मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — पूर्वार्धम् — सर्गः ७१

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — पूर्वार्धम् · 71

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

इत्युक्तवति वेताले वक्तुं प्रश्नान्विहस्य सः ।

उवाच वचनं राजा दन्तांशुधवलाम्बरः

॥१॥

राजोवाच ।

आस्ते कदाचिच्चेदं हि ब्रह्माण्डमजरं फलम् ।

उत्तरोत्तरं दशगुणभूतत्वक्परिवेष्टितम्

॥२॥

तादृशानां सहस्राणि फलानि यत्र सन्ति हि ।

अत्युच्चैस्तादृशी शाखा विपुला चलपल्लवा

॥३॥

तादृशानां सहस्राणि शाखानां यत्र सन्त्यथ ।

तादृशोऽस्ति महावृक्षो दुर्लक्ष्यो विपुलाकृतिः

॥४॥

तादृशानां सहस्राणि यत्र सन्ति महीरुहाम् ।

तादृशं वनमत्युच्चैरनन्ततरुगुल्मकम्

॥५॥

तादृशानां सहस्राणि वनानां यत्र सन्त्यथ ।

तादृगस्ति वृहच्छृङ्गमत्युच्चैर्भरिताकृति

॥६॥

तादृशानां सहस्राणि श्रृङ्गाणां यत्र सन्त्यथ ।

तादृशोऽस्त्यतिविस्तीर्णो देशो विपुलकोटरः

॥७॥

तादृशानां सहस्राणि देशानां यत्र सन्त्यथ ।

तादृगस्ति वृहद्द्वीपं महाह्रदनदीयुतम्

॥८॥

तादृशानां सहस्राणि द्वीपानां यत्र सन्त्यथ ।

तादृगस्ति महीपीठं विचित्ररचनान्वितम्

॥९॥

तादृशानां सहस्राणि पृथ्वीनां यत्र सन्त्यथ ।

तादृगस्ति महास्फारं महाभुवनडम्बरम्

॥१०॥

तादृशानां सहस्त्राणि जगतां यत्र सन्त्यथ ।

तादृगस्ति महच्चाण्डं चण्डमम्बरपीठवत्

॥११॥

तादृशानां सहस्राणि यत्राण्डानि करण्डकाः ।

तादृशोऽस्ति गतस्पन्दो विपुलाब्धिश्च सागरः

॥१२॥

तादृक्सागरलक्षाणि तरङ्गो यत्र पेलवः ।

तादृशः स्वविलासात्मा निर्मलोऽस्ति महार्णवः

॥१३॥

तादृगब्धिसहस्राणि यस्योदरजलान्यथ ।

तादृशोऽस्ति पुमान्कश्चिदत्युच्चैर्भरिताकृतिः

॥१४॥

तादृशानां नृणां लक्षैर्यस्य मालोरसि स्थिता ।

प्रधानं सर्वसत्तानां तादृशोऽस्ति परः पुमान्

॥१५॥

तादृशानां सहस्राणि पुरुषाणां महात्मनाम् ।

स्फुरन्ति मण्डले यस्य स्वतनूरुहजालवत्

॥१६॥

तादृशोऽस्ति महादित्यः शतमन्यासु दृष्टिषु ।

या एताः कलनाः सर्वास्ता एतास्तस्य दीप्तयः

॥१७॥

अस्यादित्यस्य दीप्तीनां ब्रह्माण्डास्त्रसरेणवः ।

मया चित्सूर्य इत्युक्तः सर्वमेतत्तपत्यसौ

॥१८॥

विज्ञानात्मैव परमो भास्करो भाविताशयः ।

इमे ये भुवनाभोगास्तस्यैव त्रसरेणवः

॥१९॥

विज्ञानपरमार्कस्य भासा भान्ति भवन्ति च ।

इमा जगदहर्लक्ष्म्यः क्वचिल्लक्ष्म्यो रवेरिव

॥२०॥

विज्ञानमात्रकचितात्मनि जन्तुजाते

त्रैलोक्यमण्डपमणेरविकासभाजि ।

चिज्जन्मनोर्भवनसंभ्रमतावलेखाः

सन्तीह रे न हि मनागपि शान्तमास्स्व

॥२१॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देव० मोक्षोपायेषु निर्वाणप्रकरणे पू० वेतालप्रथमप्रश्नोत्तरवर्णनं नामैकसप्ततितमः सर्गः ।।७१।।