मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — पूर्वार्धम् — सर्गः ७७

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — पूर्वार्धम् · 77

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

एतामवष्टभ्य दृशं भगीरथधिया धृताम् ।

समः स्वस्थो यथाप्राप्तं कार्यमाहर शान्तधीः

॥१॥

इदं पूर्वं परित्यज्य क्रोडीकृत्य मनःखगम् ।

शान्तमात्मनि तिष्ठ त्वं शिखिध्वज इवाचलः

॥२॥

श्रीराम उवाच ।

कोऽसौ शिखिध्वजो नाम कथं वा लब्धवान्पदम् ।

एतन्मे कथय ब्रह्मन्भूयो बोधविवृद्धये

॥३॥

श्रीवसिष्ठ उवाच ।

द्वापरे भवतां पूर्वमिदानीं च भविष्यतः ।

तेनैव संनिवेशेन दंपती स्निग्धतां गतौ

॥४॥

श्रीराम उवाच ।

यत्पूर्वमासीद्भगवंस्तदिदानीं तथैव हि ।

भविष्यति किमर्थं वै वद मे वदतां वर

॥५॥

श्रीवसिष्ठ उवाच ।

जगन्निर्माणनियतेरस्या ब्रह्मादिसंविदः ।

ईदृश्यवस्थितिर्नित्यमनिवार्यस्वभावजा

॥६॥

यदन्यद्बहुशो भूत्वा पुनर्भवति भूरिशः ।

अभूत्वैव भवत्यन्यः पुनश्च न भवत्यलम्

॥७॥

अन्यत्प्राक्संनिवेशाढ्यं सादृश्येन विवल्गति ।

सदृशा विषमाश्चैव यथा सरसि वीचयः

॥८॥

ता एवान्याश्च दृश्यन्ते व्यवस्थाः संसृतौ तथा ।

तस्माद्राजेव भूयोऽपि वक्ष्यमाणकथेश्वरः

॥९॥

भविष्यति महातेजास्तद्वृत्तान्तमिमं श्रृणु ।

द्वापरे पूर्वमभवदतीते सप्तमे मनौ

॥१०॥

चतुर्युगे चतुर्थे तु सर्गेऽस्मिन्कुरुणां कुले ।

जम्बूद्वीपे प्रसिद्धस्य विन्ध्यस्यादूरसंस्थिते

॥११॥

मालवानां पुरे श्रीमाञ्छिखिध्वज इतीश्वरः ।

धैर्यौदार्यदशायुक्तः क्षमाशमदमान्वितः

॥१२॥

शूरः शुभसमाचारो मौनी गुणगणाकरः ।

आहर्ता सर्वयज्ञानां जेता सर्वधनुष्मताम्

॥१३॥

कर्ता सकलकार्याणां भर्ता पूर्ववपुर्भुवः ।

पेशलस्निग्धमधुरो विदग्धः प्रीतिसागरः

॥१४॥

सुन्दरः शान्तसुभगः प्रतापी धर्मवत्सलः ।

वदिता विनयार्थानां दाता सकलसंपदाम्

॥१५॥

भोक्ता सत्सङ्गसहितः सुश्रोता सकलश्रुतेः ।

वेदासौ माननाशून्यः स्त्रैणं तृणवदस्पृशन्

॥१६॥

पितरि स्वर्गमापन्ने बाल एवोत्तमौजसा ।

कृत्वा षोडशवर्षाणि स्वयं दिग्विजयं वशी

॥१७॥

नूनं साम्राज्यसंपत्त्या भूमण्डलमयोजयत् ।

अतिष्ठद्विगताशङ्कं पालयन्धर्मतः प्रजाः

॥१८॥

स धीमान्मन्त्रिभिः सार्धं यशसा शुक्लयन्दिशः ।

अथ गच्छत्सु वर्षेषु वसन्ते प्रोल्लसत्यलम्

॥१९॥

पुष्पेषु जृम्भमाणेषु स्फुरत्सु शशिरश्मिषु ।

मञ्जरीजालदोलासु विटपान्तःपुरान्तरे

॥२०॥

रजःकर्पूरधवले वलद्दलकपाटके ।

आमोदविलसत्पुष्पगुलुच्छकवितानके

॥२१॥

गायत्सु गहनेषूच्चैर्मिथुनेष्वलिनां मिथः ।

आवाति मधुरे वायौ शशिशीकरशीतले

॥२२॥

कदलीकन्दलीकच्छतलपल्लवलासिनि ।

कान्तां प्रति बभूवास्य वसच्चेतः समुऽत्सुकम्

॥२३॥

क्षीबं कुसुमसंभारसौगन्ध्यमधुरासवैः ।

मनो नान्यास्पदं चक्रे सवसन्तमिवोदितम्

॥२४॥

उद्यानवनदोलासु लीलाकमलिनीषु च ।

कदा प्रणयिनीं मुग्धां हेमाब्जमुकुलस्तनीम्

॥२५॥

करिष्ये कामिनीमङ्के पर्यङ्के कुङ्कुमाङ्किताम् ।

