मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः ७३

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 73

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीराम उवाच ।

बन्धमोक्षजगद्बुद्धिर्न शून्या नापि सन्मयी ।

नास्तमेति न चोदेति किमप्याद्यमसौ किल

॥१॥

उपदिष्टमिदं ब्रह्मंस्त्वया बुद्धमलं मया ।

भूयः कथय तृप्तिर्हि श्रृण्वतो नास्ति मेऽमृतम्

॥२॥

सर्गादिसंभ्रमदृशः शून्यतादिदृशस्तथा ।

न काश्चन विभो सत्या असत्याश्च न काश्चन

॥३॥

एवंस्थिते तु यत्सत्यं तत्सर्वं बुद्धवानहम् ।

तथापि भूयोबोधाय सर्गानुभव उच्यताम्

॥४॥

श्रीवसिष्ठ उवाच ।

यदिदं दृश्यते किंचिज्जगत्स्थावरजङ्गमम् ।

सर्वं सर्वप्रकाराढ्यं देशकालक्रियादिमत्

॥५॥

तस्य नाशे महानाशे महाप्रलयनामनि ।

ब्रह्मोपेन्द्रमरुद्रुद्रमहेन्द्रपरिणामिनि

॥६॥

शिष्यते शान्तमत्यच्छं किमप्यजमनादि सत् ।

यतो वाचो निवर्तन्ते किमन्यदवगम्यते

॥७॥

सर्षपापेक्षया मेरुर्यथातिवितताकृतिः ।

तथाकाशमपि स्थूलं शून्यं सद्यदपेक्षया

॥८॥

शैलेन्द्रापेक्षया सूक्ष्मा यथेमे त्रसरेणवः ।

तथा सूक्ष्मतरं स्थूलं ब्रह्माण्डं यदपेक्षया

॥९॥

अमानकलिते सौम्ये काले परिणते चिरम् ।

शान्ते तस्मिन्परे व्योमन्याद्ये ह्यनुभवात्मनि

॥१०॥

असंकल्पो महाशान्तो दिक्कालैरमिताकृतिः ।

अन्तर्महांश्चिदाकाशो वेत्तीव परमाणुताम्

॥११॥

असत्यामेव तामन्तर्भावयन्स्वप्नवत्स्वतः ।

ततः स ब्रह्मशब्दार्थं वेत्ति चिद्रूपतां तताम्

॥१२॥

चिद्भावोऽनुभवत्यन्तश्चित्त्वाच्चिदणुतां निजाम् ।

तामेव पश्यतीवाथ ततो द्रष्टेव तिष्ठति

॥१३॥

यथा स्वप्ने मृतं पश्यत्येक एवात्मनात्मनि ।

मृत एव मृतेर्द्रष्टा तथा चिदणुरात्मनि

॥१४॥

ततश्चिद्भाव एषोऽन्तरेक एव द्वितामिव ।

पश्यन्स्वरूप एवास्ते द्रष्टृदृश्यमिव स्थितः

॥१५॥

चिद्भावशून्य एवातिनिराकारोऽप्यणुं तनुम् ।

पश्यन्दृश्यमिवोदेति द्रष्टेव च तदा द्विताम्

॥१६॥

प्रकाशमणुमात्मानं पश्यंस्तदनुभावतः ।

उच्छूनतां चेतयते बीजमङ्कुरतामिव

॥१७॥

देशकालक्रियाद्रव्यद्रष्टृदर्शनदृग्दृशः ।

अर्थान्तरस्वभावेन तिष्ठन्त्यनुदिताभिधाः

॥१८॥

चिदणुर्यत्र भातोऽसौ देशो मितिमुपागतः ।

यदा भातस्तदा कालो यद्भानं तत्क्रिया स्मृता

॥१९॥

उपलब्धं विदुर्द्रव्यं द्रष्टृताप्युपलब्धता ।

आलोकनं दर्शनता दृगालोकनकारणम्

॥२०॥

एवमुच्छूनता भाति मितानन्ताथ वा क्रमात् ।

असत्यैव नभस्येव नभोरूपैव निष्क्रमा

॥२१॥

चिदणोर्भासनं भातं तत्प्रदेशेन देहगम् ।

येन पश्यति तच्चक्षुः संग्रहोऽक्षदृशामिति

॥२२॥

चिदणुप्रतिभासेऽन्तः प्रथमं नामवर्जितम् ।

तन्मात्रशब्दमेतेषामेतदाकाशरूपि तत्

॥२३॥

चिदणुप्रतिभाकाशपिण्ड एव घनस्थितिः ।

अनुसंधानविवशश्चेततीन्द्रियपञ्चकम्

॥२४॥

एवं चिदणुसंधानं दृश्यपोषमुपैत्यलम् ।

तदेव ज्ञानमित्युक्तं बुद्धिरित्यभिधीयते

॥२५॥

ततो मनस्तदारूढमहंकारपदं गतम् ।

देशकालपरिच्छेद इत्यङ्गीकृत आत्मना

॥२६॥

चिदणोरस्य भावस्य प्रत्यग्रं यत्र वेदनम् ।

स तत्रोत्तरकालेन पूर्वाभिख्यां करिष्यति

॥२७॥

अन्यस्मिन्नेकदेशे सा ऊर्ध्वाभिख्यां करिष्यति ।

एवं दिगभिधानादि कल्पयिष्यति स क्रमात्

॥२८॥

देशकालक्रियाद्रव्यशब्दानामर्थवेदनम् ।

भविष्यति स्वयमसावाकाशविशदोऽपि सन्

॥२९॥

इत्थं स्वानुभवेनैष व्योम्नैव व्योमरूपभृत् ।

