मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः १९४

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 194

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीराम उवाच ।

सर्वात्मसर्वभावेषु येन येन यदा यदा ।

यथा भाति स्वयंबोधस्तथानुभवति स्वयम्

॥१॥

स्वभाव एव तिष्ठन्ति सर्गाः संमिलिता अपि ।

अत्रापि स्वीकृता एव नानारत्नांशवो यथा

॥२॥

अत्र दृष्टमदृष्टं च मिथो विशति गच्छति ।

जगद्रश्मिघनं रत्नं नानारत्नघनं यथा

॥३॥

दीपानामिव सर्गाणां बहूनां ज्वलतां परम् ।

केषांचिदस्त्यनुभवो मिथः केषांचिदेव नो

॥४॥

अप्स्वप्स्विव रसोऽम्भोधावावर्तरमणावनौ ।

सर्गेऽस्ति प्रत्यणुं तस्मिन्नापि सर्गास्तथा क्रमः

॥५॥

सर्वत्र सर्वतो नित्यं चिद्धनस्याम्बुवेदनम् ।

संख्यातुं केन शक्यन्ते सर्गाधारपरम्पराः

॥६॥

यथावयविता भिन्ना नैवावयविनः क्वचित् ।

शब्दभेदादृते भिन्ना न तथा सर्गता परे

॥७॥

एकस्यानन्तरूपस्य कारणाभावतः स्वयम् ।

नोदेति न च यात्यस्तं जगदादिः स्वभावतः

॥८॥

तपन्ती ज्ञप्तिरेवेयमखण्डज्ञेयतामिमाम् ।

करोत्यकर्तृरूपैव समालोकमिवार्कभाः

॥९॥

वैतृष्ण्यात्सर्वभावानां समाप्त्यैवाक्षयं स्वयम् ।

संपद्यते समाधानं यत्तन्निर्वाणमुच्यते

॥१०॥

न बुद्ध्या बुद्ध्यते बोधो बोधाबुद्धेर्न बोध्यते ।

न बुद्ध्यते वा तेनापि बोध्यो बोधः कथं भवेत्

॥११॥

प्रबुद्ध एव सुप्ताभः स्वयंबोधो विबुध्यते ।

देशकालाद्यभावेऽपि मध्याह्नेऽर्कातपो यथा

॥१२॥

सर्वकर्मवितृष्णानां शान्तेच्छानां प्रबोधतः ।

सतामनिच्छतामेव निर्वाणं संप्रवर्तते

॥१३॥

प्रबुद्धबोधो ध्यानस्थः स्वभावे केवले स्थितः ।

न किंचिदपि गृह्णाति न किंचिदपि चोज्झति

॥१४॥

यो यथास्थित एवास्ते पश्यन्दीप इवाक्रियः ।

अमनोमानमननो मनोमननवानपि

॥१५॥

व्युत्थाने विश्वरूपाख्यमन्यत्र ब्रह्मसंज्ञितम् ।

सर्गासर्गात्म चिन्मात्रं सत्यं सर्वत्र भासते

॥१६॥

अभिन्नबोधसद्रूपस्वरूपानुभवे स्थितः ।

व्युत्थितः सन्निरुद्धश्च यः पश्यति स शाम्यति

॥१७॥

जगत्पदार्थसार्थानां बोधमात्रैकनिष्ठताम् ।

विना नास्त्यपरा सत्ता व्योम्नः शून्येतरा यथा

॥१८॥

शिष्यते स्फीतबोधानां केवलानन्तबोधता ।

सापि स्वपरिणामेन परेणायात्यवाच्यताम्

॥१९॥

तद्विश्रान्तौ परा सत्ता शिष्यते वा न शिष्यते ।

या काप्यत्यन्तशान्तानां न वाग्गोचरमेति सा

॥२०॥

या समस्य पराकाष्ठा सैव बोधस्य सन्मयी ।

सर्गस्तन्मय एवातः सकलं शान्तमव्ययम्

॥२१॥

निर्वाणाय वितृष्णाय स्वच्छशीतलसंविदे ।

