मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उपशमप्रकरणम् — सर्गः ३१

3
योगवासिष्ठम् · उपशमप्रकरणम् · 31

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

अथ दुःखपरीतात्मा हरिणा हतदानवे ।

प्रह्लादश्चिन्तयामास मौनी पातालकोटरे

॥१॥

कोन्वस्माकमुपायः स्याद्य एवेहासुराङ्कुरः ।

तीक्ष्णाग्रो जायते तं तं भुङ्क्ते शाखामृगो हरिः

॥२॥

न कदाचन पाताले दैत्या दोर्दण्डशालिनः ।

स्थिरा बभूवुरुद्भिन्नाः पद्मा इव हिमाचले

॥३॥

उत्पत्त्योत्पत्त्य नश्यन्ति भासुराकारघर्घराः ।

क्षीणप्रस्फुरितारम्भास्तरङ्गा इव वारिधेः

॥४॥

सबाह्याभ्यन्तरं कष्टं समग्रालोकहारिणः ।

रिपवः प्रौढिमायाता अपूर्वतिमिरभ्रमाः

॥५॥

तमःप्रपूर्णहृदयाः संकुचत्पत्रसंपदः ।

सुहृदः खेदमायान्ति निशीथकमलाकराः

॥६॥

तातस्य मलिनैर्नूनं पादपीठोपमर्दकैः ।

सुरैर्विषय आक्रान्तो मृगैरिव महावनम्

॥७॥

निरुद्यमा गतश्रीका दीनाः प्रकटिताशयाः ।

बान्धवा न विराजन्ते पद्माः प्लुष्टदला इव

॥८॥

स्फुरन्त्यसुरवीराणां गृहेष्वविरतानिलैः ।

धूसरा भस्मनीहारा धूपधूमभरा इव

॥९॥

हृतद्वारकपाटासु दैत्यान्तःपुरभित्तिषु ।

प्रभा मरकतस्येव जाता नवयवाङ्कुराः

॥१०॥

त्रिलोकीनाभिनलिनीमत्तेभा दानवा अपि ।

देववद्दैन्यमायाताः किमसाध्यमहो विधेः

॥११॥

मनाक्चलति पर्णेऽपि दृष्टारिभयभीतयः ।

वध्वस्त्रस्यन्ति विध्वस्ता मृग्यो ग्रामगता इव

॥१२॥

आसुरीकर्णपूरार्थ फुल्ला रत्नगुलुच्छकाः ।

नरसिंहकरालूनाः स्थाणुतामागता द्रुमाः

॥१३॥

दिव्याम्बरलतापत्रा रत्नस्तबकदन्तुराः ।

पुनरारोपितास्तत्र नन्दने कल्पपादपाः

॥१४॥

पुरा त्वमरबन्दीनामसुरेः संस्तुतं मुखम् ।

अद्य त्वसुरबन्दीनां सुरैरालोकितं मुखम्

॥५१॥

मन्ये दानमहानद्यः सुरेभकटभित्तिषु ।

प्रवृत्तास्ता भविष्यन्ति शैलसानुष्विवापगाः

॥१६॥

अस्माकमिभगण्डेषु दानदाहविभूतयः ।

लसन्ति मरुखण्डेषु संशुष्केष्विव धूलयः

॥१७॥

विकासिसितमन्दारमकरन्दारुणानिलाः ।

ते मेरुशिखरैस्तुल्या दैत्या दुर्लभतां गताः

॥१८॥

सुरगन्धर्वसुन्दर्यो दानवान्तःपुरोचिताः ।

अद्य मेरौ स्थितिं याता मञ्जर्य इव पादपे

॥१९॥

कष्टं तात पुरंध्रीणा शुष्काम्बुरुहनीरसाः ।

विलासाः सुरनारीभिर्भर्त्स्यन्ते लास्यलीलया

॥२०॥

पूर्वं यैरेव मत्तातश्चामरैरुपवीजितः ।

सहस्रनयनः स्वर्गे कष्टं तैरेव वीज्यते

॥२१॥

