मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — स्थितिप्रकरणम् — सर्गः ३८

3
योगवासिष्ठम् · स्थितिप्रकरणम् · 38

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

एवं स्थिते तु तज्ज्ञानां यदेतत्कर्तृत्वं दृश्यते सुख-

दुःखादिषु योगादिषु वा तदसन्नतु मूर्खाणाम्

॥१॥

यतः कर्तृत्वं नाम किमुच्यते । यो ह्यन्तस्थाया

मनोवृत्तेर्निश्चय उपादेयताप्रत्ययो वासनाभिधान-

स्तत्कर्तृत्वशब्देनोच्यते

॥२॥

चेष्टावशात्तादृक्फलभोक्तृत्वं वासनानुरूपं स्प-

न्दते पुरुषः स्पन्दानुरूपं फलमनुभवति । फलभो-

क्तृत्वं नाम. कर्तृत्वादिति सिद्धान्तः

॥३॥

तथाच ।

कुर्वतोऽकुर्वतो वापि स्वर्गेऽपि नरकेऽपि वा ।

यादृग्वासनमेतत्स्यान्मनस्तदनुभूयते

॥४॥

तस्मादज्ञाततत्त्वानां पुंसां कुर्वतामकुर्वतां च

कर्तृता नतु ज्ञाततत्त्वानामवासनत्वात्

॥५॥

ज्ञाततत्त्वो हि शिथिलीभूतवासनः कुर्वन्नपि

फलं नानुसंदधाति । अथच स्पन्दनमात्रं केवलं

करोत्यसक्तबुद्धिः संप्राप्तमपि फलमात्मैवेदं सर्वमेव

कर्मफलमनुभवत्यकुर्वन्नपि करोति मग्नमनाः

॥६॥

मनो यत्करोति तत्कृतं भवति यन्न करोति तन्न

कृतं भवति अतो मन एव कर्तृ न देहः

॥७॥

चित्तादेवायं संसार आगतश्चित्तमय एव चित्त-

मात्रं चित्त एव स्थित इति विज्ञातम् । विषयश्च

मृगतृ- सर्वमुपशान्तमभूद्वासनैवेति ज्ञ एवास्तीति

॥८॥

आत्मविदां हि तन्मनः परमुपशममागतं

मृगतृष्णाजलमिव वर्षति जलदे हिमकण इव चण्डातपे

विलीनं तुर्यदशामुपागतं स्थितम्

॥९॥

नानन्दं न निरानन्दं न चलं नाचलं स्थिरम् ।

न सन्नासन्न चैतेषां मध्यं ज्ञानिमनो विदुः

॥१०॥

न वासनामये स्पन्दरसे गज इव पल्वले मज्जति

तज्ज्ञो मूर्खमनोभोगभूमिमेव पश्यति न सत्तत्त्वं

॥११॥

तथाचायमत्रापरो दृष्टान्तः । अकुर्वन्नपि श्वभ्र-

पतनं श्तयासनगतोऽपि श्वभ्रपातवासनावासिते

चेतसि श्वभ्रपतनदुःखमनुभवति । अपरस्तु कुर्व-

न्नपि श्वभ्रपतनं परममुपशममुपगतवति मनसि

शय्यासनसुखमनुभवति । एवमनयोः शय्यासन-

श्वभ्रपातयोरेकः श्वभ्रपतनस्याकर्तापि कर्ता संपन्नो

द्वितीयश्च श्वभ्रपतनस्य कर्ताप्यकर्ता संपन्नश्चित्त-

वशात्तस्माद्यच्चित्तं तन्मयो भवति पुरुष इति

सिद्धान्तः

॥१२॥

तेन तत्र कर्तुरकर्तुर्वा नित्यमसंसक्तं भवतु चेतो

नहि किंचिदस्त्यात्मतत्त्वव्यतिरिक्तं यत्र संसक्ति-

र्भाव्यते । यत्किंचिदिदं जगद्गतं तत्सर्वं शुद्धचित्त-

त्वादाभासमवेहि

॥१३॥

एवं चास्य ज्ञातज्ञेयस्य पुंसो नामात्मा सुखदुः-