स्पृहयन्ति सदा सत्तां ब्रह्मविष्णुहरा अपि

॥२२॥

सर्वार्थात्मैव सर्वत्र सर्वदा सर्वथोदितम् ।

चेतनं शुद्धमेवास्ति नाशो नास्योपपद्यते

॥२३॥

अत्यन्ततप्तः संसारो निर्वाणमतिशीतलम् ।

अतिशीतलमेवास्ति तप्तस्त्वेव न विद्यते

॥२४॥

संचेतन्ति शिलान्तस्था यथालं शालभञ्जिकाः ।

अनुत्कीर्णास्तथा ब्रह्म चेततीदमखण्डितम्

॥२५॥

यथा चेतति सौम्याम्बुकोशस्थं वीचिमण्डलम् ।

तथा चेतति कोशस्य महाचिच्चेत्यमव्ययम्

॥२६॥

अविभक्तो विभागस्थैरिव शान्तैरनन्तकैः ।

परमार्थाम्बराभोगैस्त्वबोधात्मत्वमन्थरैः

॥२७॥

यैर्यैर्यथास्व आत्मान्तर्भावितश्चेतितश्चिरम् ।

भोगमोक्षप्रभेदेषु तेषां तेषां तथोदितः

॥२८॥

मृते वाप्यमृते बन्धौ स्वप्ने स्वप्नविबोधिनः ।

न यथोदेति सत्याख्या तथा दृश्येषु तद्विदः

॥२९॥

यदिदं किल दृश्यादि तच्छान्तमखिलं शिवम् ।

भावितेऽवगतेऽष्यन्तीरति भ्रान्तेः क उद्भवः

॥३०॥

सर्वथा देहसंख्येषु वैतृष्ण्यमुपजायते ।

सम्यग्बोधे सति स्वप्न इवापि स्वार्थकादिषु

॥३१॥

वैतृष्णावृधेते बोधो वोधाद्वैतृष्ण्यवर्धनम् ।

परस्परेण प्रकटे एते कुड्यप्रकाशवत्

॥३२॥

येन बोधेन वैतृष्ण्यं धनदारसुतादि वा ।

स्वनूनमपि संपन्नं जाड्यं तत्संस्थितं तथा

॥३३॥

एतावदेव बोधस्य बोधत्वं यद्वितृष्णता ।

पाण्डित्यं नाम तन्मौर्ख्य यत्र नास्ति वितृष्णता

॥३४॥

न तु वैतृष्ण्यवोधाढ्यौ न परस्परवर्धितौ ।

असत्यावेव तौ नाम नष्टौ चित्रहुताशवत्

॥३५॥

परमा बोधवैतृष्ण्यसंपत्तिर्मोक्ष उच्यते ।

तत्रानन्ते पदे शान्ते वसता च नशोच्यते

॥३६॥

गतं गम्यं कृतं कायं दृष्टं दृश्यमशेषतः ।

यावत्सर्वे शिवं शान्तमेकमाद्यमनामयम्

॥३७॥

आत्मारामस्य शान्तस्य वैतृष्ण्यस्यानहकृतेः ।

असंकल्पैव भवति स्थितिः स्वस्येव निर्मला

॥३८॥

सहस्रेभ्यः सहस्रेभ्यः कश्चिदुत्थाय वीर्यवान् ।

भिनत्ति वासनाजालं पञ्जरं केसरी यथा

॥३९॥

प्राप्तज्योतिर्बोधशुद्धिः परमन्तःप्रकाशवान् ।

नीहारः शरदीवाशु स्वयमेवोपशाम्यति

॥४०॥

ज्ञातज्ञेयस्त्वसंकल्पः संकल्पातिशयाशयः ।

अवासनो व्यवहृतौ वातवत्स्पन्दते न वा

॥४१॥

आसीद्धीरान्मनस्कारैर्भ्रान्तिमात्रैकनिश्चयात् ।

यः सर्वत्र खवद्भावस्तदवासनमासितम्

॥४२॥

निर्वासने भाव उदारसत्त्वे

ब्रह्माखिलं दृश्यमिति प्रबुद्धे ।

स्थिरैकनिर्वाणमतावनन्तो

मोक्षाभिधानः प्रशमोऽभ्युदेति

॥४३॥

इत्यार्षे श्रीवत्सिष्ठमहारामायणे वाल्मी० दे० मो० निर्वा- उ० रामविश्रानयुपगमो नाम चतुर्नवत्यधिकशततमः सर्गः ।। १९४ ।।