मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उत्पत्तिप्रकरणम् — सर्गः २

3
योगवासिष्ठम् · उत्पत्तिप्रकरणम् · 2

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

इदमाकाशजाख्यानं श्रृणु श्रवणभूषणम् ।

उत्पत्त्याख्यं प्रकरणं येन राघव बुध्यसे

॥१॥

अस्ति ह्याकाशजो नाम द्विजः परमधार्मिकः ।

ध्यानैकनिष्ठः सततं प्रजानां च हिते रतः

॥२॥

स चिरं जीवति यदा तदा मृत्युरचिन्तयत् ।

सर्वाण्येव क्रमेणाह भूतान्यद्मि किलाक्षयः

॥३॥

एनमाकाशजं विप्रं न कस्माद्भक्षयाम्यहम् ।

अत्र मे कुण्ठिता शक्तिः खङ्गधारा इवोपले

॥४॥

इति संचिन्त्य तं हन्तुमगच्छत्तत्पुरं तदा ।

त्यजन्त्युद्यममुद्युक्ता न स्वकर्माणि केचन

॥५॥

ततस्तत्सदनं यावन्मृत्युः प्रविशति स्वयम् ।

तावदेनं दहत्यग्निः कल्पान्तज्वलनोपमः

॥६॥

अग्निज्वालामहामालां विदार्यान्तर्गतो ह्यसौ ।

द्विजं दृष्ट्वा समादातुं हस्तेनैच्छत्प्रयत्नतः

॥७॥

नचाशकत्पुरो दृष्टमपि हस्तशतैर्द्विजम् ।

बलवानप्यवष्टब्धुं संकल्पपुरुषं यथा

॥८॥

अथागत्य यमं मृत्युरपृच्छत्संशयच्छिदम् ।

किमित्यहं न शक्नोमि भोक्तुमाकाशजं विभो

॥९॥

यम उवाच ।

मृत्यो न किंचिच्छक्तस्त्वमेको मारयितुं बलात् ।

मारणीयस्य कर्माणि तत्कर्तृणीति नेतरत्

॥१०॥

तस्मादेतस्य विप्रस्य मारणीयस्य यत्नतः ।

कर्माण्यन्विष्य तेषां त्वं साहाय्येनैनमत्स्यसि

॥११॥

ततः स मृत्युर्बभ्राम तत्कर्मान्वेषणादृतः ।

मण्डलानि दिगन्तांश्च सरांसि सरितो दिशः

॥१२॥

वनजङ्गलजालानि शैलानब्धितटानि च ।

द्वीपान्तराण्यरण्यानि नगराणि पुराणि च

॥१३॥

ग्रामाण्यखिलराष्ट्राणि देशान्तर्गहनानि च ।

एवं भूमण्डलं भ्रान्त्वा न कुतश्चित्स कानिचित्

॥१४॥

तान्याकाशजकर्माणि लब्धवान्मृत्युरुद्यतः ।

वन्ध्यापुत्रमिव प्राज्ञः संकल्पाद्रिमिवापरः

॥१५॥

समपृच्छदथागत्य यमं सर्वार्थकोविदम् ।

परायणं हि प्रभवः संदेहेष्वनुजीविनाम्

॥१६॥

मृत्युरुवाच ।

आकाशजस्य कर्माणि क्व स्थितानि वद प्रभो ।

धर्मराजोऽथ संचिन्त्य सुचिरं प्रोक्तवानिदम्

॥१७॥

धर्मराज उवाच ।

आकाशजस्य कर्माणि मृत्यो सन्ति न कानिचित् ।

एष आकाशजो विप्रो जातः खादेव केवलात्

॥१८॥

आकाशादेव यो जातः स व्योमैवामलं भवेत् ।

सहकारीणि नो सन्ति न कर्माण्यस्य कानिचित्

॥१९॥

संबन्धः प्राक्तनेनास्य न मनागपि कर्मणा ।

अस्ति वन्ध्यासुतस्येव तथाऽजाताकृतेरिव

॥२०॥

कारणानामभावेन तस्मादाकाशमेव सः ।

नैतस्य पूर्वकर्मास्ति नभसीव महाद्रुमः

॥२१॥

नैतदस्यावशं चित्तमभावात्पूर्वकर्मणाम् ।

अद्य तावदनेनाद्यं न किंचित्कर्म संचितम्

॥२२॥

एवमाकाशकोशात्मा विशदाकाशरूपिणि ।

स्वकारणे स्थितो नित्यः कारणानि न कानिचित्

॥२३॥

प्राक्तनानि न सन्त्यस्य कर्माण्यद्य करोति नो ।

किंचिदप्येवमेषोऽत्र विज्ञानाकाशमात्रकः

॥२४॥

प्राणस्पन्दोऽस्य यत्कर्म लक्ष्यते चास्मदादिभिः ।

दृश्यतेऽस्माभिरेव तन्न त्वस्यास्त्यत्र कर्मधीः

॥२५॥

संस्थिता भावयन्तीव चिद्रूपैव परात्पदात् ।

भिन्नमाकारमात्मीयं चित्स्तम्भे शालभञ्जिका

॥२६॥

तथैव परमार्थात्सखात्मभूतः स्थितो द्विजः ।

यथा द्रवत्वं पयसि शून्यत्वं च यथाम्बरे

॥२७॥

स्पन्दत्वं च यथा वायोस्तथैष परमे पदे ।

कर्माण्यद्यतनान्यस्य संचितानि न सन्ति हि

