मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उपशमप्रकरणम् — सर्गः ७०

3
योगवासिष्ठम् · उपशमप्रकरणम् · 70

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

सप्ततितमः सर्ग

॥७०॥

श्रीवसिष्ठ उवाच ।

असंसङ्गसुखाभ्याससंस्थितैर्विततात्मभिः ।

व्यवहारिभिरप्यन्तर्वीतशोकभयैः स्थितम्

॥१॥

प्रक्षुब्धाक्षुब्धदेहस्याविसंवादेन संविदः ।

अन्तःपूर्णस्य वदने श्रीरिन्दोरिव लक्ष्यते

॥२॥

चेत्यहीनं चिदालम्बं मनो यस्य गतज्वरम् ।

तेनाम्बु कतकेनेव जनता संप्रसीदति

॥३॥

नित्यमात्मदृशा लीनो ज्ञः स्वस्थश्चञ्चलोऽपि सन् ।

क्षुब्धो दृश्यत एवासौ प्रतिबिम्बार्कवन्मुधा

॥४॥

आत्मारामा महात्मानः प्रबुद्धाः परमोदयाः ।

बहिः पिच्छाग्रतरला अन्तर्मेरुरिवाचलाः

॥५॥

चित्तमात्मत्वमायातं सुखदुःखानुरञ्जनम् ।

नोपैति रङ्गसंयुक्तो मसृणः स्फटिको यथा

॥६॥

संसारदृष्टिरुदितं ज्ञातलोकपरावरम् ।

न रञ्जयति सच्चित्तं जललेखा यथाम्बुजम्

॥७॥

आत्मध्यानमयोऽध्याने प्रबोधं परमात्मनः ।

कलनामलनिर्मुक्तः स्वसक्त इति कथ्यते

॥८॥

आत्मारामतया जीवो यात्यसंसङ्गतामिह ।

आत्मज्ञानेन संसङ्गस्तनुतामेति नान्यथा

॥९॥

जाग्रत्येव सुषुप्तस्थो जीवो भवति राघव ।

अस्यां दृशि गतोऽद्वन्द्वो नित्यानस्तमयोदयः

॥१०॥

अत्र प्रौढिमुपायातः सूर्यतामेति पावनीम् ।

परिणामवशादिन्दुरमावास्यार्कतामिव

॥११॥

चित्ते चित्तदशाहीने या स्थितिः क्षीणचेतसाम् ।

सोच्यते शान्तकलना जाग्रत्येव सुषुप्तता

॥१२॥

तां सुषुप्तदशामेत्य जीवन्व्यवहरन्नरः ।

सुखदुःखवरत्राभिर्न कदाचन कृष्यते

॥१३॥

जाग्रत्येव सुषुप्तस्थो यः करोति जगत्क्रियाम् ।

तं यन्त्रपुत्रकमिव नायाति सुखदुःखदृक्

॥१४॥

चित्तस्य बाधिका शक्तिर्भावाभावोपतापदा ।

आत्मतामागते चित्ते तस्य किं बाधते कथम्

॥१५॥

सुषुप्तबुद्धिः कर्माणि पूर्वमेवावहेलया ।

कुर्वन्न बध्यते जीवो जीवन्मुक्ततया स्थितः

॥१६॥

सौषुप्तीं वृत्तिमाश्रित्य कुरु मा कुरु वानघ ।

कर्म प्रकृतिजं पाकवशादुपगतं स्थितम्

॥१७॥

नादानं न परित्यागः कर्मणोऽज्ञाय रोचते ।

तिष्ठन्त्यवगतात्मानो यथाप्राप्तानुवर्तिनः

॥१८॥

कुर्वन्नपि न कर्तासि सुषुप्त्यैकस्थया धिया ।

अकर्तापि च कर्तासि यथेच्छसि तथा कुरु

॥१९॥

यथा न किंचित्कलयन्मञ्चके स्पन्दते शिशुः ।

तथा फलान्यकलयन्कुरु कर्माणि राघव

॥२०॥

अचेत्यचित्पदस्वस्थो जाग्रत्यपि सुषुप्तधीः ।

यद्यत्करोति लब्धात्मा तस्मिंस्तस्य न कर्तृता

॥२१॥

दशामासाद्य सौषुप्तीं स्वचित्ते च विवासनः ।

अन्तः शीतलतामेति ज्ञो रसेन यथा शशी

॥२२॥

सुषुप्तस्थो महातेजाः पूर्णः पूर्णेन्दुबिम्बवत् ।

समः सर्वास्ववस्थासु भवत्यद्रिर्यथर्तुषु

॥२३॥

सुषुप्तसंस्थो धीरात्मा बहिरायाति लोलताम् ।

क्रियासु नो भवत्कम्पः प्रस्पन्दित इवाचलः

॥२४॥

सुषुप्तावस्थितो भूत्वा देहं विगतकल्मषः ।

पातयाश्वथ वा दीर्घं कालं धारय शैलवत्

॥२५॥

एषैव राम सौषुप्ती स्थितिरभ्यासयोगतः ।

प्रौढा सती तुर्यमिति कथिता तत्त्वकोविदैः

॥२६॥

आनन्दमय एवान्तः प्रक्षीणसकलामयः ।

अत्यन्तास्तं गतमना भवति ज्ञो महोदयः

॥२७॥

तत्रस्थो ज्ञः प्रमुदितः परमानन्दघूर्णितः ।

लीलामिवेमां रचनां सदा समनुपश्यति

॥२८॥

वीतशोकभयायासो गतसंसारसंभ्रमः ।

तुर्यावस्थामुपारूढो भूयः पतति नात्मवान्

॥२९॥

प्राप्य स्वां पदवीं पुण्यां यथेदं भ्रमितं जगत् ।

शैलसंस्थ इवाधःस्थं हसन्पश्यति धीरधीः

॥३०॥

अस्यां तु तुर्यावस्थायां स्थितिं प्राप्याविनाशिनीम् ।

आनन्दैकान्तलीनत्वादनानन्दपदं गतः

॥३१॥

अनानन्दमहानन्दकलातीतस्ततोऽपि हि ।

मुक्त इत्युच्यते योगी तुर्यातीतं पदं गतः

॥३२॥

परिगलितसमस्तजन्मपाशः

सकलविलीनतमोमयाभिमानः ।

परमरसमयीं प्रयाति सत्तां

जलगतसैन्धवखण्डवन्महात्मा

॥३३॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे असंसङ्गविकल्पोपदेशो नाम सप्ततितमः सर्गः ।।७० ।।