इयमस्माकमप्यापदागता दैन्यदायिनी ।

तस्यैकस्य प्रसादेन दुष्पौरुषगतेर्हरेः

॥२२॥

तद्दोर्वनघनच्छायालब्धविश्रान्तयः सुराः ।

न कदाचन तप्यन्ते हिमाद्रेरिव सानवः

॥२३॥

शौरिशौर्याग्रशिखरसंश्रयेणाश्रितश्रियः ।

अस्मान्समुपरुन्धन्ति शुनः शाखामृगा इव

॥२४॥

तेनासुरपुरन्ध्रीणां नित्यं मण्डनमण्डने ।

मुखपद्मे स्थितं बाष्पमब्जिनीनां हिमं यथा

॥२५॥

शीर्णभिन्नलुठद्भित्तिर्जगज्जरठमण्डपः ।

अयं नीलमणिस्तम्भैस्तद्भुजैरेव धार्यते

॥२६॥

स धर्ता सुरसैन्यस्य मज्जतो विपदर्णवे ।

क्षीरोदोदरमग्नस्य मन्दरस्येव कच्छपः

॥२७॥

एते तातादयः सर्वे तेनैवासुरसत्तमाः ।

पातिताः क्षुब्धकल्पान्तवातेनेव कुलाचलाः

॥२८॥

स एक एव संहारकर्मक्षमभुजानलः ।

सुरसार्थगुरुः श्रीमान्विषमो मधुसूदनः

॥२९॥

दैत्यदोर्दण्डपरशोस्तस्य वीर्येण वीर्यवान् ।

दानवान्बाधते शक्रो बालकानिव मर्कटः

॥३०॥

दुर्जयः पुण्डरीकाक्षः प्रविमुक्तायुधोऽपि सन् ।

नासौ शस्त्रास्त्रविच्छेदैर्वज्रसारो विदीर्यते

॥३१॥

अभ्यस्ता बहवस्तेन मिथः प्रेरितपर्वताः ।

भीमाः समरसंरम्भाः सममस्मत्पितामहः

॥३२॥

तासु तास्वतिघोरासु विततास्वतिराजिषु ।

यो न भीत इदानीं स भयमेष्यति का कथा

॥३३॥

उपायमेकमेवेमं हरेराक्रमणे स्फुटम् ।

मन्ये तद्व्यतिरेकेण विद्यते न प्रतिक्रिया

॥३४॥

सर्वात्मना सर्वधिया सर्वसंरम्भरंहसा ।

स एव शरणं देवो गतिरस्तीह नान्यथा

॥३५॥

न तस्मादधिकः कश्चिदस्ति लोकत्रयान्तरे ।

प्रलयस्थितिसर्गाणां हरिः कारणतां गतः

॥३६॥

अस्मान्निमेषादारभ्य नारायणमजं सदा ।

संप्रपन्नोऽस्मि सर्वत्र नारायणमयो ह्यहम्

॥३७॥

नमो नारायणायेति मन्त्रः सर्वार्थसाधकः ।

नापैति मम हृत्कोशादाकाशादिव मारुतः

॥३८॥

हरिराशा हरिर्व्योम हरिरुर्वी हरिर्जगत् ।

अहं हरिरमेयात्मा जातो विष्णुमयो ह्यहम्

॥३९॥

अविष्णुः पूजयन्विष्णुं न पूजाफलभाग्भवेत् ।

विष्णुर्भूत्वा यजेद्विष्णुमयं विष्णुरहं स्थितः

॥४०॥

हरिः प्रह्रादनामा यो मत्तो नान्यो हरिः पृथक् ।

इति निश्चयवानन्तर्व्यापकोऽहं च सर्वतः

॥४१॥

अनन्तमिदमाकाशमापूर्य विनतासुतः ।

कनकाङ्गो ममाङ्गानामयमासनतां गतः

॥४२॥

करशाखैकविश्रान्तसर्वहेतिविहंगमाः ।

नखांशुमञ्जरीकीर्णा महामरकतद्रुमाः

॥४३॥

इमे ते मृदुमन्दारदामदिग्धांसमण्डलाः ।

मन्दराघृष्टकेयूराश्चत्वारो मम बाहवः

॥४४॥

चलच्छशिकलापूरचारुचामरधारिणी ।.