आतिवाहिकनामान्तर्देहः संपद्यते चितेः

॥३०॥

एष एव चिरं कालं तत्र भावनया तया ।

गृह्णाति निश्चयं पूर्णमाधिभौतिकमात्मनः

॥३१॥

व्योम्ना व्योम्न्येव रचितो निर्मलेनेति विभ्रमः ।

असता सत्समास्तीर्णस्तापनद्या जलं यथा

॥३२॥

संकल्पनामुपादत्ते स्वदेहे गगनाकृतिः ।

शिरःशब्दार्थदां कांचित्पादशब्दार्थदां क्वचित्

॥३३॥

उरःपार्श्वादिशब्दार्थमयीं क्वचिदनाविलाम् ।

भावाभावग्रहोत्सर्गशब्दाद्यर्थमयीमपि

॥३४॥

नियताकारकलनां देशकालादियन्त्रिताम् ।

विषयोन्मुखतां यातामिन्द्रियव्रातवेधिताम्

॥३५॥

सोणुः पश्यत्यथाकारमात्मनः स्वात्मकल्पितम् ।

हस्तपादादिकलितं चित्तादिकलनान्वितम्

॥३६॥

एवं संपद्यते ब्रह्मा तथा संपद्यते हरिः ।

एवं संपद्यते रुद्र एवं संपद्यते कृमिः

॥३७॥

न च किंचन संपन्नं यथास्थितमवस्थितम् ।

शून्यं शून्ये विलसितं ज्ञप्तिर्ज्ञप्तौ विजृम्भिता

॥३८॥

प्रतिकन्दः शरीराणां बीजं त्रैलोक्यवीरुधाम् ।

सर्गार्गलप्रदो मुक्तेः संसारासारवारिदः

॥३९॥

कारणं सर्वकार्याणां नेता कालक्रियादिषु ।

सर्वाद्यः पुरुषः स्वैरमित्यनुत्थित उत्थितः

॥४०॥

नास्य भूतमयो देहो नास्यास्थीनि शरीरके ।

अवष्टब्धुमसौ मुष्ट्या शक्यते न तु केनचित्

॥४१॥

तेनाब्धिमेघसंग्रामसिंहगर्जोर्जितात्मना ।

अपि सुप्तनरेणेव नूनं मौनवता स्थितम्

॥४२॥

जाग्रतः स्वप्नसंदृष्टयोद्धारभटिवेदनम् ।

यथा स्मृतिगतं नासन्न सत्तद्वदसौ स्थितः

॥४३॥

बहुयोजनलक्षौघप्रमाणोऽपि बृहद्वपुः ।

परमाण्वन्तरे भाति लोमान्तस्थजगत्र्त्रयः

॥४४॥

कुलशैलगुणौघात्मा जगद्धन्दात्मकोऽपि सन् ।

कुलायं धानकामात्रमपि नो पूरयत्यजः

॥४५॥

जगत्कोटिशताभोगविस्तीर्णोऽप्यणुमात्रकम् ।

वस्तुतो व्याप्तवानेष न देशं स्वप्नशैलवत्

॥४६॥

स्वयंभूरेष कथितो विराडेष स उच्यते ।

ब्रह्माण्डात्मा जगद्देहो वस्तुतस्तु नभोमयः

॥४७॥

सनातन इति प्रोक्तो रुद्र इत्यपि संज्ञितः ।

इन्द्रोपेन्द्रमरुन्मेघशैलजालादिदेहकः

॥४८॥

तेजोणुमात्रं प्रथितं चेतित्वात्प्रथमं वपुः ।

क्रमेण स्फारसंवित्तिर्महानहमिति स्थितः

॥४९॥

स्पन्दसंवेदनात्तेन स्पन्द इत्यनुभूयते ।

यः स एवानिलाभिख्यो वातस्कन्धात्मना स्थितः

॥५०॥

प्राणापानपरिस्पन्दो वेदनादनुभूयते ।

तेन यः सोऽयमाकाशे वातस्कन्ध उदाहृतः

॥५१॥

चित्ताद्ये कल्पितास्तेन बालेनेव पिशाचिकाः ।

तेजःकणा असन्तोऽपि त एते धिष्ण्यतां गताः

॥५२॥

प्राणापानपरावर्तदोला तदुदरोदिता ।

वातस्कन्धाभिधां धत्ते जगत्तद्धृदयं महत्

॥५३॥

प्रतिच्छन्दशरीराणां प्रथमं बीजमेष सः ।

जगद्गतानां सर्वेषामाकल्पव्यवहारिणाम्

॥५४॥

प्रतिच्छन्द्याद्यदेतस्मादुत्थिता जगदात्मना ।

देहास्तदा यथा बाह्यमन्तरेषां तथा स्थितम्

॥५५॥

चितिस्तस्याद्यबीजस्य पूर्वमेव यथोदिता ।

तथैवाद्यापि जीवेऽन्तस्तथोदेति तदीहिता

॥५६॥

श्लेष्मपित्तानिलास्तस्य चन्द्रार्कपवनास्त्रयः ।

ग्रहा ऋक्षगणास्तस्य प्राणाष्ठीवनसीकराः

॥५७॥

तस्यास्थीन्यद्रिजालानि मेदसो जातिका घनाः ।

शिरः पादौ त्वचं देहान्पश्यामस्तस्य नो वयम्

॥५८॥

वपुर्विराजो जगदङ्ग विद्धि

संकल्परूपस्य हि कल्पनात्म ।

आकाशशैलावनिसागरादि

सर्वं चिदाकाशमतः प्रशान्तम्

॥५९॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे उत्तरार्धे पाषाणो० विराडात्मवर्णनं नाम त्रिसप्ततितमः सर्गः ।।७३ ।।