मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उत्पत्तिप्रकरणम् — सर्गः ११५

3
योगवासिष्ठम् · उत्पत्तिप्रकरणम् · 115

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवाल्मीकिरुवाच ।

एवमुक्तो भगवता वसिष्ठेन महात्मना ।

रामः कमलपत्राक्ष उन्मीलित इवाबभौ

॥१॥

विकासितान्तःकरणः शोभामलमुपाययौ ।

आश्वस्तस्तमसि क्षीणे पद्मोऽर्कालोकनादिव

॥२॥

बोधविस्मयसंजातसौम्यस्मितसिताननः ।

दन्तरश्मिसुधाधौतामिमां वाचमुवाच ह

॥३॥

श्रीराम उवाच ।

अहो नु चित्रं पद्मोत्थैर्बद्धास्तन्तुभिरद्रयः ।

अविद्यमाना या विद्या तया सर्वे वशीकृताः

॥४॥

इदं तद्वज्रतां यातं तृणमात्रं जगत्त्रये ।

अविद्ययापि यन्नामासदेव सदिव स्थितम्

॥५॥

अस्याः संसारमायाया नद्यास्त्रिभुवनाङ्गणे ।

रूपं मदवबोधार्थं कथयानुग्रहात्पुनः

॥६॥

अन्यो यत्संशयोऽयं मे महात्मन्हृदि वर्तते ।

लवणोऽसौ महाभागः किं नामापदमाप्तवान्

॥७॥

संश्लिष्टयोराहतयोर्द्वयोर्वा देहदेहिनोः ।

ब्रह्मन्क इव संसारी शुभाशुभफलैकभाक्

॥८॥

लवणस्य तथा दत्त्वा तामापदमनुत्तमाम् ।

किं गतश्चञ्चलारम्भः कश्चासावैन्द्रजालिकः

॥९॥

श्रीवसिष्ठ उवाच ।

काष्ठकुड्योपमो देहो न किंचन इहानघ ।

स्वप्नालोक इवानेन चेतसा परिकल्प्यते

॥१०॥

चेतस्तु जीवतां यातं चिच्छक्तिपरिभूषितम् ।

विद्यात्संसारसंरम्भं कपिपोतकचञ्चलम्

॥११॥

देही हि कर्मभाग्यो हि नानाकारशरीरधृक् ।

अहंकारमनोजीवनामभिः परिकल्प्यते

॥१२॥

तस्येमान्यप्रबुद्धस्य न प्रबुद्धस्य राघव ।

सुखदुःखान्यनन्तानि शरीरस्य न कानिचित्

॥१३॥

अप्रबुद्धं मनो नानासंज्ञाकल्पितकल्पनम् ।

वृत्तीरनुपतच्चित्रा विचित्राकृतितां गतम्

॥१४॥

अप्रबुद्धं मनो यावन्निद्रितं तावदेव हि ।

संभ्रमं पश्यति स्वप्ने न प्रबुद्धं कदाचन

॥१५॥

अज्ञाननिद्राक्षुभितो जीवो यावन्न बोधितः ।

तावत्पश्यति दुर्भेदं संसारारम्भविभ्रमम्

॥१६॥

संप्रबुद्धस्य मनसस्तमः सर्वं विलीयते ।

कमलस्य यथा हार्दं दिनालोकविकासिनः

॥१७॥

चित्ताविद्यामनोजीववासनेति कृतात्मभिः ।

कर्मात्मेति च यः प्रोक्तः स देही दुःखकोविदः

॥१८॥

जडो देहो न दुःखार्हो दुःखी देह्यविचारतः ।

अविचारो घनाज्ञानादज्ञानं दुःखकारणम्

॥१९॥

शुभाशुभानां धर्माणां जीवो विषयतां गतः ।

अविवेकैकदोषेण कोशेनेव हि कीटकः

॥२०॥

अविवेकामयोन्नद्धं मनो विविधवृत्तिमत् ।

नानाकारविहारेण परिभ्रमति चक्रवत्

॥२१॥

उदेति रौति हन्त्यत्ति याति वल्गति निन्दति ।

मन एव शरीरेऽस्मिन्न शरीरं कदाचन

॥२२॥

यथा गृहपतिर्गेहे विविधं हि विचेष्टते ।

न गृहं तु जडं राम तथा देहे हि जीवकः

॥२३॥

सर्वेषु सुखदुःखेषु सर्वासु कलनासु च ।

मनः कर्तृ मनो भोक्तृ मानसं विद्धि मानवम्

॥२४॥

अत्र ते श्रृणु वक्ष्यामि वृत्तान्तमिममुत्तमम् ।

लवणोऽसौ यथा यातश्चण्डालत्वं मनोभ्रमात्

॥२५॥

मनः कर्मफलं भुङ्कते शुभं वाऽशुभमेव वा ।

यथैतद्बुद्ध्यसे नूनं तथाकर्णय राघव

॥२६॥

हरिश्चन्द्रकुलोत्थेन लवणेन पुरानघ ।

एकं तेनोपविष्टेन चिन्तितं मनसा चिरम्

॥२७॥

पितामहो मे सुमहान्राजसूयस्य याजकः ।

अहं तस्य कुले जातस्तं यजे मनसा मखम्

॥२८॥

इति संचिन्त्य मनसा कृत्वा संभारमादृतः ।

राजसूयस्य दीक्षायां प्रविवेश महीपतिः

॥२९॥

ऋत्विजश्चाह्वयामास पूजयामास सन्मुनीन् ।

देवानामन्त्रयामास ज्वालयामास पावकम्

॥३०॥

यथेच्छं यजमानस्य मनसोपवनान्तरे ।

ययौ संवत्सरः साग्रो देवर्षिद्विजपूजया

॥३१॥

भूतेभ्यो द्विजपूर्वेभ्यो दत्त्वा सर्वस्वदक्षिणाम् ।

विबुध्यत दिनस्यान्ते स्व एवोपवने नृपः

॥३२॥

एवं स लवणो राजा राजसूयमवाप्तवान् ।

मनसैव हि तुष्टेन युक्तं तस्य फलेन च

॥३३॥

अतश्चित्तं नरं विद्धि भोक्तारं सुखदुःखयोः ।

तन्मनः पावनोपाये सत्ये योजय राघव

॥३४॥

पूर्णे देशे सुसंपूर्णः पुमान्नष्टे विनश्यति ।

देहोऽहमिति येषां तु निश्चयस्तैरलं बुधाः

॥३५॥

उच्चैर्विवेकवति चेतसि संप्रबुद्धे

दुःखान्यलं विगलितानि विविक्तबुद्धेः ।

भास्वत्करप्रकटिते ननु पद्मखण्डे

संकोचजाड्यतिमिराणि चिरं क्षतानि

॥३६॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० मो० उत्पत्तिप्रकरणे सुखदुःखभोक्तृत्वोपदेशो नाम पञ्चदशोत्तरशततमः सर्गः ।। ११५ ।।