

सदेह इव भूतेशः स्वात्मभूः पुरुषाकृतिः

॥१८॥

संवित्संकल्परूपत्वान्नोदेति समुदेति च ।

स्वायत्तत्वात्स्वभावस्य नोदेति न च शाम्यति

॥१९॥

ब्रह्मा संकल्पपुरुषः पृथ्व्यादिरहिताकृतिः ।

केवलं चित्तमात्रात्मा कारणं त्रिजगत्स्थितेः

॥२०॥

संकल्प एष कचति यथा नाम स्वयंभुवः ।

व्योमात्मैष तथा भाति भवत्संकल्पशैलवत्

॥२१॥

आतिवाहिकमेवान्तर्विस्मृत्या दृढरूपया ।

आधिभौतिकबोधेन मुधा भाति पिशाचवत्

॥२२॥

इदं प्रथमतोद्योगसंप्रबुद्धं महाचितेः ।

नोदेति शुद्धसंवित्त्वादातिवाहिकविस्मृतिः

॥२३॥

आधिभौतिकजातेन नास्योदेति पिशाचिका ।

असत्या मृगतृष्णेव मिथ्या जाड्यभ्रमप्रदा

॥२४॥

मनोमात्रं यदा ब्रह्मा न पृथ्व्यादिमयात्मकः ।

मनोमात्रमतो विश्वं यद्यज्जातं तदेव हि

॥२५॥

अजस्य सहकारीणि कारणानि न सन्ति यत् ।

तज्जस्यापि न सन्त्येव तानि तस्मात्तु कानिचित्

॥२६॥

कारणात्कार्यवैचित्र्यं तेन नात्रास्ति किंचन ।

यादृशं कारणं शुद्धं कार्य तादृगिति स्थितम्

॥२७॥

कार्यकारणता ह्यत्र न किंचिदुपपद्यते ।

यादृगेव परं ब्रह्म तादृगेव जगत्त्रयम्

॥२८॥

मनस्तामिव यातेन ब्रह्मणा तन्यते जगत् ।

अनन्यादात्मनः शुद्धाद्द्रवत्वमिव वारिणः

॥२९॥

मनसा तन्यते सर्वमसदेवेदमाततम् ।

यथा संकल्पनगरं यथा गन्धर्वपत्तनम्

॥३०॥

आधिभौतिकता नास्ति रज्ज्वामिव भुजङ्गता ।

ब्रह्मादयः प्रबुद्धास्तु कथं तिष्ठन्ति तत्र ते

॥३१॥

आतिवाहिक एवास्ति न प्रबुद्धमतेः किल ।

आधिभौतिकदेहस्य वाचो वात्र कुतः कथम्

॥३२॥

मनोनाम्नो मनुष्यस्य विरिञ्च्याकारधारिणः ।

मनोराज्यं जगदिति सत्यरूपमिव स्थितम्

॥३३॥

मन एव विरिञ्चित्वं तद्धि संकल्पनात्मकम् ।

स्ववपुः स्फारतां नीत्वा मनसेदं वितन्यते

॥३४॥

विरिञ्चो मनसो रूपं विरिञ्चस्य मनो वपुः ।

पृथ्व्यादि विद्यते नात्र तेन पृथ्व्यादि कल्पितम्

॥३५॥

पद्माक्षे पद्मिनीवान्तर्मनो दृद्यस्ति दृश्यता ।

मनोदृश्यदृशौ भिन्ने न कदाचन केनचित्

॥३६॥

यथा चात्र तव स्वप्नः संकल्पश्चित्तराज्यधीः ।

स्वानुभूत्यैव दृष्टान्तस्तस्माद्धृद्यस्ति दृश्यभूः

॥३७॥

तस्माच्चित्तविकल्पस्थपिशाचो बालकं यथा ।

विनिहन्त्येवमेषान्तर्द्रष्टारं दृश्यरूपिका

॥३८॥

यथाङ्कुरोऽन्तर्बीजस्य संस्थितो देशकालतः ।

करोति भासुरं देहं तनोत्येवं हि दृश्यधीः

॥३९॥

सच्चेन्न शाम्यति कदाचन दृश्यदुःखं

दृश्ये त्वशाम्यति न बोद्धरि केवलत्वम् ।

दृश्ये त्वसंभवति बोद्धरि बोद्धृभावः

शाम्येत्स्थितोऽपि हि तदस्य विमोक्षमाहुः

॥४०॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे बन्धहेतुवर्णनं नाम तृतीयः सर्गः ।। ३ ।