खानां न गम्य इति निश्चये जाते नात्मव्यतिरिक्ता

आधाराधेयदृष्टयो विद्यन्त इति निश्चये जाते कर्ता

भोक्तासर्वपदार्थव्यतिरिक्तोबालाग्रसहस्रभागोऽह-

मिति निश्चये जाते यत्किंचिदिदं तत्सर्वमहमेवेति

वा निश्चये जाते सर्वसत्त्वावभासकः सर्वगस्तिष्ठा-

म्येवाहमिति निश्चये जाते नाहं सुखदुःखानां गम्य

इति विगतज्वरतया चित्तवृत्तिर्लीलयैव तिष्ठते

व्यवहारेषु

॥१४॥

तज्ज्ञस्य संकटे च मुदितैव केवलं ज्योत्स्नेव

भुवनभावमलंकरोति येन चित्तादृते तु ज्ञः कुर्वन्न

प्यकर्ता संपन्नो मनसोऽलेपकत्वान्नासौ पादपा

ण्यादिविक्षेपस्य यत्नकृतस्यापि कर्मणः फलमनु-

भवति

॥१५॥

एवं मनः सर्वकर्मणां सर्वेहितानां सर्वभावानां

सर्वलोकानां सर्वगतीनां बीजं तस्मिन्परिहृते सर्व-

कर्माणि परिहृतानि भवन्ति सर्वदुःखानि क्षीयन्ते

सर्वकर्माणि लयमुपयान्ति । मानसेनापि कर्मणा

यत्कृतेनापि ज्ञो नाक्रम्यते न विवशीक्रियते न

रञ्जनामुपैत्यव्यतिरिक्तात्

॥१६॥

यथा बालो मनसा नगरस्य निर्माणं निर्मृष्टं च

कुर्वंन्नगरनिर्माणं मनःकृतमकृतमिव लीलयानुभ-

वति नोपादेयतयासुखदुःखमकृत्रिममिति पश्यति

नगरनिर्मथनं च मनःकृतं कृतमिति पश्यतीति

दुःखमपि लीलयानुभवन्नपि न दुःखमिति पश्यति ।

एवमसौपरमार्थतःकुर्वन्नपि न लिप्यत एवेति

॥१७॥

सर्वभावेषु हेयोपादेयताभ्यां जगति किं कारणं

दुःखस्य न चोपादेये किंचिदपि संभवति यदविनाशं

व्यतिरिक्तं चात्मनस्तस्मादयमात्माऽकर्ताऽभोक्ताऽ-

तत्त्वतो यदेतत्कर्तृत्वं च स्वध्यारोप्यते

॥१८॥

आवश्यकं तत्सम्यग्दर्शनमोहान्न वस्तुत इति

यथाभूतवस्तुविचारणात्कर्तृत्वभोक्तृत्वे न स्तः ।

इन्द्रियेन्द्रियार्थद्वेषाभिलाषादिका दृष्टयस्तद्दृष्टीनां

दृश्यन्ते नातद्दृष्टीनाम्

॥१९॥

मोक्षोऽस्ति न संसारे स्वसंसक्तमनसामिहासं-

सक्तमनसां त्वेतत्सर्वमेवास्ति

॥२०॥

यथास्थितं ज्ञस्य केवलमात्मतत्वमेवोल्लसति

तद्वित्वैकत्ववादिसिद्धे द्वित्वैकत्वे करोति सत्त्वा-

सत्त्वे करोति शक्तिजालादभिन्नां सर्वशक्तितां च

दर्शयति तस्य

॥२१॥

न बन्धोऽस्ति न मोक्षोऽस्ति नाबन्धोस्ति न बन्धनम्।

अप्रबोधादिदं दुःखं प्रबोधात्प्रविलीयते

॥२२॥

संकल्पिता जगति मोक्षमतिर्मुधैव

संकल्पिता जगति बन्धमतिर्मुधैव ।

संत्यज्य सर्वमनहंकृतिरात्मनिष्ठो

धीरो धिया व्यवहरन्भुवि राम तिष्ठ

॥२३॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० स्थितिप्रकरणे उपशमवर्णनं नाम अष्टत्रिंशः सर्गः ।। ३८ ।।