कदा कमलवल्लीनां दोलास्वलिरिवालिनीम्

॥२६॥

आलोला तां निवेक्ष्यामि बालां भुजलतानुगाम् ।

मृणालहारकुन्देन्दुवृन्दवल्लयभिलाषिणी

॥२७॥

मत्कृते मदनातप्ता कदा स्यादिन्दुसुन्दरी ।

इति चिन्तापरो भूत्वा कुसुमावचयोन्मुखः

॥२८॥

विजहार वनान्तेषु कुसुमोपवनेषु च ।

वनोपवनलेखासु लीलाकमलिनीषु च

॥२९॥

वल्लीवलयगेहेषु विविधोद्यानभूमिषु ।

वनोपवनविन्यासवर्णनावलितासु च

॥३०॥

श्रृङ्गाररसगर्भासु कथास्वरमतोन्मनाः ।

हृदि हारलसत्कायविलोलालकवल्लरीः

॥३१॥

कुमारीः पूजयामास सुवर्णकलशस्तनीः ।

एतन्मन्ये विदुर्भव्या मन्त्रिणो नृपनिश्चयम्

॥३२॥

इङ्गिताकारवेदित्वमेव मन्त्रिपदं परम् ।

अथ तस्य विवाहाय मन्त्रिवर्गो विचारयन्

॥३३॥

सुराष्ट्राधिपतेः कन्यां ययाचे यौवतान्विताम् ।

नवयौवनसंपन्नां भार्यात्वे विधिनोत्तमाम्

॥३४॥

उपयेमे स तामात्मसदृशीं प्रतिमामिव ।

चूडालेति भुवि ख्याता नाम्ना नृपतिसुन्दरी

॥३५॥

सा तं भर्तारमासाद्य रेजे फुल्लेव पद्मिनी ।

नीलनीरजनेत्रां तां चूडालां स शिखिध्वजः

॥३६॥

स्नेहाद्विकासयामास सूर्यो देवो यथाब्जिनीम् ।

अवर्धत तयोः प्रीतिरन्योन्यार्पितचेतसोः

॥३७॥

हावभावविलासाढ्यैरङ्गैर्नवलतेव सा ।

सुमन्त्र्यर्पितसर्वार्थः स सुखी सुस्थितप्रजाः

॥३८॥

राजहंस इवाब्जिन्या रेमे दयितया तया ।

अन्तःपुरेषु दोलासु लीलाकमलिनीषु च

॥३९॥

उद्यानेषु विहारेषु लतापुष्पग्रहेषु च ।

कदम्बवनलेखासु चन्दनागुरुवीथिषु

॥४०॥

मन्दारदामलोलासु कदलीकन्दलीषु च ।

पुरान्तेषु वनान्तेषु दिगन्तेषु सरस्सु च

॥४१॥

जंगलेषु जनान्तेषु जम्बूजम्बीरजातिषु ।

बभूवाह्लादकं सर्वं तयोरन्योन्यचेष्टितम्

॥४२॥

सद्वर्षयोर्धुरवरैर्द्युभूम्योरिव कान्तयोः ।

नित्यमेव वियुक्तत्वात्प्रियत्वाच्चेष्टितस्य च

॥४३॥

मिथः कलाकलापस्य कोविदौ तौ बभूवतुः ।

स्वरूपमेकमेवैतौ दधतुर्मित्रतां गतौ

॥४४॥

अन्योन्यहृदयस्थत्वादिव संक्रान्तमक्षतम् ।

सर्वशास्त्रार्थवैदग्ध्यं चित्राद्यपि मुखात्प्रभोः

॥४५॥

बालः कालादिवागृह्य साऽसीत्सर्वार्थपण्डिता ।

नृत्यवाद्यादि यावच्च चूडालावदनादसौ

॥४६॥

अशिक्षत बभूवाथ कलानामतिकोविदः ।

अमावास्यामिवेन्द्वर्कावन्योन्यविलसत्कलौ

॥४७॥

मिथो हृदयसंस्थौ तौ द्वावप्यैक्यमुपागतौ ।

तौ संस्थितावेकरसावन्योन्यं दयितावुभौ

॥४८॥

पुष्पामोदाविवाभिन्नौ भूतलस्थौ शिवाविव ।

वैदग्ध्यसुन्दरमती सर्वशास्त्रार्थपण्डितौ

॥४९॥

कार्यार्थं च भुवं प्राप्तौ कमलाकमलाधवौ ।

स्नेहात्प्रसन्नमधुरौ समविज्ञातवादिनौ

॥५०॥

अनुवृत्तिपरावास्तां लोकवृत्तान्ततद्विदौ ।

कलाकलापसंपन्नौ लसद्रसरसायनौ ।

शीतलस्निग्धमुग्धाङ्गौ शशाङ्कौ द्वाविवोदितौ

॥५१॥

रेजे लसच्च रतिभोगविलासकान्त-

मन्तःपुरेषु मिथुनं तदनुत्तमश्रि ।

ब्रह्माण्डखण्डकुहरेष्विव राजहंस-

युग्मं विकासिमदमन्मथमन्दचारि

॥५२॥

इत्यार्षे श्रीवासिष्ठमहारामा० वा० दे० मो० निर्वाण० पू० चूडालोपाख्याने शिखिध्वजविलासकथनं नाम सप्तसप्ततितमः सर्गः ।। ७७।।