मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — स्थितिप्रकरणम् — सर्गः ४२

3
योगवासिष्ठम् · स्थितिप्रकरणम् · 42

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

कुपितस्यासतोऽप्यस्य प्रेक्षामात्रविनाशिनः ।

अविद्याविततव्याधेरौषधं श्रृणु राघव

॥१॥

यां तां कथयितुं जातिं राम राजससात्त्विकीम् ।

मनोवीर्यविचारार्थं प्रस्तुतोऽस्मीह तां श्रृणु

॥२॥

यत्तदप्यमृतं ब्रह्म सर्वव्यापि निरामयम् ।

चिदाभासमनन्ताख्यमनादि विगतभ्रमम्

॥३॥

चित्स्पन्दवपुषस्तस्य स्पन्दस्तस्माच्चिदेव हि ।

प्रदेशाद्धनतामेति सौम्योऽब्धिश्चलनादिव

॥४॥

अन्तरब्धेर्जलं यद्वत्स्पन्दास्पन्दवदीहते ।।

सर्वशक्तिस्तथैकत्र गच्छति स्पन्दशक्तिताम्

॥५॥

आत्मन्येवात्मना व्योम्नि यथा सरति मारुतः ।

तथेहात्मात्मशक्त्यैव स्वात्मन्येवैति लोलताम्

॥६॥

स्वशिखास्पन्दशक्त्यैव दीपः सौम्यो यथोन्नतम् ।

एति तद्वदसावात्मा तत्स्वे वपुषि वल्गति

॥७॥

जलान्तरेऽम्बुधिर्यद्वल्लसद्वारीव चञ्चलः ।

सर्वशक्तिर्वपुष्येव तथा स्पन्दविलासवान्

॥८॥

यथोल्लसति भाश्चक्रैः कचन्कनकसागरः ।

तथात्मनि परिस्पन्दैः स्फुरत्यक्षैश्चिदर्णवः

॥९॥

लक्ष्यते मौक्तिकस्पन्दो यथा व्योम्नि दृशोऽदृशि ।

तथा भाति लसद्रूपा चिच्छक्तिश्चिन्महाम्बरे

॥१०॥

किंचित्क्षुभितरूपा सा चिच्छक्तिश्चिन्महार्णवे ।

तन्मयी चित्स्फुरत्यच्छा तत्रैवोर्मिरिवार्णवे

॥११॥

आत्मनोऽव्यतिरिक्तैव व्यतिरिक्तेव तिष्ठति ।

आलोकश्रीरिवालोककोटरे यत्ततां गता

॥१२॥

क्षणं स्फुरति सा देवी सर्वशक्तितया तया ।

चेतति स्वां स्वयं शक्तिं कलेन्दोः शीततामिव

॥१३॥

उदितैषा प्रकाशाख्या चिच्छक्तिः परमात्मनः ।

देशकालक्रियाशक्तीर्वयस्याः संप्रकर्षति

॥१४॥

स्वस्वभावं विदित्वैवमनाद्यन्तपदे स्थिता ।

रूपं परिमितेवासौ भावयत्यविभाविता

॥१५॥

यदैवंभावितं रूपं तया परमसत्तया ।

तदैवैनामनुगता नामसंख्यादिका दृशः

॥१६॥

चिदेवैतदवस्त्वेव व्यतिरिक्ता तथात्मनः ।

अनन्ता तद्गतैवाशु लहरीव महार्णवात्

॥१७॥

यथा कटककेयूरैर्भेदो हेम्नो विलक्षणः ।

तथात्मनश्चितो रूपं भावयन्त्याः स्वमांशिकम्

॥१८॥

यथा दीपेन दीपानां जातानामात्मनां तथा ।

देशकालकलामात्रभेदः स्वाभाविकश्चितेः

॥१९॥

देशकालपरिस्पन्दशक्तिसन्दीपिताथ चित् ।

संकल्पमनुधावन्ती प्रयाति कलनापदम्

॥२०॥

विकल्पकलिताकारं देशकालक्रियास्पदम् ।

चितो रूपं महाबाहो क्षेत्रज्ञ इति कथ्यते

॥२१॥

क्षेत्रं शरीरमित्याहुस्तदसौ वेत्त्यखण्डितम् ।

सबाह्याभ्यन्तरं तेन क्षेत्रज्ञ इति कथ्यते

॥२२॥

वासनां कलयन्सोऽपि यात्यहंकारतां पुनः ।

अहंकारोऽपि निर्णेता कलङ्की बुद्धिरुच्यते

॥२३॥

बुद्धिः संकल्पकलिता प्रयाति मनसः पदम् ।

मनो घनविकल्पं तु गच्छतीन्द्रियतां शनैः

॥२४॥

पाणिपादमयं देहमिन्द्रियाणि विदुर्बुधाः ।

दहोऽसौ ज्ञायते लोके सूयतेऽपि च जीवति

॥२५॥

एवं जीवो हि संकल्पवासनारज्जुवेष्टितः ।

