मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः १३०

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 130

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवाल्मीकिरुवाच ।

अथ राम उवाचास्य मुने केन विपश्चितः ।

स्यादुपायेन दुःखान्तः प्राक्तनात्मोदयादिति

॥१॥

श्रीवसिष्ठ उवाच ।

येनैवाभ्युदिता यस्य तस्य तेन विना गतिः ।

न शोभते न सुखदा न हिताय न सत्फला ।।

विपश्चितोऽग्निः शरणं तत्प्रवेशादयं मृगः ।

पूर्वरूपमवाप्नोति निर्मलं कनकं यथा

॥३॥

करोम्येतदहं सर्वं दृश्यतां दर्शयामि वः ।

अग्निप्रवेशं हरिणः करोत्येषोऽधुना पुरः

॥४॥

श्रीवाल्मीकिरुवाच ।

इत्युक्त्वा स मुनिस्तत्र वसिष्ठः श्रेष्ठचेष्टितः ।

उपस्पृश्य यथान्यायं स्वकमण्डलुवारिणा

॥५॥

दध्यावनिन्धनं वह्निं ज्वालापुञ्जमयात्मकम् ।

तद्ध्यानेन सभामध्याज्ज्वालाजालं समुद्ययौ

॥६॥

अङ्गाररहिताकारमिन्धनेन विवर्जितम् ।

स्वच्छं धमधमायन्तमधूममपकज्जलम्

॥७॥

मुग्धमुग्धकचत्कान्ति हेममन्दिरसुन्दरम् ।

उत्फुल्लकिंशुकाकारं संध्याम्बुदवदुत्थितम्

॥८॥

दूरापसृतसभ्यं तज्ज्वालाजालं विलोकयन् ।

मृगः प्राग्भक्तिभावेन प्रोल्ललास विलोकितैः

॥९॥

तं समालोकयन्वह्निं विविक्षुः क्षीणदुष्कृतः ।

पश्चादुपससाराशु दूरं सिंह इवोत्पतन्

॥१०॥

एतस्मिन्नन्तरे ध्याने विचार्य मुनिपुङ्गवः ।

मृगं विलोकितैः क्षीणपापं कुर्वन्नुवाच ह

॥११॥

संस्मृत्य प्राक्तनीं भक्तिं भगवन्हव्यवाहन ।

कुरु कारुण्यतः कान्तं मृगमेनं विपश्चितम्

॥१२॥

वदत्येवं मुनौ दूराद्धावित्वा नृपसंसदि ।

मृगोऽग्निं वेगनिर्मुक्तः शरो लक्ष्यमिवाविशत्

॥१३॥

ज्वालाजालं प्रविष्टोऽसावादर्श इव बिम्बितः ।

संध्याभ्र इव विश्रान्तो दृष्टः स्पष्टशरीरकः

॥१४॥

स पश्यत्स्वेव सभ्येषु मृगोऽथ नरतामगात् ।

ज्वालोदरे नभस्यभ्रलवो रूपान्तरं यथा

॥१५॥

अदृश्यताथ ज्वालायामन्तःकनककान्तिमान् ।

पुरुषः पावनाकारः कान्तावयवसुन्दरः

॥१६॥

अर्कबिम्ब इवादित्यश्चन्द्रबिम्ब इवोडुपः ।

महाम्भसीव वरुणः संध्याभ्र इव वा शशी

॥१७॥

चक्षुःकनीनिकाकोशे मुकुरे सलिले मणौ ।

प्रतिबिम्ब इवार्काभो भक्तिनाधारपावकः

॥१८॥

अनन्तरं सभामध्याद्वातैर्दीप इवाहतः ।

ज्वालाजालं ययौ क्वापि संध्याम्बुद इवाम्बरात्

॥१९॥

कुटीकुड्येषु भग्नेषु प्रतिबिम्ब इवामरः ।

अतिष्ठत्पुरुषस्तत्र पटान्नट इवोद्गतः

॥२०॥

अक्षमालाधरः शान्तो हेमयज्ञोपवीतवान् ।

अग्निशौचाम्बरच्छन्नः सद्यश्चन्द्र इवोदितः

॥२१॥

अहो भा इति सभ्योक्त्या तस्य वेषस्य भासनात् ।

भास्वानिव विशालाभो भास इत्येष शब्दितः

॥२२॥

असौ मूर्त इवाभासो भासनाम्ना भविष्यति ।

सभास्थैः कैश्चिदित्युक्तं तेन भासः स उच्यते

॥२३॥

अथोपविश्य तत्रैव स भासो ध्यानसंस्थितः ।

आत्मोदन्तमशेषेण सस्मार प्राक्तनं तनौ

॥२४॥

सभालोके गतस्पन्दे स्मयेनात्मनि तिष्ठति ।

भासो मुहूर्तमात्रेण दृष्ट्वा स्वोदन्तमक्षतम्

॥२५॥

आययौ पूर्वजन्मभ्यो ध्यानालोकाद्व्यबुध्यत ।

सभामालोकयामास समुत्थाय यथाक्रमम्

॥२६॥

स चागत्य वसिष्ठाय प्रणाममकरोन्मुदा ।

ज्ञानार्कप्राणद ब्रह्मन्नमस्तेऽस्त्वित्युदाहरत्

॥२७॥

तमुवाच वसिष्ठोऽपि हस्तेन शिरसि स्पृशन् ।

अद्य ते सुचिराद्राजन्नविद्यायाः क्षयोऽस्त्विति

॥२८॥

रामं जयेति जल्पन्तं नतं दशरथोऽथ तम् ।

आसनात्किंचिदुत्तिष्ठन्समुवाच हसन्निव

॥२९॥

दशरथ उवाच ।

स्वागतं तेऽस्तु भो राजन्निदमासनमास्यताम् ।

अनेकभवसंभारभ्रान्त विश्रम्यतामिह

॥३०॥

श्रीवाल्मीकिरुवाच ।

वदत्येवं दशरथे विपश्चिद्भासनामभृत् ।

विवेश विष्टरे विश्वामित्रादीन्प्रणमन्मुनीन्

॥३१॥

दशरथ उवाच ।

अहो बत चिरं कालमालानेनेव दन्तिना ।

वन्येनाविद्यया दुःखमनुभूतं विपश्चिता

॥३२॥

असम्यग्बोधदुर्दृष्टेरहो नु विषमा गतिः ।

व्योम्न्येव दर्शयत्येषा सर्गाडम्बरसंभ्रमम्

॥३३॥

कियन्त्याश्चर्यमेतानि जगन्ति विततात्मनि ।

संततानि चिरं तानि विभ्रान्तानि विपश्चिता

॥३४॥

व्योमात्मनोऽपि महिमायमहो नु कीदृगस्य स्वभावविभवस्य चिदात्मवृत्तेः ।

यः शून्य एव परमात्मघनेऽम्बरेऽन्तरेवंविधानि विविधानि जगन्ति भान्ति

॥३५॥

इत्यार्षे श्रीवासिष्ठमहा० वाल्मीकीये दे० मो० निर्वाण० उ० अ० वि० मृगवह्निप्रवेशो नाम त्रिंशदधिकशततमः सर्गः ।। १३० ।।