मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — पूर्वार्धम् — सर्गः ५८

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — पूर्वार्धम् · 58

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

अर्जुन उवाच ।

नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत ।

स्थितोऽस्मि गतसंदेहः करिष्ये वचनं तव

॥१॥

श्रीभगवानुवाच ।

वृत्तयो यदि बोधेन संशान्ता हृदये स्फुटम् ।

तच्चित्तं शान्तमेवान्तर्विद्धि सत्त्वमुपागतम्

॥२॥

अत्र तच्चेत्यरहितं प्रत्यक्चेतननामकम् ।

यत्त्वशेषविनिर्मुक्तं यत्सर्वं सर्वतश्च यत्

॥३॥

न केचन विदन्त्येते तत्पदं जागतादयः ।

भूतलाद्गगनोड्डीनं विहंगममिवोन्नतम्

॥४॥

प्रत्यक्चेतनमाभासं शुद्धं संकल्पवर्जितम् ।

अगम्यमेनमात्मानं विद्धि दूरं दृशामिव

॥५॥

सर्वातीतं यदत्यच्छं विना शुद्धं स्ववासना ।

न शक्नोति पदं द्रष्टुं जनदृष्टिरणूनिव

॥६॥

यत्प्राप्तौ सर्व एवेमे क्षीणा घटपटादयः ।

वराकी वासना तत्र किं करोतु परे पदे

॥७॥

यथाऽनलगिरिं प्राप्य हिमलेशो विलीयते ।

शुद्धमासाद्य चित्तत्त्वमविद्या लीयते तथा

॥८॥

क्व वराकी रजस्तुच्छा वासना भोगबन्धनम् ।

क्व पूरितजगज्जालश्चित्तत्त्वविपुलानिलः

॥९॥

तावत्स्फुरत्यविद्येयं नानाकारविकारिणी ।

यावन्न संपरिज्ञातः शुद्धः स्वात्माऽयमात्मना

॥१०॥

सर्वा दृश्यदृशः क्षीणाः स्वच्छतैवोदिता तथा ।

नभसीव पदे तस्मिन्स्वात्मन्यखिलपूरणे

॥११॥

समग्राकाररूपं तत्समग्राकारवर्जितम् ।

वागतीतं परं वस्तु केन नामोपमीयते

॥१२॥

विषयविषविषूचिकामतस्त्वं

निपुणमहंस्थितिवासनामपास्य ।

अभिमतपरिहारमन्त्रयुक्त्या

भव विभवो भगवान्भियामभूमिः

॥१३॥

श्रीवसिष्ठ उवाच ।

इति गदितवति त्रिलोकनाथे

क्षणमिव मौनमुपस्थिते पुरस्तात् ।

अथ मधुप इवाऽसिताब्जखण्डे

वचनमुपैष्यति तत्र पाण्डुपुत्रः

॥१४॥

अर्जुन उवाच ।

परिगलितसमस्तशोकभारा

परमुदयं भगवन्मतिर्गतेयम् ।

मम तव वचनेन लोकभर्तु-

र्दिनपतिना परिबोधिताब्जिनीव

॥१५॥

इत्युक्त्वोत्थाय गाण्डीवधन्वा स हरिसारथिः ।

अर्जुनो गतसंदेहो रणलीलां करिष्यति

॥१६॥

करिष्यति क्षतगजवाजिसारथि-

द्रुतक्षरद्रुधिरमहानदीं भुवम् ।

शरोत्करप्रसरमहारजःस्थली-

तिरोहितद्युमणिविलोचनां दिवम्

॥१७॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे पू० अर्जुनोपाख्याने अर्जुनकृतार्थता नामाष्टपञ्चाशः सर्गः।।५८।। अर्जुनोपाख्यानं समाप्तम् ।