मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः ८

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 8

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

भुशुण्ड उवाच ।

विद्याधर धराधारो गिरिकन्दरमन्दिरः ।

दिगन्तराम्बराचारचारसंचारचञ्चरः

॥१॥

ईदृशोऽयं जगद्वृक्षो जायतेऽहंत्वबीजतः ।

बीजे ज्ञानाग्निनिर्दग्धे नैव किंचन जायते

॥२॥

प्रेक्ष्यमाणं च तन्नास्ति किलाहंत्वं कदाचन ।

एतावदेव तज्ज्ञानमनेनैव प्रदह्यते

॥३॥

अहंत्वभावाच्चाहंत्वमस्ति संसारबीजकम् ।

नाहंत्वभावान्नाहंत्वमस्तीति ज्ञानमुत्तमम्

॥४॥

सर्गादावेव सर्गस्य किलास्याभावयोगतः ।

कुतोऽहंत्वं कुतस्त्वंत्वं कुतो द्वित्वैक्यविभ्रमः

॥५॥

समाकर्ण्य गुरोर्वाक्यं यतन्ते ये स्वयत्नतः ।

संकल्पत्यागमामूलं पदप्राप्तौ जयन्ति ते

॥६॥

रन्धनाज्जयमाप्नोति स्वशास्त्रे सूपकृत्कृते ।

विवेकी स्वविवेकित्वं यतनादेव नान्यथा

॥७॥

चिच्चमत्कारमात्रं त्वं जगद्विद्धीह नेतरत् ।

नाशासु न बहिर्नान्तरेतत्क्वचन विद्यते।

॥८॥

संकल्पोन्मेषमात्रेण जगच्चित्रं विलोक्यते ।

तदनुन्मेषविलयि चित्रकृच्चित्तचित्रवत्

॥९॥

मण्डपोऽस्ति महास्तम्भो मुक्तामणिविनिर्मितः ।

बहुयोजनलक्षाणि कान्तकाञ्चनचित्रितः

॥१०॥

मणिस्तम्भसहस्रेण वृतोऽग्रे प्रोतमेरुणा ।

इन्द्रायुधसहस्राढ्यकल्पसंध्याभ्रसुन्दरः

॥११॥

स्त्रीबालपुरुषादीनां वास्तव्यानामितस्ततः ।

क्रीडार्थं स्थापिता यत्र नानारचनयान्तरे

॥१२॥

भूतबीजपरापूर्णास्तमोरिपुसघुंघुमाः ।

तमःप्रकाशचित्राख्या लोकान्तरसमुद्गकाः

॥१३॥

आमोदसुभगा लोलजलदावलिपल्लवाः ।

लीलापद्माकरे स्त्रीणां विलूनाकल्पपादपाः

॥१४॥

बालनिःश्वासचलिताः कन्दुकानि कुलाचलाः ।

संध्याम्बुदाः कर्णपूराश्चामराः शरदम्बुदाः

॥१५॥

कल्पान्तकालजलदास्तालवृन्तपदं गताः ।

भूतलं द्यूतफलकं वितानं तारकाम्बरम्

॥१६॥

भूतशारपरावर्ते द्यूतेऽक्षाः शशिभानवः ।

व्योमाजिरे जगद्भासपणे गृहनिवासिनाम्

॥१७॥

इति संकल्प एवान्तश्चिरभावनया यथा ।

अग्रस्थदृश्योपमया सत्यतामिव गच्छति

॥१८॥

तथैवायं जगद्रूपः संकल्पैः सुसमुत्थितः ।

चिच्चमत्कारमात्रात्मा चित्रकृच्चित्तचित्रवत्

॥१९॥

असत्यमेव स्फुरति सर्वमस्ति च नास्ति च ।

असदुत्थित एवायं कुतोपीव समुत्थितः

॥२०॥

हेम्नीव कटकादित्वं संसारोदरकोटरः ।

चिच्चमत्कार एवायमविकल्पनसंक्षयः

॥२१॥

अत्यन्तमेव स्वायत्तो यथेच्छसि तथा कुरु ।

यश्चान्नपानदानादावनादरमुपेयिवान् ।

तस्येदं पश्चिमं जन्म न स कर्म समुज्झति

॥२२॥

प्राप्तो विवेकपदवीमसि पावनात्मन्पुण्यां पवित्रितजगत्त्रितया द्वितीयाम् ।

नाधः पतिष्यसि पुनर्मनसाऽमुनेति जानामि मौनममलं पदमुत्सृज त्वम्

॥२३॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाण० उत्तरार्धे विद्याधरो० मायामण्डपवर्णनं नामाष्टमः सर्गः ।।८।।