॥२८॥

न पूर्वाण्येष तेनेह न संसारवशं गतः ।

सहकारिकारणानामभावे यः प्रजायते

॥२९॥

नासौ स्वकारणाद्भिन्नो भवतीत्यनुभूयते ।

कारणानामभावेन तस्मादेष स्वयंभवः

॥३०॥

कर्ता न पूर्वं नाप्यद्य कथमाक्रम्यते वद ।

यदैष कल्पनां बुद्ध्या मृतिनाम्नीं करिष्यति

॥३१॥

पृथ्व्यादिमानयमहमिति यस्य च निश्चयः ।

स पार्थिवो भवत्याशु ग्रहीतुं स च शक्यते

॥३२॥

पृथ्व्यादिकलनाभावादेष विप्रो न रूपवान् ।

दृढरज्ज्वेव गगनं ग्रहीतुं नैव युज्यते

॥३३॥

मृत्युरुवाच ।

भगवञ्जायते शून्यात्कथं नाम वदेति मे ।

पृथ्व्यादयः कथं सन्ति न सन्ति वद वा कथम्

॥३४॥

यम उवाच ।

न कदाचन जातोऽसौ न च नास्ति कदाचन ।

द्विजः केवलविज्ञानभामात्रं तत्तथा स्थितः

॥३५॥

महाप्रलयसंपत्तौ न किंचिदवशिष्यते ।

ब्रह्मास्ते शान्तमजरमनन्तात्मैव केवलम्

॥३६॥

शून्यं नित्योदितं सूक्ष्मं निरुपाधि परं स्थितम् ।

तदा तदनु येनास्य निकटेऽद्रिनिभं महः

॥३७॥

संविन्मात्रस्वभावत्वाद्देहोऽहमिति चेतति ।

काकतालीयवद्भ्रान्तमाकारं तेन पश्यति

॥३८॥

स एष ब्राह्मणस्तस्मिन्सर्गादावम्बरोदरे ।

निर्विकल्पश्चिदाकाशरूपमास्थाय संस्थितः

॥३९॥

नास्य देहो न कर्माणि न कर्तृत्वं न वासना ।

एष शुद्धचिदाकाशो विज्ञानघन आततः

॥४०॥

प्राक्तनं वासनाजालं किंचिदस्य न विद्यते ।

केवलं व्योमरूपस्य भारूपस्येव तेजसः

॥४१॥

वेदनामात्रसंशान्तावीदृशोऽपि न दृश्यते ।

तस्माद्यथा चिदाकाशस्तथा तत्प्रतिपत्तयः

॥४२॥

कुतः किलात्र पृथ्व्यादेः कीदृशः संभवः कथम् ।

एतदाक्रमणे मृत्यो तस्मान्मा यत्नवान्भव

॥४३॥

ग्रहीतुं युज्यते व्योम न कदाचन केनचित् ।

श्रुत्वैतद्विस्मितो मृत्युर्जगाम निजमन्दिरम्

॥४४॥

श्रीराम उवाच ।

ब्रह्मैष कथितो देवस्त्वया मे प्रपितामहः ।

स्वयंभूरज एकात्मा विज्ञानात्मेति मे मतिः

॥४५॥

श्रीवसिष्ठ उवाच ।

एवमेतन्मया राम ब्रह्मैष कथितस्तव ।

विवादमकरोन्मृत्युर्यमेनैतत्कृते पुरा

॥४६॥

मन्वन्तरे सर्वभक्षो यदा मृत्युर्हरन्प्रजाः ।

बलमेत्यब्जजाक्रान्तावारम्भमकरोत्स्वयम्

॥४७॥

तदैव धर्मराजेन यमेनाश्वनुशासितः ।

यदेव क्रियते नित्यं रतिस्तत्रैव जायते

॥४८॥

ब्रह्मा किल पराकाशवपुराक्रम्यते कथम् ।

मनोमात्रं च संकल्पः पृथ्व्यादिरहिताकृतिः

॥४९॥

यश्चिद्व्योमचमत्कारः किलाकारानुभूतिमान् ।

स चिद्व्योमैव नो तस्य कारणत्वं न कार्यता

॥५०॥

आकाशस्फुरदाकारः संकल्पपुरुषो यथा ।

पृथ्व्यादिरहितो भाति स्वयंभूर्भासते तथा

॥५१॥

निर्मले व्योम्नि मुक्तालीसंकल्पस्वप्नयोः पुरम् ।

अपृथ्व्यादि यथा भाति स्वयंभूर्भासते तथा

॥५२॥

न दृश्यमस्ति न द्रष्टा परमात्मनि केवले ।

स्वयंचित्ता तथाप्येष स्वयंभूरिति भासते।

॥५३॥

संकल्पमात्रमेवैतन्मनो ब्रह्मेति कथ्यते ।

संकल्पाकाशपुरुषो नास्य पृथ्व्यादि विद्यते

॥५४॥

यथा चित्रकृदन्तःस्था निर्देहा भाति पुत्रिका ।

तथैव भासते ब्रह्मा चिदाकाशाच्छरञ्जनम्

॥५५॥

चिद्व्योमकेवलमनन्तमनादिमध्यं

ब्रह्मेति भाति निजचित्तवशात्स्वयंभूः ।

आकारवानिव पुमानिव वस्तुतस्तु

वन्ध्यातनूज इव तस्य तु नास्ति देहः

॥५६॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे आद्यसृष्टिकर्तृवर्णनं नाम द्वितीयः सर्गः ।। २ ।।