मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — वैराग्यप्रकरणम् — सर्गः ११

3
योगवासिष्ठम् · वैराग्यप्रकरणम् · 11

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

विश्वामित्र उवाच ।

एवं चेत्तन्महाप्राज्ञा भवन्तो रघुनन्दनम् ।

इहानयन्तु त्वरिता हरिणं हरिणा इव

॥१॥

एष मोहो रघुपतेर्नापद्भ्यो न च रागतः ।

विवेकवैराग्यवतो बोध एव महोदयः

॥२॥

इहायातु क्षणाद्राम इह चैव वयं क्षणात् ।

मोहं तस्यापनेष्यामो मारुतोऽद्रेर्घनं यथा

॥३॥

एतस्मिन्मार्जिते युक्त्या मोहे स रघुनन्दनः ।

विश्रान्तिमेष्यति पदे तस्मिन्वयमिवोत्तमे

॥४॥

सत्यतां मुदितां प्रज्ञां विश्रान्तिमपतापताम् ।

पीनतां वरवर्णत्वं पीतामृत इवैष्यति

॥५॥

निजां च प्रकृतामेव व्यवहारपरम्पराम् ।

परिपूर्णमना मान्य आचरिष्यत्यखण्डितम्

॥६॥

भविष्यति महासत्त्वो ज्ञातलोकपरावरः ।

सुखदुःखदशाहीनः समलोष्टाश्मकाञ्चनः

॥७॥

इत्युक्ते मुनिनाथेन राजा संपूर्णमानसः ।

प्राहिणोद्राममानेतुं भूयो दूतपरम्पराम्

॥८॥

एतावताथ कालेन रामो निजगृहासनात् ।

पितुः सकाशमागन्तुमुत्थितोऽर्क इवाचलात्

॥९॥

वृतः कतिपयैर्भृत्यैर्भ्रातृभ्यां च जगाम ह ।

तत्पुण्यं स्वपितुः स्थानं स्वर्गं सुरपतेरिव

॥१०॥

दूरादेव ददर्शासौ रामो दशरथं तदा ।

वृतं राजसमूहेन देवौघेनेव वासवम्

॥११॥

वसिष्ठविश्वामित्राभ्यां सेवितं पार्श्वयोर्द्वयोः ।

सर्वशास्त्रार्थतज्ज्ञेन मन्त्रिवृन्देन मालितम्

॥१२॥

चारुचामरहस्ताभिः कान्ताभिः समुपासितम् ।

ककुब्भिरिव मूर्ताभिः संस्थिताभिर्यथोचितम्

॥१३॥

वसिष्ठविश्वामित्राद्यास्तथा दशरथादयः ।

ददृशू राघवं दूरादुपायान्तं गुहोपमम्

॥१४॥

सत्त्वावष्टब्धगर्भेण शल्येनेव हिमाचलम् ।

श्रितं सकलसेव्येन गम्भीरेण स्फुटेन च

॥१५॥

सौम्यं समं शुभाकारं विनयोदारमानसम् ।

कान्तोपशान्तवपुषं परस्यार्थस्य भाजनम्

॥१६॥

समुद्यद्यौवनारम्भं वृद्धोपशमशोभनम् ।

अनुद्विग्नमनानन्दं पूर्णप्रायमनोरथम्

॥१७॥

विचारितजगद्यात्रं पवित्रगुणगोचरम् ।

महासत्त्वैकलोभेन गुणैरिव समाश्रितम्

॥१८॥

उदारमार्यमापूर्णमन्तःकरणकोटरम्।

अविक्षुभितया वृत्त्या दर्शयन्तमनुत्तमम्

॥१९॥

एवङ्गुणगणाकीर्णो दूरादेव रघूद्वहः ।

परिमेयस्मिताच्छाच्छस्वहाराम्बरपल्लवः

॥२०॥

प्रणनाम चलच्चारुचूडामणिमरीचिना ।

शिरसा वसुधाकम्पलोलदेवाचलश्रिया

॥२१॥

एवं मुनीन्द्रे ब्रुवति पितुः पादाभिवन्दनम्।

कर्तुमभ्याजगामाथ रामः कमललोचनः

॥२२॥

प्रथमं पितरं पश्चान्मुनी मान्यैकमानितौ ।

ततो विप्रांस्ततो बन्धूंस्ततो गुरुगणान्सुहृत्

॥२३॥

जग्राह च ततो दृष्ट्या मनाङ्मूर्ध्ना तथा गिरा ।

राजलोकेन विहितां तां प्रणामपरम्पराम्

॥२४॥

विहिताशीर्मुनिभ्यां तु रामः सुसममानसः ।

आससाद पितुः पुण्यं समीपं सुरसुन्दरः

॥२५॥

पादाभिवन्दनपरं तमथासौ महीपतिः ।

शिरस्यभ्यालिलिङ्गाशु चुचुम्ब च पुनःपुनः

॥२६॥

शत्रुघ्नं लक्ष्मणं चैव तथैव परवीरहा ।

आलिलिङ्ग घनस्नेहो राजहंसोऽम्बुजे यथा

॥२७॥

उत्सङ्गे पुत्र तिष्ठेति वदत्यथ महीपतौ ।

भूमौ परिजनास्तीर्णे सोंऽशुकेऽथ न्यविक्षत

॥२८॥

राजोवाच ।

पुत्र प्राप्तविवेकस्त्वं कल्याणानां च भाजनम् ।

जडवज्जीर्णया बुद्ध्या खेदायात्मा न दीयताम्

॥२९॥

वृद्धविप्रगुरुप्रोक्तं त्वादृशेनानुतिष्ठता ।

पदमासाद्यते पुण्यं न मोहमनुधावता

॥३०॥

तावदेवाऽऽपदो दूरे तिष्ठन्ति परिपेलवाः ।

यावदेव न मोहस्य प्रसरः पुत्र दीयते

॥३१॥

श्रीवसिष्ठ उवाच ।

राजपुत्र महाबाहो शूरस्त्वं विजितास्त्वया ।

दुरुच्छेदा दुरारम्भा अप्यमी विषयारयः

॥३२॥

किमतज्ज्ञ इवाज्ञानां योग्ये व्यामोहसागरे ।

विनिमज्जसि कल्लोलबहुले जाड्यशालिनि

॥३३॥

विश्वामित्र उवाच

चलन्नीलोत्पलव्यूहसमलोचनलोलताम् ।

ब्रूहि चेतःकृतां त्यक्त्वा हेतुना केन मुह्यसि

॥३४॥

किंनिष्ठाः के च ते केन कियन्तः कारणेन ते ।

आधयः प्रविलुम्पन्ति मनो गेहमिवाखवः

॥३५॥

मन्ये नानुचितानां त्वमाधीनां पदमुत्तमम् ।

आपत्सु चाऽप्रयोज्यं ते निहीना अपि चाधयः

॥३६॥

यथाभिमतमाशु त्वं ब्रूहि प्राप्स्यसि चानघ ।

सर्वमेव पुनर्येन भेत्स्यन्ते त्वां तु नाधयः

॥३७॥

इत्युक्तमस्य सुमते रघुवंशकेतु-

राकर्ण्य वाक्यमुचितार्थविलासगर्भम् ।

तत्याज खेदमभिगर्जति वारिवाहे

बर्ही यथा त्वनुमिताभिमतार्थसिद्धिः

॥३८॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे राघवसमाश्वासनं नामैकादशः सर्गः ।। ११ ।।