इयं मे पार्श्वगा लक्ष्मीः क्षीरोदकुहरोत्थिता

॥४५॥

हेलाविलुब्धभुवना त्रैलोक्यतरुमञ्जरी ।

इयं मे पार्श्वगा कीर्तिरचलामलभासिनी

॥४६॥

अनारतजगज्जालनवनिर्माणकारिणी ।

इयं मे पार्श्वगा माया स्वेन्द्रजालविलासिनी

॥४७॥

इयं सा हेलयाक्रान्तत्रैलोक्यतरुखण्डिका ।

जया स्फुरति मे पार्श्वे लता कल्पतरोरिव

॥४८॥

इमौ मे नित्यशीतोष्णौ देवौ शीतांशुभास्करौ ।

प्रकटीकृतसंसारौ मुखमध्ये विलोचने

॥४९॥

ममेयमुत्पलश्यामा पीनाम्भोधरसुन्दरी ।

श्यामीकृतककुप्चक्रा देहदीप्तिर्विसर्पिणी

॥५०॥

अयं मम करे शङ्खः पाञ्चजन्यः स्फुरद्ध्वनिः ।

मूर्तं खमिव शब्दात्मा क्षीरोद इव संस्थितः

॥५१॥

अयं मे कर्णिकाकोशनिलीनब्रह्मषट्पदः ।

पद्मः करतले श्रीमान्स्वनाडीकुहरोद्भवः

॥५२॥

इयं मे रत्नचित्राङ्गी सुमेरुशिखरोपमा ।

हेमाङ्गदा गदा गुर्वी दैत्यदानवमर्दिनी

॥५३॥

अयं मे भास्कराकार उद्यदंशुः सुदर्शनः ।

ज्वालाजटिलपर्यन्तपरिपाटलदिक्तटः

॥५४॥

अयं मे केतुमद्वह्निसुन्दरो ज्वलितोऽसितः ।

कुठारो दैत्यवृक्षाणां नन्दयन्नन्दकः स्थितः

॥५५॥

इदं मे शरधाराणां पुष्करावर्तकोपमम् ।

शार्ङ्गं धनुरहीन्द्राभमिन्द्रकार्मुकसुन्दरम्

॥५६॥

इमान्यहमनन्तानि जगन्ति जठरे चिरम् ।

बिभर्मि जातनष्टानि वर्तमानान्यनेकशः

॥५७॥

इमौ मही मे चरणाविदं मे गगनं शिरः ।

इदं वपुर्मे त्रिजगदिमे मे कुक्षयो दिशः

॥५८॥

साक्षादयमहं विष्णुर्नीलमेघोदरद्युतिः ।

सुपर्णपर्वतारूढः शङ्खचक्रगदाधरः

॥५९॥

एते मत्तः पलायन्ते समग्रा दुष्टचेतसः ।

तार्णास्तरलसंचाराः पवनादिव राशयः

॥६०॥

अयं नीलोत्पलश्यामः पीतवासा गदाधरः ।

लक्ष्मीवान्गरुडारूढः स्वयमेवाहमच्युतः

॥६१॥

को मामेति विरुद्धात्मा त्रैलोक्यदहनक्षमम् ।

स्वनाशाय ततः क्षुब्धं कालाग्निं शलभो यथा

॥६२॥

इमे मे तैजसीं सृष्टिं ममाग्रस्थाः सुरासुराः ।

न शक्नुवन्ति संरोद्धुं चक्षुर्मन्दाः प्रभा इव

॥६३॥

इमं मामीश्वरं विष्णुं ब्रह्मेन्द्राग्निहरादयः ।

स्तुवन्त्यनन्तया वाचा बहुवक्त्रसमुत्थया

॥६४॥

अयं विजृम्भितैश्वर्यो जातोऽहमजिताकृतिः ।

सर्वद्वन्द्वपदातीतो महिम्ना परमेण हि

॥६५॥

त्रिभुवनभवनोदरैकमूर्ति प्रसभविभिन्नसमस्तदुष्टसत्त्वम् ।

घनगिरितृणकाननान्तरस्थं सकलभयापहरं वपुः प्रणौमि

॥६६॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षो० उपशमप्रकरणे प्रह्लादनिर्वाणे नारायणीकरणं नामैकत्रिंशः सर्गः ।। ३१ ।।