दुःखजालपरीतात्मा क्रमादायाति चित्तताम्

॥२६॥

क्रमेण पाकवशतः फलमेति यथान्यताम् ।

अवस्थयैव नाकृत्या जीवो मलवशात्तथा

॥२७॥

जीवोऽहंकारतां प्राप्तस्त्वहंकारश्च बुद्धिताम् ।

संकल्पजालकलितां मनस्तां बुद्धिरागता

॥२८॥

मनो हि संकल्पमयं संस्थाग्रहणतत्परम् ।

प्रतियोगिव्यवच्छिन्नप्राप्तिसत्यैरपीहितैः

॥२९॥

इच्छाद्याः शक्तयश्चेतो गावो वृषमिवोन्मदम् ।

अनुधावन्ति दोषाय सरितः सागरं यथा

॥३०॥

इति शक्तिमयं चेतो घनाहंकारतां गतम् ।

कोशकारक्रिमिरिव स्वेच्छया याति बन्धनम्

॥३१॥

स्वसंकल्पानुसंधानात्पाशैरिव नयन्वपुः ।

कष्टमस्मिन्स्वयं बन्धमेत्यात्मा परितप्यते

॥३२॥

बद्धमस्मीति कलयद्विद्यातत्त्वं जहच्छनैः ।

अविद्यां जनयत्यन्तर्जगज्जङ्गलराक्षसीम्

॥३३॥

स्वसंकल्पिततन्मात्रज्वालाभ्यन्तरवर्ति च ।

परां विवशतामेति श्रृङ्खलाबद्धसिंहवत्

॥३४॥

विचित्रकार्यकर्तृत्वमाहरद्वासनावशात् ।

स्वेच्छामात्रानुरचिता दशाश्चानुपतत्तथा

॥३५॥

क्वचिन्मनः क्वचिद्रुद्धिः क्वचिज्ज्ञानं क्वचित्क्रियाः ।

क्वचिदेतदहंकारः क्वचित्पुर्यष्टकं स्मृतम्

॥३६॥

क्वचित्प्रकृतिरित्युक्तं क्वचिन्मायेति कल्पितम् ।

क्वचिन्मलमितिप्रोक्तं क्वचित्कर्मेतिसंस्थितम्

॥३७॥

क्वचिद्बन्धमिति ख्यातं क्वचिच्चित्तमिति स्फुटम् ।

प्रोक्तं क्वचिदविद्येतिक्वचिदिच्छेति संस्थितम्

॥३८॥

तदेतदाबद्धमिह चित्तं राघव दुःखितम् ।

तृष्णाशोकसमाविष्टं रागायतनमाततम्

॥३९॥

जरामरणमोहान्तर्भवभावनयाहतम् ।

ईहितानीहितैर्ग्रस्तमविद्यारागरञ्जितम्

॥४०॥

इच्छासंक्षुभिताकारं कर्मवृक्षवनाङ्कुरम् ।

सुविस्मृतोत्पत्तिपदं कल्पितानर्थकल्पितम्

॥४१॥

कोशकारवदाबद्धं शोकाकारपदं गतम् ।

तन्मात्रवृन्दावयवमनन्तनरकातपम्

॥४२॥

स्वदृश्यमपि शैलेन्द्रसमभारभयावहम् ।

जरामरणशाखाढ्यं संसारविषदुर्द्रुमम्

॥४३॥

इमं संसारमखिलमाशापाशविधायकम् ।

दधदन्तः फलैर्हीनं वटधाना वटं यथा

॥४४॥

चिन्तानलशिखादग्धं कोपाजगरचर्वितम् ।

कामाब्धिकल्लोलहतं विस्मृतात्मपितामहम्

॥४५॥

मृगं यूथादिव भ्रष्टं शोकोपहतचेतनम् ।

पतङ्गकमिव ज्वालादग्धं विषयपावके

॥४६॥

छिन्नमूलमिवाम्भोजं परमां म्लानिमागतम् ।

छिन्नाङ्गमात्मनः स्थानाद्विशेषासङ्गदुःस्थितम्

॥४७॥

विषयादिषु मध्यस्थं चित्ररूपेषु शत्रुषु ।

दशास्वेतास्वनन्तासु लुठितं संकटास्विति

॥४८॥

दुःखे निपतितं घोरे विहङ्गः सागरे यथा ।

स्वबन्धास्थं जगज्जाले शून्ये गन्धर्वपत्तने

॥४९॥

उह्यमानमनास्थाब्धौ मनो विषयविद्रुतम् ।

उद्धरामरसंकाश मातङ्गमिव कर्दमात्

॥५०॥

बलीवर्दवदामग्नं मनो मदनपल्वले ।

आलूनशीर्णावयवं बलाद्राम समुद्धर

॥५१॥

शुभाशुभप्रसरपराहताकृतौ

ज्वलज्जरामरणविषादमूर्च्छिते ।

व्यथेह यस्य मनसि भो न जायते

नराकृतिर्जगति स राम राक्षसः

॥५२॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० स्थितिप्रकरणे जीवावतरणं नाम द्विचत्वारिंशः सर्गः ।। ४२ ।।