मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः ५७

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 57

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीराम उवाच ।

त्वामप्युदितनिर्वाणमहंकारपिशाचकः ।

बाधते किमिति ब्रूहि मुने संदेहशान्तये

॥१॥

श्रीवसिष्ठ उवाच ।

अहंभावं विना देहस्थितिस्तज्ज्ञाज्ञयोरिह ।

आधेयस्य निराधारा न संस्थेहोपपद्यते

॥२॥

अयं त्वत्र विशेषस्तं शृणु विश्रान्तचेतसः ।

श्रुतेन येनाहंभावपिशाचः शान्तिमेति ते

॥३॥

अहंभावपिशाचोऽयमज्ञानशिशुनामुना ।

अविद्यमान एवान्तः कल्पितस्तेन संस्थितः

॥४॥

अज्ञानमपि नास्त्येव प्रेक्षितं यन्न लभ्यते ।

विचारिणा दीपवता स्वरूपं तमसो यथा

॥५॥

यथा यथा विलोक्यते तथा तथा विलीयते ।

इहाज्ञतापिशाचिका तथा विचारिता सती

॥६॥

किल सत्यामविद्यायामज्ञतोदेति शाश्वती ।

बुद्धिमोहात्मिका यक्षी निर्देहैव यथा निशि

॥७॥

सति सर्गे त्वविद्यायाः संभवो नान्यतः क्वचित् ।

सति द्वितीये शशिनि द्वितीयो विद्यते शशः

॥८॥

सर्गस्त्वयमजातत्वादज्ञज्ञातो न विद्यते ।

न जातः कारणाभावात्पूर्वमेव खवृक्षवत्

॥९॥

परमाकाशकोशान्तरादिसर्गे निरामये ।

पृथ्व्यादेरुपलम्भस्य भवेत्किमिव कारणम्

॥१०॥

मनःषष्ठेन्द्रियातीतं मनःषष्ठेन्द्रियात्मनः ।

साकारस्य निराकारं कथं भवति कारणम्

॥११॥

बीजात्कारणतः कार्यमङ्कुरः किल जायते ।

न बीजमपि यत्रास्ति तत्र स्यादङ्कुरः कुतः

॥१२॥

कारणेन विना कार्य न च नामोपपद्यते ।

कदा क इव खे केन दृष्टो लब्धः स्फुटो द्रुमः ।1

॥१३॥

संकल्पेनाम्बरे यद्वद्दृश्यते विटपादिकम् ।

स संकल्पस्तथाभूतो न तत्रास्ति पदार्थता

॥१४॥

एवं येयं चिदाकाशे सर्गादावनुभूयते ।

शून्यरूप इवाकाशे सर्गस्थितिरनर्गला

॥१५॥

सम एव चिदाकाशः कचत्यात्मनि तत्तथा ।

स्वभाव एव सर्गाख्यश्चित्त्वाच्चैतन्यमीश्वरः

॥१६॥

स्वप्नसर्गोऽत्र दृष्टान्तः प्रत्यहं योऽनुभूयते ।

स्वयं संवेदने स्वप्ने स्फुरत्यद्रिपुराकृतिः

॥१७॥

चित्स्वभावे यथा स्वप्ने आस्ते सर्ग इवेह यः ।

असर्गे सर्गवद्भाति तथा पूर्व महाम्बरे

॥१८॥

अवेद्यवेदनं शुद्धमेकं भात्यजमव्ययम् ।

सर्गादौ यदनाद्यन्तं स्थितः सर्गः स एव नः

॥१९॥

नेह सर्गोऽस्ति नैवायं पृथ्व्यादिगणगोलकः ।

सर्व शान्तमनालम्बं ब्रह्मैव ब्रह्मणि स्थितम्

॥२०॥

सर्वशक्त्यात्म तद्ब्रह्म यथा कचति यादृशम् ।

रूपमत्यजदेवाच्छं तथा भवति तादृशम्

॥२१॥

यथा स्वप्नपुरं जन्तोश्चिन्मात्रप्रविजृम्भितम् ।

तथैव सर्गः सर्गादौ शुद्धचिन्मात्रजृम्भितम्

॥२२॥

स्वच्छे चित्परमाकाशे चिदाकाशो य आस्थितः ।

स्वभाव एव सर्गोऽसाविति तेनैव भावितः

॥२३॥

भाव्यभावकभावादिभूमीनां भावनं भृशम् ।

सर्वं चिन्नभ एवाच्छमात्मनात्मनि संस्थितम्

॥२४॥

एवं स्थिते कुतः सर्गः कुतो विद्या क चाज्ञता ।

ब्रह्म शान्तं घनं सर्वं क्वाहंकारादयः स्थिताः

॥२५॥

अहंभावस्य संशान्तिरेषाऽसौ कथिता तव ।

अहंभावः परिज्ञातः पिशाच इव शाम्यति

॥२६॥

मया त्वेवमहंभावः परिज्ञातो यदाखिलः ।

तदा मे विद्यमानोऽपि निष्फलः शरदभ्रवत्

॥२७॥

चित्राग्निदाहो विज्ञातो यथा दाह्येषु निष्फलः ।

तथाहंभावसर्गादि ज्ञातं निष्फलतामियात्

॥२८॥

इति मेऽहंकृतेस्त्यागे रागे च समता यदा ।

तदा व्योम्न इवाव्योम्नः सर्गे सर्गे च मे स्थितिः

॥२९॥

अहंभावस्य नैवाहं नाहंभावो ममेति च ।

तेन विद्धि चिदाकाशमेवेदमिति निर्घनम्

॥३०॥

यथा मम तथान्येषामपि बोधवतामिह ।

अग्नित्वमिव चित्राग्नेर्नास्त्ययं बोधविभ्रमः

॥३१॥

नाहमस्मि न चान्योऽस्ति सर्वं नास्तीति निश्चये ।

प्रकृतव्यवहारस्त्वं शिलामौनमयो भव

॥३२॥

आकाशकोशविशदाकृतिरेव तिष्ठ निर्देशवच्चिरमपह्नुतसर्वभावः ।

अद्यादितश्च किल चिन्मयमेव सर्वे नो दृश्यमस्ति शिवमेवमशेषमित्थम्

॥३३॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मोक्षोपायेषुनिर्वाणप्रकरणे उ० पा० विदितवेद्याहंकारविचारो नाम सप्तपञ्चाशः सर्गः ५७